विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भयँ॒ सव्ँवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒ञ्चेति॒ त ए॒ता विँ॑श॒तिँ रात्री॑रपश्य॒न्ततो॒ वै त उ॒भयँ॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्न॑ञ्च ब्रह्मवर्च॒सिनो॑ऽन्ना॒दा अ॑भव॒न्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑त उ॒भय॑मे॒व सव्ँवृ॑ञ्जते॒ ब्रह्म॒ चान्न॑ञ्च [22]
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽन्ना॒दा भ॑वन्ति॒
विश्वास-प्रस्तुतिः
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द् ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु ।
ते दे॒वा अ॑कामयन्त -
उ॒भयँ॒ सव्ँवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒ञ्चेति॑ ।
मूलम्
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द् ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु ।
ते दे॒वा अ॑कामयन्त -
उ॒भयँ॒ सव्ँवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒ञ्चेति॑ ।
भट्टभास्कर-टीका
1अथ विंशतिरात्र आरभ्यते - सा विराडित्यादि ॥ या द्वादशाहीया दशाक्षरा विराट् विक्रम्य विविधां क्रान्तिं आस्थायातिष्ठत् । कथं? देवेषु ब्रह्मणा ब्रह्मवर्चसेनातिष्ठत् असुरेष्वन्नेन । तत्तत्साधनभावेन तेषुतेषु नि यतमवर्तत इत्यर्थः । ततस्ते देवा अकामयन्त ब्रह्म चान्नं चोभयं संवृञ्जीमहि । वयमेव सम्यक् लभेमहीति ।
विश्वास-प्रस्तुतिः
त ए॒ता विँ॑श॒तिँ रात्री॑रपश्यन् ।
ततो॒ वै त उ॒भयँ॒ सम॑वृञ्जत॒ ,
ब्रह्म॒ चान्न॑ञ्च। ब्र॒ह्म॒व॒र्च॒सिनो॑ऽ॒न्ना॒दा अ॑भवन् ।
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑त ,
उ॒भय॑मे॒व सव्ँवृ॑ञ्जते॒ ब्रह्म॒ चान्न॑ञ्च [22] ।
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽन्ना॒दा भ॑वन्ति ।
मूलम्
त ए॒ता विँ॑श॒तिँ रात्री॑रपश्यन् ।
ततो॒ वै त उ॒भयँ॒ सम॑वृञ्जत॒ ,
ब्रह्म॒ चान्न॑ञ्च। ब्र॒ह्म॒व॒र्च॒सिनो॑ऽ॒न्ना॒दा अ॑भवन् ।
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑त ,
उ॒भय॑मे॒व सव्ँवृ॑ञ्जते॒ ब्रह्म॒ चान्न॑ञ्च [22] ।
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽन्ना॒दा भ॑वन्ति ।
भट्टभास्कर-टीका
त एता इत्यादि । गतम् । ब्रह्मवर्चसिनः महाब्रह्मवर्चसा अभवन् । अन्नादाः अन्नादनसमर्थाश्चाभवन् । य एवमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
द्वे वा ए॒ते वि॒राजौ॑ ।
तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति ।
मूलम्
द्वे वा ए॒ते वि॒राजौ॑ ।
तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति ।
भट्टभास्कर-टीका
2द्वे वा इत्यादि ॥ एकविंशतिरात्रे दशरात्रावित्यर्थः । दशकयोस्तु विराट्त्वेन स्तुतिः तयोर्विराजोर्नाना पृथक् पृथक् प्रतिष्ठिता भवन्ति । विराडन्नम् । यद्वा - दशकाभ्यां तयोः ब्रह्मवर्चसान्नाद्ययोः पृथक्प्रतिष्ठिता भवन्ति ॥
मूलम् (संयुक्तम्)
विँ॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒
विश्वास-प्रस्तुतिः
विँ॒शो वै पुरु॑षो॒ , दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒, दश॒ पद्याः॑ ।
यावा॑ने॒व पुरु॑ष॒स् तमा॒प्त्वोत्ति॑ष्ठन्ति ।
मूलम्
विँ॒शो वै पुरु॑षो॒ , दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒, दश॒ पद्याः॑ ।
यावा॑ने॒व पुरु॑ष॒स् तमा॒प्त्वोत्ति॑ष्ठन्ति ।
भट्टभास्कर-टीका
3विंश इति ॥ विंशतेः पूरणो विंशः ‘तस्य पूरणे डट्’ इति डट्, ‘विशतेर्डिति’ इति टिलोपः । दश हस्त्याः हस्तयोर्भवाः पद्याः पदयोर्भवाः । ‘शरीरावयवाच्च’ इति यत् । ‘पद्यत्यतदर्थे’ इति पद्भावः । एताः पृथग्वीर्याः विंशतिरङ्गुलयः पुरुषजाः तदधीनप्रवृत्तित्वात् । तत्रावयवापेक्षया विंशत्वम्, अवयव्यपेक्षया एकत्वम् । यावानित्यादि । यत्परिमाणं पुरुषसामर्थ्यं तत्सर्वमाप्त्वा उत्तिष्ठन्ति लोके उच्छ्रितं भजन्ते । सत्राद्वा उत्तिष्ठन्ति उदवस्यन्ति ॥
मूलम् (संयुक्तम्)
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गम् [23]
लो॒कम॒भ्यारो॑हन्ति॒
विश्वास-प्रस्तुतिः
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ् ,
गौर॒सावायुः॑ ।
इ॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।
अ॒भि॒पू॒र्वन्त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति ।[23]
मूलम्
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ् ,
गौर॒सावायुः॑ ।
इ॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।
अ॒भि॒पू॒र्वन्त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति ।[23]
भट्टभास्कर-टीका
4अथाहानि विदधाति - ज्योतिरित्यादि ॥ अयं तावदहःक्रमः - अतिरात्रः ज्योतिर्गौरायुरिति त्र्यहस्त्रिरभ्यस्तो नवपृष्ठ्यष्षडहः पुनरपि त्र्यहः प्रतीचीन आयुर्गौर्ज्योतिरतिरात्र इति । एष प्रतिपाद्यते - त्र्यहा इति । त्रय एव बहुत्वस्य कृतार्थत्वात्तद्व्यतिरेकेण च एकादशानामह्नां प्रतिपादनात् । अभिपूर्वमिति । आनुपूर्येणाविच्छेदेन ॥
मूलम् (संयुक्तम्)
यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदाभ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [24]
विश्वास-प्रस्तुतिः
यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ ।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ ।
ओज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते ।
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॒न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति ।
ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ ।
मूलम्
यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ ।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ ।
ओज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते ।
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॒न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति ।
ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ ।
भट्टभास्कर-टीका
5यदन्यत इत्यादि ॥ गतम् । +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++
विश्वास-प्रस्तुतिः
प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्यै ।
अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतः ।
ब्र॒ह्म॒व॒र्च॒सस्या॒न्नाद्य॑स्य परि॑गृहीत्यै ॥ [24]
मूलम्
प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्यै ।
अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतः ।
ब्र॒ह्म॒व॒र्च॒सस्या॒न्नाद्य॑स्य परि॑गृहीत्यै ॥ [24]
भट्टभास्कर-टीका
प्रत्यङ्ङिति पृष्ठेभ्यः पर एकस्त्र्यहः प्रतीचीनो भवति । अतिरात्राभ्यां ब्रह्मवर्चसान्नाद्ययोः परिग्रहः ॥
इति सप्तमे तृतीये नवमोनुवाकः ॥