विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो॑ऽस्मिल्ँ लो॒क आ॑सी॒त्तन्दे॒वाᳶ पृ॒ष्ठैᳶ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न्परैः॑ प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्त्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मिल्ँ॑ लो॒के परै॑रुभ॒यत॒ᳶ परि॑गृहीतो॒…
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो॑ऽस्मिल्ँ लो॒क आ॑सीत् ।
तन्दे॒वाᳶ पृ॒ष्ठैᳶ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम॑गमयन् ।
परै॑र् अ॒वस्ता॒त् पर्य॑गृह्णन् ।
दि॒वा॒की॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् ।
मूलम्
अ॒सावा॑दि॒त्यो॑ऽस्मिल्ँ लो॒क आ॑सीत् ।
तन्दे॒वाᳶ पृ॒ष्ठैᳶ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम॑गमयन् ।
परै॑र् अ॒वस्ता॒त् पर्य॑गृह्णन् ।
दि॒वा॒की॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् ।
भट्टभास्कर-टीका
1अथैकविंशतिरात्रः प्रस्तयूते - असावित्यादि ॥ असौ इदानीमुपरि वर्तमानः असौ आदित्यः पूर्वस्मिन् मनुष्यलोके आसीत् । अथ देवाः तं पृष्ठैः पृष्ठस्थानीयैष्षड्भिरहोभिः परिगृह्य अस्माल्लोकात् स्वर्गं लोकमगमयन् दिवाकीर्त्येन प्रत्यस्थापयन् प्रतिष्ठापितवन्तः । दिवाकीर्त्यं नाम सामविशेषः । तत्सामकमहरपि दिवाकीर्त्यम् । यत्रोदित आदित्ये प्रातरनुवाकमुपाकरोति ।
विश्वास-प्रस्तुतिः
परैः॑ प॒रस्ता॒त्पर्य॑गृह्णन् , पृ॒ष्ठैरु॒पावा॑रोहन् ।
स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मिल्ँ॑ लो॒के परै॑रुभ॒यत॒ᳶ परि॑गृहीतः ।
मूलम्
परैः॑ प॒रस्ता॒त्पर्य॑गृह्णन् , पृ॒ष्ठैरु॒पावा॑रोहन् ।
स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मिल्ँ॑ लो॒के परै॑रुभ॒यत॒ᳶ परि॑गृहीतः ।
भट्टभास्कर-टीका
अथ पुनरपि परैः परस्सामभिः त्रिभिरहोभिः तं परस्तादुपरि पर्यगृह्णन् । अथ पृष्ठेरुपरि तेष्षड्भिरहोभिः आवृतैरुपावारोहन् स्वर्गलोकात्पृथिवीमुपावारोहन् तस्मात्सोऽयमसावादित्यो अमुष्मिन् लोके परैः परस्सामभिरुभयतः परस्तादवस्ताच्च परिगृहीतः ॥
मूलम् (संयुक्तम्)
यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कय्ँयज॑माना यन्ति॒ परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न [25]
सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः॑ प॒रस्ता॒त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युᳶ परा॑ञ्चस्सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न्यद॒वस्ता॒न्न स्युᳶ प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैनाल्ँ॑ लो॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति॒
विश्वास-प्रस्तुतिः
यत्पृ॒ष्ठानि॒ भव॑न्ति ,
सु॒व॒र्गमे॒व तैर् लो॒कय्ँयज॑माना यन्ति ।
परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति ।
दि॒वा॒की॒र्त्ये॑न सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति । [25]
परैः॑ प॒रस्ता॒त्परि॑ गृह्णन्ति, पृ॒ष्ठैरु॒पाव॑रोहन्ति ।

2यत्पृष्ठानीत्यादि ॥ गतम् । +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++
विश्वास-प्रस्तुतिः
यत्परे॑ प॒रस्ता॒न्न स्युᳶ परा॑ञ्चस् सुव॒र्गाल् लो॒कान्निष्प॑द्येर॒न् ।
मूलम्
यत्परे॑ प॒रस्ता॒न्न स्युᳶ परा॑ञ्चस् सुव॒र्गाल् लो॒कान्निष्प॑द्येर॒न् ।
भट्टभास्कर-टीका
यत्पर इत्यादि । यदि परस्सामानः परस्तादुपरिष्टान्न स्युः । सज्ञायां व्यत्ययेन सर्वनामत्वम् । पराञ्चः परागताः स्वर्गान्निष्पद्येरन् निर्गच्छेरन् स्वर्गमतीत्योपरि गच्छेयुः ।
विश्वास-प्रस्तुतिः
यद॒वस्ता॒न्न स्युᳶ प्र॒जा निर्द॑हेयुः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति ।
सुव॒र्ग ए॒वैनाल्ँ॑ लो॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति ।
मूलम्
यद॒वस्ता॒न्न स्युᳶ प्र॒जा निर्द॑हेयुः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति ।
सुव॒र्ग ए॒वैनाल्ँ॑ लो॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति ।
भट्टभास्कर-टीका
अथ यद्यवस्तादधस्तात् परस्सामानो न स्युः प्रजाः पृथिवीस्थानं निर्दहेयुः आदित्यनामानो यजमानाः तस्मादभितो दिवाकीर्त्यं विषुवन्तं उभयतः परस्सामानः स्वर्गस्थितान् यजमानान् उभयतः परिगृह्णन्ति ऊर्ध्वाधः पातभीतान् धारयन्ति । ‘अभितः परितः’ हति द्वितीया ॥
मूलम् (संयुक्तम्)
यज॑माना॒ वै दि॑वाकी॒र्त्यँ॑ सव्ँवत्स॒रᳶ पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति सव्ँवत्स॒र ए॒वोभ॒यतः॑ [26]
प्रति॑ तिष्ठन्ति पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म्पा॒र्श्वे पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितᳶ॑ पृ॒ष्ठम्पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठँ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थङ्ग्र॑थ्न॒न्त्यवि॑स्रँसाय
विश्वास-प्रस्तुतिः
यज॑माना॒ वै दि॑वाकी॒र्त्य॑म् ।
सव्ँ॒व॒त्स॒रᳶ पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
सव्ँ॒व॒त्स॒र ए॒वोभ॒यत॒ᳶ प्रति॑ तिष्ठन्ति ।[26]
मूलम्
यज॑माना॒ वै दि॑वाकी॒र्त्य॑म् ।
सव्ँ॒व॒त्स॒रᳶ पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
सव्ँ॒व॒त्स॒र ए॒वोभ॒यत॒ᳶ प्रति॑ तिष्ठन्ति ।[26]
भट्टभास्कर-टीका
3यजमाना इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म् पा॒र्श्वे पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
तस्मा॑द॒भितᳶ॑ पृ॒ष्ठम्पा॒र्श्वे ।
मूलम्
पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म् पा॒र्श्वे पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
तस्मा॑द॒भितᳶ॑ पृ॒ष्ठम्पा॒र्श्वे ।
भट्टभास्कर-टीका
पृष्ठं वा इत्यादि । पृष्ठं पार्श्वस्थानीयत्वात् तस्मात्पृष्ठमभितः पार्श्वे कॢप्ते प्रजानाम् ।
विश्वास-प्रस्तुतिः
भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते ।
भूयि॑ष्ठँ शस्यते ।
य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थङ्ग्र॑थ्न॒न्त्यवि॑स्रँसाय ।
मूलम्
भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते ।
भूयि॑ष्ठँ शस्यते ।
य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थङ्ग्र॑थ्न॒न्त्यवि॑स्रँसाय ।
भट्टभास्कर-टीका
भूयिष्ठा इत्यादि । बहुतमा अतिग्राह्यमध्यमेषु सप्तस्वहस्सु गह्यन्ते । भूयांसोस्य यज्ञस्य मध्ये ग्रन्थिं ग्रथ्नन्ति कुर्वन्ति यज्ञस्याविस्रंसाय अनधःपतनाय ॥
मूलम् (संयुक्तम्)
स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति॒
विश्वास-प्रस्तुतिः
स॒प्त गृ॑ह्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णाने॒व यज॑मानेषु दधति ।
मूलम्
स॒प्त गृ॑ह्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णाने॒व यज॑मानेषु दधति ।
भट्टभास्कर-टीका
4सप्त गृह्यन्त इति ॥ त्रिषु परस्सामसु त्रीनतिग्राह्यान् गृह्णाति ‘उपयामगृहीतोस्यद्भ्यस्त्वौषधीम्यः’ इत्यादिभिः त्रिभिः एतानेवावृत्तानर्वाक् सामसु तानूर्ध्वानावृत्तांश्च विषुवाति । तेषां मध्ये सूर्यमुदुत्यं जातवेदसमिति । शीर्षण्याः शिरसि भवाः । ‘शरीरावयवाच्च’ इति यत्, ‘ये च तद्धिते’ इति शीर्षन्भावः ॥
मूलम् (संयुक्तम्)
यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मल्ँ लो॒कन्न [27]
प्र॒त्य॒व॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑माना॒ᳶ प्र वा॑ मीयेर॒न्यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम्प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒य
विश्वास-प्रस्तुतिः
यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति , अ॒मुमे॒व तैर्लो॒कम् अ॒भ्यारो॑हन्ति ।
यदि॒मल्ँ लो॒कन्न प्र॑त्यव॒रोहे॑यु॒र् उद् वा॒ माद्ये॑यु॒र् , यज॑माना॒ᳶ प्र वा॑ मीयेरन् ।
यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति -
इ॒मम् ए॒व तैर् लो॒कम् प्र॒त्यव॑रोह॒न्ति ।
अथो॑ अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठ॒न्त्य् अनु॑न्मादाय ।

5यत्पराचीनानीत्यादि ॥ पराचीनानि ऊर्ध्वान्येव यद्युभयतोपि पृष्ठानि भवन्ति अमुमेव लोकं अभ्यारोहन्ति तैः तथाविधैः । ततश्च यदिमं लोकं न प्रत्यवरोहेयुः उन्माद्येयुर्वा प्रमीयेरन्वा यजमानाः तस्माद्यत्प्रतीचीनानि आवृत्तानि पृष्ठानि भवन्ति तेनेमं लोकं यजमानाः प्रत्यवरोहन्ति । अपि च अमुष्मात् प्रत्यवरुह्य अस्मिन् लोके प्रतितिष्ठन्ति । तच्चानुन्मादाय भवति । ‘विभाषाञ्चेः’ इति खः । ‘गतिर्गतौ’ इति पूर्वस्य गतेर्निघातः, ‘तिङि चोदात्तवति’ इति परस्य तिङ उदात्तत्वम् ॥
मूलम् (संयुक्तम्)
इन्द्रो॒ वा अप्र॑तिष्ठित आसी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्…
विश्वास-प्रस्तुतिः
इन्द्रो॒ वा अप्र॑तिष्ठित आसीत् ।
स प्र॒जाप॑ति॒मुपा॑धावत् ।
तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम् प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।
मूलम्
इन्द्रो॒ वा अप्र॑तिष्ठित आसीत् ।
स प्र॒जाप॑ति॒मुपा॑धावत् ।
तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम् प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।
भट्टभास्कर-टीका
6इन्द्रो वा इत्यादि । गतम् ॥ +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++
मूलम् (संयुक्तम्)
ये ब॑हुया॒जिनोऽप्र॑तिष्ठिताः [28]
स्युस्त ए॑कविँशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठन्त्य्…
विश्वास-प्रस्तुतिः
ये ब॑हुया॒जिनोऽप्र॑तिष्ठितास् स्युस् त ए॑कविँशतिरा॒त्रमा॑सीरन् । [28]
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स् , त्रय॑ इ॒मे लो॒का, अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ताव॑न्तो॒ वै दे॑वलो॒काः ।
तेष्वे॒व य॑थापू॒र्वम् प्रति॑ तिष्ठन्ति ।

7ये बहुयाजिन इत्यादि ॥ ये बहुभिः यज्ञैः इष्टवन्तोपि अप्रतिष्ठिता एव स्युः । त इत्यादि । मासर्तुलोकादयः आत्मनो योगस्थानानि एतावन्तो देवलोकाः तेषु सर्वेषु यथा पूर्वमनुक्रमेण प्रतिष्ठां गच्छन्ति ॥
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वव्ँवि॒द्वाँ॑स एकविँशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विँशतिरा॒त्रो भ॑वति॒
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
स प्र॒जाप॑ति॒मुपा॑धावत्।
तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम्प्राय॑च्छत ।
तमाह॑रत । तेना॑यजत ।
ततो॒ वै सो॑ऽरोचत ।
य ए॒वव्ँवि॒द्वाँ॑स एकविँशतिरा॒त्रमास॑ते॒ , रोच॑न्त ए॒व ।
ए॒क॒विँ॒श॒ति॒रा॒त्रो भ॑वति ।

8असौ इत्यादि ॥ गतम् ॥ +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++
मूलम् (संयुक्तम्)
रुग्वा ए॑कविँ॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो॑ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविँ॒शो॑ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]
विश्वास-प्रस्तुतिः
रुग्वा ए॑कविँ॒शः । रुच॑मे॒व ग॑च्छ॒न्त्यथो॑ प्रति॒ष्ठामे॒व । प्र॑ति॒ष्ठा ह्ये॑कविँ॒शः ।
मूलम्
रुग्वा ए॑कविँ॒शः । रुच॑मे॒व ग॑च्छ॒न्त्यथो॑ प्रति॒ष्ठामे॒व । प्र॑ति॒ष्ठा ह्ये॑कविँ॒शः ।
भट्टभास्कर-टीका
9रुगित्यादि ॥ रोचनशीलत्वात् तस्माद्रुचं दीप्तिं प्राप्नुवन्ति । अपि च एकविंशस्य प्रतिष्ठात्वात् प्रतिष्ठामपि गच्छन्त्येव ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]
मूलम्
अ॒ति॒रा॒त्राव॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]
भट्टभास्कर-टीका
अतिरात्रावित्यादि । गतम् । ब्रह्मवर्चसपरिग्रहो विशेषः । यथा त्रिरात्रः पृष्ठ्यष्षडहः परस्सामानस्त्रयः विषूवान् आवृत्ताः परस्सामानः प्रतीचीनाः पृष्ठ्यष्षडहोतिरात्रः इति ॥
सप्तमे तृतीये दशमोनुवाकः ॥