०७ अन्यः पञ्चदशरात्रः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒त्सोऽसु॑रेभ्योऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रव्ँवज्र॒म्प्राय॑च्छ॒त्तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छद्…

विश्वास-प्रस्तुतिः

इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसीत् । सोऽसु॑रेभ्योऽबिभेत् । स प्र॒जाप॑ति॒मुपा॑धावत् ।

मूलम्

इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसीत् । सोऽसु॑रेभ्योऽबिभेत् । स प्र॒जाप॑ति॒मुपा॑धावत् ।

भट्टभास्कर-टीका

1अथ छन्दोमवान् पञ्चदशरात्रयोरेकतरः पृष्ठावृत्तिमानितरः त्र्यहावृत्तिमान् । तयोर्द्वितीयं विदधाति - इन्द्रो वै शिथिल इवेत्यादि ॥ इन्द्रः शिथिल इव वित्तेन दुर्बल इवासीत् । हेतुमाह - अप्रतिष्ठितः हतराज्यः । सोसुरेभ्य इत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रव्ँ वज्र॒म् प्राय॑च्छत् ।
तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छत् ।

मूलम्

तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रव्ँ वज्र॒म् प्राय॑च्छत् ।
तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छत् ।

भट्टभास्कर-टीका

पञ्चदशरात्रं वज्रमिति । वज्रसादृश्यमसुराणां मारणत्वात् । तेन असुरान् पराभाव्य अभिभूय विजित्य सेनादिकमपहृत्य तच्छ्रियं राज्यमपि तेषामगच्छत् प्राप्नोत् ॥

मूलम् (संयुक्तम्)

अग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वव्ँवि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रिय॑ङ्गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मान॒न्निः [16]
द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व प॑श॒व्याः॑

विश्वास-प्रस्तुतिः

अ॒ग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॑दहत । प॒ञ्च॒द॒श॒रा॒त्रेणौजो॑ बल॑मिन्द्रि॒यव्ँ वी॒र्य॑मा॒त्मन्न॑धत्त ।
य ए॒वव्ँ वि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते, भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रिय॑ङ्गच्छन्ति ।
अग्नि॒ष्टुता॑ पा॒प्मान॒न्निर्द॑हन्ते [16] । प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒, बल॑मिन्द्रि॒यव्ँ वी॒र्य॑मा॒त्मन्द॑धते ।
ए॒ता ए॒व प॑श॒व्याः॑ ।

2अग्निष्टुतेति ॥ सर्वाग्नेयस्त्रिवृदेकाहविशेषो अग्निष्टुत् । तेन द्वितीयेनाह्ना पाप्मानं निरदहत् । पञ्चदशरात्रोण समुदायेन तत्सहितेन ओजआदिचतुष्टयं आत्मन्यधत्त अधारयत् । य एवमित्यादि । गतम् । एता एव पशव्याः इत्यादि । एताः पञ्चदशरात्रयः ओजआदिप्रदत्वात् पशव्याः पशुभ्यो हिता भवन्ति । गवादिभ्यो यत् । यद्वा - पशूनां प्राप्तिनिमित्तानि । ‘गोद्व्यचः’ इति यत् ॥

मूलम् (संयुक्तम्)

पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा॑त्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः॑ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रस्सु॑व॒र्गो लो॒कस्तस्मा॑त्सुव॒र्ग्या॑ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [17]
गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒

विश्वास-प्रस्तुतिः

पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒र॒म्प॒शवोऽनु॒ प्र जा॑यन्ते । तस्मा॑त्पश॒व्या॑ । ए॒ता ए॒व सु॑व॒र्ग्याः॑ ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः । तस्मा॑त्सुव॒र्ग्याः॑ । ज्योति॒र् गौरायु॒रिति॑ , त्र्य॒हो भ॑वति । इयव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [17] ।
गौर॒सावायुः॑ । इ॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।

3इदानीं सङ्ख्यातोपि स्तौति - पञ्चदशेत्यादि ॥ अर्धमासशः अर्धमासेनार्धमासेन । ‘सङ्ख्यैकवचनाच्च’ इति शस् । सुवर्ग्याः सुवर्गाय हिताः स्वर्गप्राप्तेर्वा निमित्तानि एताः पञ्चदश रात्रयः त्रिपृदादयः । पूर्ववत् । ज्योतिरित्यादि । व्याख्यातम् । अत्रेयमहःकॢप्तिः - अतिरात्रस्त्रिवृदग्निष्टुत् ज्योतिर्गौरायुः पृष्ठ्यष्षडहः प्रत्यङ् त्र्यहः आयुर्गौर्ज्योतिरतिरात्र इति ॥

मूलम् (संयुक्तम्)

यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते

विश्वास-प्रस्तुतिः

यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर् , विवि॑वधँ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति, सविवध॒त्वाय॑ ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ । ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।

मूलम्

यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर् , विवि॑वधँ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति, सविवध॒त्वाय॑ ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ । ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।

भट्टभास्कर-टीका

4यदन्यत इत्यादि ॥ तस्मात् त्र्यहयोर्मध्ये पृष्ठ्यष्षडहः ॥

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कम् [18]
य॒न्ति॒

विश्वास-प्रस्तुतिः

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हत् । आ॒भ्यामे॒व य॑न्ति ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति। [18]

5बृहद्रथन्तराभ्यामित्यादि ॥ व्याख्यातम् ॥ +++(व्याख्यानमन्यत्र मृग्यम्)+++

  • बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् ,अ॒सौ बृ॒हत् +++(चास्ति)+++। आ॒भ्यामे॒व य॒न्ति ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

अथ बृहद्रथन्तराभ्यामिति । द्वितीयत्वेऽपि अल्पाच्तरत्वाद्वृहतः पूर्वनिपातः । अत्रायं षडहोतिरात्रोहीनः, तत्रान्त्येऽहनि बृहद्रथन्तराभ्यां यन्ति गच्छन्ति यागं निर्वर्तयन्ति । पूर्वेषु त्वहस्सु ‘प्रत्यक्षं ह्येतानि’ इति वचनात् वैरूपादीन्यपि यथायथं वर्तन्ते । इयमित्यादि । गतम् । अपिचानयोर्द्यावापृथिव्योः प्रतिष्ठिता भवन्ति । यावदिमे तावत् स्थास्यन्ति । ‘त्यदादीनां यद्यत्परम्’ इतीदमश्शेषः । एते बृहद्रथन्तरे यज्ञस्याञ्जसा आर्जवेन अपरिहारेण गमनसाधने स्रुती मार्गौ ‘अञ्जस उपसंख्यानम्’ इत्यलुक् ॥

मूलम् (संयुक्तम्)

परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒

विश्वास-प्रस्तुतिः

परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।
ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ । प्र॒त्यङ्त्र्य॒हो भ॑वति, प्र॒त्यव॑रूढ्यै ।
अथो॒ प्रति॑ष्ठित्यै । उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

6पराञ्च इत्यादि ॥ द्वितीयस्य त्र्यहस्य प्रत्यक्त्वविधानं. व्याख्यातमेव18 ॥ +++( व्याख्यानमन्यत्र मृग्यम्)+++।

मूलम् (संयुक्तम्)

पञ्च॑दशै॒तास्तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याᳶ पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम्परि॑गृहीत्यै ॥ [19]

विश्वास-प्रस्तुतिः

पञ्च॑दशै॒ताः। तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राडन्नव्ँ॑ वि॒राड् , वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ।
याᳶ पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्ति ।
अ॒ति॒रा॒त्रा॒व॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम् परि॑गृहीत्यै ॥ [19]

7पञ्चदशैता इत्यादि ॥ इदानीं संख्याविशेषान्वयेन अवयवस्तुतिः । पञ्च दिश इत्यादि । ऊर्ध्वया सह । अतिरात्रावभितो भवतः इन्द्रियादिचतुष्टयस्य लाभाय भवतः ॥

इति सप्तमे तृतीये सप्तमोनुवाकः ॥