१२ अश्वमेधाङ्ग-पर्याप्तिहोममन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

भू॒तम्भव्य॑म्भवि॒ष्यद्वष॒ट्त्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्त्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्त्स्वाहा॒ नमᳶ॑ पृथि॒व्य॑न्तरि॑क्ष॒न्द्यौर्वष॒ट्त्स्वाहा॒ नमो॒ऽग्निर्वा॒युस्सूर्यो॒ वष॒ट्त्स्वाहा॒ नमᳶ॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्त्स्वाहा॒ नमोऽन्न॑ङ्कृ॒षिर्वृष्टि॒र्वष॒ट्त्स्वाहा॒ नमᳶ॑ पि॒ता पु॒त्रᳶ पौत्रो॒ वष॒ट्त्स्वाहा॒ नमो॒ भूर्भुव॒स्सुव॒र्वष॒ट्त्स्वाहा॒ नमः॑ ॥ [33]

विश्वास-प्रस्तुतिः

भू॒तम् भव्य॑म् भवि॒ष्यद् वष॒ट्त्स्वाहा॒ नमः॑ ।
ऋक्साम॒ यजु॒र् वष॒ट्त्स्वाहा॒ नमः॑ ।
गा॒य॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट्त्स्वाहा॒ नमः॑ । पृ॒थि॒व्य॑न्तरि॑क्ष॒न् द्यौर्वष॒ट्त्स्वाहा॒ नमः॑ ।
अ॒ग्निर्वा॒युस्सूर्यो॒ वष॒ट्त्स्वाहा॒ नमः॑ ।
प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्त्स्वाहा॒ नमः॑ । अन्न॑ङ् कृ॒षिर्वृष्टि॒र् वष॒ट्त्स्वाहा॒ नमः॑ ।
पि॒ता पु॒त्रᳶ पौत्रो॒ वष॒ट्त्स्वाहा॒ नमः॑ ।
भूर्भुव॒स् सुव॒र् वष॒ट्त्स्वाहा॒ नमः॑ ॥ [33]

मूलम्

भट्टभास्कर-टीका

1अथ पर्याप्तीर्जुहोति - भूतमित्यादि ॥ वषट् स्वाहा नम इति ब्रह्मणो नामानि । एतैश्च भूतानां सत्यत्वमाख्यायते । एतानि सत्यानीत्यर्थः । एतेभ्यः सत्येभ्यः स्वाहेति शेषः । सत्यविशेषाणां भूतादीनां वाचकविशेषा वषडादयः । विलक्षणवाचकाभिसंवन्धेन च एतेषां वैलक्षण्यं व्याख्यायते । सर्वे निगदसिद्धाः । कालवेदच्छन्दोलोकदेवताप्राणजीवनात्मव्याहृतयः क्रमेण सत्याः प्रतिपाद्यन्ते ॥

इति सप्तमे तृतीये द्वादशोनुवाकः ॥