१ गायत्री २ सतः पङ्क्तिः ३ उपरिष्ठाद् बृहती ४ द्विपदा जगती ५ अभिसारिणी ६ महाबृहती ७ ज्योतिषमती ८ अस्तारपङ्क्तिः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णाय्ँ॒यᳶ पु॒रोहि॑तः ।
विश्वास-प्रस्तुतिः
अ॒र्वाङ् य॒ज्ञस् सङ्क्रा॑मत्व् अ॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णाय्ँ॒ यᳶ पु॒रोहि॑तः ।
मूलम्
अ॒र्वाङ् य॒ज्ञस् सङ्क्रा॑मत्व् अ॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णाय्ँ॒ यᳶ पु॒रोहि॑तः ।
भट्टभास्कर-टीका
1अथाश्वमेधे अष्टावाहुतीः जुहोति - अर्वाङित्यादि ॥ प्रथमा गायत्री त्रिपदा । अर्वाङितो मुखो यज्ञः संक्रामतु यजमानं समागच्छतु । कीदृशः? ऋषीणां ज्ञानवतां यजमानानां यः पुरोहितः सर्वार्थेषु साधनभावेन पुरस्तान्निहितः । ‘पुरोव्ययम्’ इति गतित्वात् ‘गतिरनन्तरः’ इति प्रकृतिस्वरत्वम् । सोयं यज्ञो मामभि मामेव लक्षीकृत्य अधिकमर्वाक् संक्रामतु आगच्छतु । अर्वागञ्चतीति ‘ऋत्विक्’ इत्यादिना क्विन्, ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम् । अमुष्माद्देवदत्तादेरपक्रम्य यो मां द्वेष्टि तं हित्वा मामभि संक्रामतु ॥
मूलम् (संयुक्तम्)
निर्दे॑व॒न्निर्वी॑रङ्कृ॒त्वा विष्क॑न्ध॒न्तस्मि॑न्हीयताय्ँ॒यो॑ऽस्मान्द्वेष्टि॑ । शरी॑रय्ँ यज्ञशम॒लङ्कुसी॑द॒न्तस्मि॑न्त्सीदतु॒ यो॑ऽस्मान्द्वेष्टि॑ ।
विश्वास-प्रस्तुतिः
निर्दे॑व॒न् निर्वी॑रङ्कृ॒त्वा विष्क॑न्ध॒न् तस्मि॑न्हीयताय्ँ॒ यो॑ऽस्मान् द्वेष्टि॑ ।
मूलम्
निर्दे॑व॒न् निर्वी॑रङ्कृ॒त्वा विष्क॑न्ध॒न् तस्मि॑न्हीयताय्ँ॒ यो॑ऽस्मान् द्वेष्टि॑ ।
भट्टभास्कर-टीका
2अथ द्वितीया - निर्देवमिति ॥ पङ्क्तिविशेषः । निर्देवं निर्गता देवा यस्मात्तं निस्स्वाहाकारवषट्कारतया देवैर्बहिष्कृतं निर्वीरं निर्गतवीरं देवेन पुरुषकारेण च विरहितं कृत्वा विष्कन्धं विविधशोषणं शरीरं कृपणं तस्मिन् हीयतां स्थाप्यताम् । हि गतौ । दधातेर्वा छान्दसो हिभावः । उत्तरार्धर्चे स्थितं शरीरग्रहणमिह संबध्यते । यद्वा - द्वेष्टरि निर्देवादिगुणे कृते तस्मिन् तस्य शरीरं विविधशोषं हीयतां क्षीयताम् । जहातेर्घुमास्थादिना ईत्वम् । स्कन्धेर्घञ् । ‘वेस्कन्देरनिष्ठायाम्’ इति षत्वम् । व्यत्ययेन घत्वम् । सर्वत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - विरूपस्कन्धावयवं शरीरम् । सुषामादित्वात् षत्वम् । तद्द्वेष्टरि स्थाप्यताम् । तादृशं वा तत्क्षीयतां प्रवृत्त्यभावेन ।
विश्वास-प्रस्तुतिः
शरी॑रय्ँ यज्ञशम॒लङ् कुसी॑द॒न् तस्मि॑न्त्सीदतु॒ , यो॑ऽस्मान्द्वेष्टि॑ ।
मूलम्
शरी॑रय्ँ यज्ञशम॒लङ् कुसी॑द॒न् तस्मि॑न्त्सीदतु॒ , यो॑ऽस्मान्द्वेष्टि॑ ।
भट्टभास्कर-टीका
तदेवाह - यज्ञशमलं शमेरौणादिको लप्रत्ययः । अगागमश्च । कुसीदं वृद्धिप्रयोगजीवनं यज्ञशमलं यज्ञानर्हत्वनिमित्तं तस्मिन् सीदतु जीविकात्वेन वर्तताम् । ततश्चायज्ञीयत्वं ‘यज्ञेन देवेभ्यः’ इति वचनात् न कदाचिदप्यनृणस्स्यात् । यज्ञनिमित्तानि च श्रेयांसि न प्राप्नुयात् । योस्वान् द्वेष्टीति ॥
मूलम् (संयुक्तम्)
यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सङ्क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान्य॒ज्ञस्य॒ तप॑सा॒ ते सवा॒हमा हु॑वे ।
विश्वास-प्रस्तुतिः
यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स् तेन॒ सङ्क्रा॑म॒ माम॒भि ।
ब्रा॒ह्म॒णान् ऋ॒त्विजो॑ दे॒वान्य॒ज्ञस्य॒ तप॑सा॒, ते सवा॒हमा हु॑वे ।
मूलम्
यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स् तेन॒ सङ्क्रा॑म॒ माम॒भि ।
ब्रा॒ह्म॒णान् ऋ॒त्विजो॑ दे॒वान्य॒ज्ञस्य॒ तप॑सा॒, ते सवा॒हमा हु॑वे ।
भट्टभास्कर-टीका
3अथ तृतीया - यज्ञ यज्ञस्येति ॥ उपरिष्टाद्बृहती चतुर्थस्य द्वादशा क्षरत्वात् अन्येषां चाष्टाक्षरत्वात् । उक्तं यज्ञो मामभिसंक्रामत्विति; अधुना यज्ञं प्रत्यक्षवदाह - हे यज्ञ! यज्ञस्य सम्यगनुष्ठितस्थ तव यत्तेजः तेन मामभिसंक्राम यथा मय्यपि तेजः स्यात्, यथा चाहं ब्राह्मणान् ऋत्विजो देवांश्च यज्ञस्य तव तपसा इह अस्मिन् प्रयोगे आह्वये आह्वयामि; तव हि तेजसा निर्भयोऽहं इमान् आह्वातुमर्हामि । हे सव! महायज्ञ! । ह्वयतेर्लटि शपो लुक् । ‘बहुलं छन्दसि’ इति संप्रसारणम् ॥
मूलम् (संयुक्तम्)
इ॒ष्टेन॑ प॒क्वमुप॑ [30]
ते॒ हु॒वे॒ स॒वा॒हम् । सन्ते॑ वृञ्जे सुकृ॒तँ सम्प्र॒जाम्प॒शून् ।
विश्वास-प्रस्तुतिः
इ॒ष्टेन॑ प॒क्वमुप॑ ते हुवे स॒वाहम् [30] ।
सन्ते॑ वृञ्जे सुकृ॒तँ सम्प्र॒जाम् प॒शून् ।
मूलम्
इ॒ष्टेन॑ प॒क्वमुप॑ ते हुवे स॒वाहम् [30] ।
सन्ते॑ वृञ्जे सुकृ॒तँ सम्प्र॒जाम् प॒शून् ।
भट्टभास्कर-टीका
4अथ चतुर्थी - इष्टेनेति ॥ द्विपदा जगती द्व्यक्षराधिका । अहमादिः द्वितीयः पादः । पादमध्येवस्यति छन्दोविचितिव्यत्ययोऽयम् । हे सव त्वयि मयि संक्रान्ते अहं तव इष्टेन त्वत्संबन्धिना यजमानेन पक्वमुपहुवे उपह्वयामि मम भोगार्थं आकाङ्क्षामि । किंच - तवेष्टेन सुकृतं प्रजां पशून् संवृजे समाकर्षामि ॥
मूलम् (संयुक्तम्)
प्रै॒षान्त्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तम्प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्त्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ।
विश्वास-प्रस्तुतिः
प्रै॒षान्त्सा॑मिधे॒नीरा॑घा॒राव् आज्य॑भागा॒व् आश्रु॑तम् प्र॒त्याश्रु॑त॒म् आ शृ॑णामि ते ।
प्र॒या॒ज + अ॒नू॒या॒जान् त्स्वि॑ष्ट॒कृत॒मिडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ।
मूलम्
प्रै॒षान्त्सा॑मिधे॒नीरा॑घा॒राव् आज्य॑भागा॒व् आश्रु॑तम् प्र॒त्याश्रु॑त॒म् आ शृ॑णामि ते ।
प्र॒या॒ज + अ॒नू॒या॒जान् त्स्वि॑ष्ट॒कृत॒मिडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ।
भट्टभास्कर-टीका
5अथ पञ्चमी - प्रैषानिति । । उपरिष्टाज्ज्योतिर्जगती, चतुर्थस्य पादस्याष्टाक्षरत्वात् । प्रैषादयः प्रसिद्धाः । तान् त्वदर्थमाशृणोमि आश्रयामि । श्रयतेर्विकरणव्यत्ययः, संप्रसारणं छान्दसम् । धात्वन्तरं वा द्रष्टव्यम् । प्रैष्यन्ते एभिरिति प्रैषाः ‘प्रादूहोढोढ्यैषैष्येषु’ इति वृद्धिः, थाथादिनोत्तरपदान्तोदात्तत्वम् । ‘समिधामाधाने षेण्यः’ इति षित्वात् ङीष् । आघार्यते इत्याघारौ । आज्यं भागो ययोः । आश्रुतं अश्रावितम् । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । प्रत्याश्रुतं प्रत्याश्रावितम् । पूर्वेणानन्तरस्य गतेः स्वरः । प्रयाजाः प्रथमयागाः । ‘प्रयाजानू- याजौ यज्ञाङ्गे’ इति कुत्वाभावः । स्विष्टं करोतीति स्विष्टकृत् । इडा प्रसिद्धा । एतानाश्रित्य आशिषः आशासनीयानि फलानि । ‘आशासः क्वौ’ इतीत्वम् । सुवः स्वर्गं च आवृञ्जे आवृञ्जामि । स्वर्गस्य प्राधान्यात्पुनरुपादानम् यथा - ‘ब्राह्मणा आयाता वसिष्ठोप्यायातः’ इति ॥
मूलम् (संयुक्तम्)
अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या॑भ्या॒मुप॑ ते हुवे सवा॒हय्ँ य॒ज्ञमा द॑दे ते॒ वष॑ट्कृतम् ।
विश्वास-प्रस्तुतिः
अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः ।
या॒ज्या॒नु॒वा॒क्या॑भ्या॒म् उप॑ ते हुवे सवा॒हय्ँ य॒ज्ञम् आ द॑दे ते॒ वष॑ट्कृतम् ।
मूलम्
अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः ।
या॒ज्या॒नु॒वा॒क्या॑भ्या॒म् उप॑ ते हुवे सवा॒हय्ँ य॒ज्ञम् आ द॑दे ते॒ वष॑ट्कृतम् ।
भट्टभास्कर-टीका
6अथ षष्ठी - अग्निनेति ॥ पुरस्ताज्ज्योतिर्जगती; प्रथमस्याष्टाक्षरत्वात् । अहमादिश्चतुर्यः पादः । अग्न्यादिदिः हविर्भाग्भिः देवताभिः याज्यानुवाक्याभ्यां च हविषां विधिप्रधानाभ्यां च त्वदर्थमहमुपहवे उपजुहोमि । हे सव! पूर्ववच्छपो लुक् । ततश्च यज्ञं वषट्कृतं कृतवषट्कारं विलक्षणं ते त्वत्प्रसादात् अहं आददे उत्पादयामि । वषट्छन्दस्यौर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति गतेः स्वरः ॥
मूलम् (संयुक्तम्)
स्तु॒तँ श॒स्त्रम्प्र॑तिग॒रङ्ग्रह॒मिडा॑मा॒शिषः॑ [31]
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सय्ँ॒या॒जानुप॑ ते हुवे सवा॒हँ स॑मिष्टय॒जुरा द॑दे॒ तव॑ ।
विश्वास-प्रस्तुतिः
स्तु॒तँ श॒स्त्रम् प्र॑तिग॒रङ्ग्रह॒मिडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ।
प॒त्नी॒सय्ँ॒या॒जान् उप॑ ते हुवे सवा॒हँ स॑मिष्टय॒जुरा द॑दे॒ तव॑ ।
मूलम्
स्तु॒तँ श॒स्त्रम् प्र॑तिग॒रङ्ग्रह॒मिडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ।
प॒त्नी॒सय्ँ॒या॒जान् उप॑ ते हुवे सवा॒हँ स॑मिष्टय॒जुरा द॑दे॒ तव॑ ।
भट्टभास्कर-टीका
7अथ सप्तमी - स्तुतमित्यादि ॥ इयमपि परस्ताज्ज्योतिर्जगती । पूर्ववत् अहमादिश्चतुर्थः पादः । स्तुतं स्तोत्रं तदादीनि इडान्तानि आवृञ्जे आकर्षामि । ततः एतैः आशिषः स्वर्गं च आवृञ्जे । किं च पत्नीसंयाजान् ते त्वदर्थं अहं उपहुवे उपजुहोमि । हे सव! कि च त्वदर्थं समिष्टयजुः आददे निर्वर्तयामि ॥
मूलम् (संयुक्तम्)
प॒शून्त्सु॒तम्पु॑रो॒डाशा॒न्त्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्त्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्त्सोम॑वतो॒ ये च॒ विश्वे॑ ॥ [32]
विश्वास-प्रस्तुतिः
प॒शून्त् सु॒तम् पु॑रो॒डाशा॒न्त् सव॑ना॒न्या + उत य॒ज्ञम् ।
दे॒वान्त् सेन्द्रा॒नुप॑ ते हुवे सवा॒हम् अ॒ग्निमु॑खा॒न्त् सोम॑वतो॒ ये च॒ विश्वे॑ +++( तान् अहमाह्वयामि)+++॥
मूलम्
प॒शून्त् सु॒तम् पु॑रो॒डाशा॒न्त् सव॑ना॒न्या + उत य॒ज्ञम् ।
दे॒वान्त् सेन्द्रा॒नुप॑ ते हुवे सवा॒हम् अ॒ग्निमु॑खा॒न्त् सोम॑वतो॒ ये च॒ विश्वे॑ +++( तान् अहमाह्वयामि)+++॥
भट्टभास्कर-टीका
8अथाष्टमी - पशूनिति ॥ अस्तारपङ्क्तिः ; प्रथमयोरष्टाक्षरत्वात् । उक्तः सामान्येन यज्ञः, अधुना तद्विशेषा उच्यन्ते - पशून् अग्नीषोमीयादीन् सुतं सोमं पुरोडाशान् सवनीयान् सवनानि प्रातस्सवनादीनि उत अपि च यज्ञं देवांश्च सेन्द्रान् ते त्वदर्थं उपहुवे तव समीपे आह्वयामि । हे सव! अग्निमुखान् देवान् सोमवतश्च ये च विश्वे देवाः तांश्चाहमाह्वयामि ॥
इति सप्तमे तृतीये एकादशोनुवाकः ॥