०६ पञ्चदशरात्रयोः विधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वव्ँवि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [14]
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्य्

विश्वास-प्रस्तुतिः

इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासीत् । स न व्या॒वृत॑मगच्छत् ।

मूलम्

इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासीत् । स न व्या॒वृत॑मगच्छत् ।

भट्टभास्कर-टीका

1अथ चत्वारः पञ्चदशरात्रा भवन्ति । तत्र द्वौ छन्दोमवन्तौ; तत्र छन्दोमवतोरप्येकः सत्राहीनात्मा पुनरतिरात्रादिः, यथा त्रिवृदग्निष्टोमो ज्योतिर्गौरायुस्त्रयो द्वादशाहस्य दशाहान्यतिरात्र इति । इतरः सत्रमेवोभयतोतिरात्रः; यथाऽतिरात्रो ज्योतिर्गौरायुस्त्रयो द्वादशाहस्य दशाहान्यतिरात्र इति । एतदिदानीं विदधाति - इन्द्रो वा इत्यादि ॥ इन्द्रोऽन्याभिः देवताभिः सदृङ् सम आसीत् । ‘दृक्सवस्स्वतवसाम्’ इति नुमि ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम् । स व्यावृतं व्यावृत्तिं वैलक्षण्यं नागच्छत् । वृतेस्सम्पददिलक्षणः क्विप् ।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑ति॒मुपा॑धावत् ।
तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रम्प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छत् ।
य ए॒वव्ँ वि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते ,
व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति ।
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वति । इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [14] ।
गौर॒सावायुः॑ । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्ति ।

स प्रजापतिमित्यादि । गतम् । ज्योतिरित्यादि । व्याख्यातम् ॥ +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ [15]

विश्वास-प्रस्तुतिः

अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् । यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते , प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति । पञ्चदशरा॒त्रो भ॑वति, पञ्चद॒शो वज्रः॑।
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति । अ॒ति॒रा॒त्राव॒भितो॑ भवतः । इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ [15]

2असत्रमित्यादि । । नेदमछन्दोमस्य सत्रस्य प्रतिषेधार्थं, अपि तु छन्दोमवतः प्रशंसार्थं, छन्दोमवतस्सकाशे अछन्दोमं सत्रव्यपदेशं नार्हतीति । ओजसि वीर्ये पशुषु प्रतितिष्ठन्ति प्रतिष्ठां गच्छन्ति । पञ्चदशरात्र इति । छन्दोमविधिः । पञ्चदशो वज्र इति । वीर्यवत्त्वात् । अतिरात्रावित्यादि । गतम् । इन्द्रियपरिग्रहो विशेषः ॥

इति सप्तमे तृतीये षष्ठोनुवाकः ॥