विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒जाप॑तिरकामयतान्ना॒दस्स्या॒मिति॒ स ए॒तँ स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्ना॒दो॑ऽभव॒द्य ए॒वव्ँवि॒द्वाँस॑स्सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒ते
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयत - “अन्ना॒दस् स्या॒म्” इति॑ ।
स ए॒तँ स॑प्तदशरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत । ततो॒ वै सो॑ऽन्ना॒दो॑ऽभवत् ।
य ए॒वव्ँ वि॒द्वाँस॑स् सप्तदशरा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति ।
मूलम्
प्र॒जाप॑तिरकामयत - “अन्ना॒दस् स्या॒म्” इति॑ ।
स ए॒तँ स॑प्तदशरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत । ततो॒ वै सो॑ऽन्ना॒दो॑ऽभवत् ।
य ए॒वव्ँ वि॒द्वाँस॑स् सप्तदशरा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति ।
भट्टभास्कर-टीका
1अय सप्तदशरात्त्रो विधीयते - प्रजापतिरकामयतेत्यादि ॥ गतम् । तस्य चैतान्यहानि - अतिरात्रो ज्योतिर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्र इति ।
विश्वास-प्रस्तुतिः
पञ्चा॒हो भ॑वति ।
मूलम्
पञ्चा॒हो भ॑वति ।
भट्टभास्कर-टीका
पञ्चाह इति । कानि पुनरिमान्यहानि - ‘आभिप्लाविकानामयमविच्छेदः’ इत्याचार्यः । तत्र वचनसामर्थ्यात्प्राकृतान्यपि पृष्ठ्यहानि गृह्यन्ते । अभिप्लवषडहस्याद्यानि पञ्च गृह्यन्ते । कानि पुनस्तानि - ज्योतिरग्निष्टोमो रथन्तरसामा प्रथमः, गौरुक्थ्यो बृहत्सामा द्वितीयः, आयुरुक्थ्यो रथन्तरसामा तृतीयः, गौरुक्थ्यो बृहत्सामा चतुर्थः, आयुरुक्थ्यो रथन्तरसामा पञ्चमः इति । ज्योतिरग्निष्टोमो बृहत्सामा षष्ठः, स तु त्यज्यते ।
विश्वास-प्रस्तुतिः
पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्ति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धते ।
मूलम्
पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्ति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धते ।
भट्टभास्कर-टीका
पञ्च वा इत्यादि । गतम् । हेमन्तशिशिशिरयोरेकत्वात् पञ्चत्वम् । अथो अपि च पञ्चत्वान्वयेन पाङ्क्तयज्ञावरोधः । पङ्क्तिप्रभवत्वाद्वा धानादिपञ्चकसाधनत्वाद्वा पाङ्क्तत्वं यज्ञस्य । पङ्क्तिशब्द उत्सादिरित्युक्तम् ॥
मूलम् (संयुक्तम्)
अस॑त्त्रव्ँ॒वा ए॒तत् [20]
यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
मूलम्
अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
भट्टभास्कर-टीका
2असत्त्रं वा इत्यादि व्याख्यातम् । तेन पञ्चाहादुपरि द्वादशाहीयो दशरात्रो गृह्यते ॥
- अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते , प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति । पञ्चदशरा॒त्रो भ॑वति, पञ्चद॒शो वज्रः॑।
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति । अ॒ति॒रा॒त्राव॒भितो॑ भवतः । इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ [15]
भट्टभास्कर-टीका
2असत्रमित्यादि । । नेदमछन्दोमस्य सत्रस्य प्रतिषेधार्थं, अपि तु छन्दोमवतः प्रशंसार्थं, छन्दोमवतस्सकाशे अछन्दोमं सत्रव्यपदेशं नार्हतीति । ओजसि वीर्ये पशुषु प्रतितिष्ठन्ति प्रतिष्ठां गच्छन्ति । पञ्चदशरात्र इति । छन्दोमविधिः । पञ्चदशो वज्र इति । वीर्यवत्त्वात् । अतिरात्रावित्यादि । गतम् । इन्द्रियपरिग्रहो विशेषः ॥
मूलम् (संयुक्तम्)
सप्तदशरा॒त्रो भ॑वति सप्तद॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [21]
विश्वास-प्रस्तुतिः
स॒प्त॒द॒श॒रा॒त्रो भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ ,
ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [21]
मूलम्
स॒प्त॒द॒श॒रा॒त्रो भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ ,
ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [21]
भट्टभास्कर-टीका
3सप्तदशरात्र इत्यादि ॥ सप्तदशस्य प्रजासाधनत्वात् सप्तदशः प्रजापतिः । अतिरात्राभ्यां अन्नाद्यस्य परिग्रहः, अन्नाद्यकामो हि प्रजापतिः अन्नाङ्गतेति? ॥
इति सप्तमे तृतीये अष्टमोनुवाकः ॥