०५ अन्यश्चतुर्दशरात्रः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॒त्तन्दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न्यान्प॒शूनु॒पाजी॑विष्म॒ त इ॒मे॑ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तञ्च॑तुर्दशरा॒त्रम्प्रत्यौ॑ह॒न्त आ॑दि॒त्याᳶ पृ॒ष्ठैस्सु॑व॒र्गल्ँ लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मिल्ँ लो॒के प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मिल्ँ॑ लो॒क आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन् [11]
लो॒के प॒शवो॒

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॑त् ।
तन्दे॒वा अन्वा॑यन् ।
ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑यन् ।

मूलम्

प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॑त् ।
तन्दे॒वा अन्वा॑यन् ।
ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑यन् ।

भट्टभास्कर-टीका

1अथ द्वितीयश्चतुर्दशरात्रो विधीयते - प्रजातिरित्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रो ज्योतिर्गौरायुः । पृष्ठ्यष्षडहः, आयुर्गौर्ज्योतिरतिरात्र इति । प्रजापतिः स्वर्गमगच्छत् । तं देवा आदित्याः पशवश्चान्वगच्छन् ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑ब्रुव॒न् ,
यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे॑ऽन्वाग्म॒न्निति॑ ।
तेभ्य॑ ए॒तञ् च॑तुर्दशरा॒त्रम् प्रत्यौ॑हन् ।

मूलम्

ते दे॒वा अ॑ब्रुव॒न् ,
यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे॑ऽन्वाग्म॒न्निति॑ ।
तेभ्य॑ ए॒तञ् च॑तुर्दशरा॒त्रम् प्रत्यौ॑हन् ।

भट्टभास्कर-टीका

ते देवा अब्रुवन् यान् पशूनुपाजीविष्म तेऽप्यमी अस्मानन्वाग्मन् अन्वागच्छन्ति । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । ‘गतिर्गतौ’ इति निघाताभावः, समासश्च । तत्रादित्याः स्वर्गं गच्छन्तु इमे तु पशवः सर्वभूतोपजीव्या अस्मिन्नेव लोके ऋद्धिमन्तः कार्याः । अत्र पृष्ठवानेव चतुर्दशरात्र आदित्यानां स्वर्गगमनहेतुः, पश्वर्थे तु यतितव्यमिति कृताध्यवसाया देवाः तेभ्यः पशुभ्यः चतुर्दशरात्रं प्रत्यौहन् प्रत्यावृत्य गतिमकुर्वन्, प्रथमत्रिरात्रं कृत्वा ततः पृष्ठानन्तरं भूयोपि तत्रैव त्रिरात्रे प्रत्यवरोहणं प्रत्यूहः । ततश्चतुर्दशरात्रमकुर्वन् पशूनां प्रत्यवरोहणाय । अवयवधर्मेण समुदायव्यपदेशः यथा अवयवव्यूढतया द्वादशाहो व्यूढः ।

विश्वास-प्रस्तुतिः

त आ॑दि॒त्याᳶ पृ॒ष्ठैस् सु॑व॒र्गल्ँ लो॒कमारो॑हन् , त्र्य॒हाभ्या॑म् अ॒स्मिल्ँ लो॒के प॒शून् प्रत्यौ॑हन् ।
पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मिल्ँ॑ लो॒क आर्ध्नु॑वन् , त्र्य॒हाभ्या॑म॒स्मिन् लो॒के प॒शवः॑ । [11] ।

तत्रादित्याः देवसकाशं समासादितचतुर्दशरात्राः ष्टष्ठैरेव पृष्ठवत्तयैव स्वर्गमारोहन् । पशूंस्तु अस्मिन्नेव लोके त्र्यहाभ्यां प्रत्यावृत्य अस्मान्देवाः प्रत्यौहन् प्रत्यावर्तयन् । पृष्ठैरेवादित्या अमुष्मिन् आर्ध्नुवन् । त्र्यहाभ्यां यथोक्तलक्षणाभ्यां अस्मिन्पशव अर्ध्नुवन्नित्येव ॥

मूलम् (संयुक्तम्)

य ए॒वव्ँवि॒द्वाँस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयो॑र्ऋध्नुवन्त्य॒स्मिँश्चा॒मुष्मिँ॑श्च पृ॒ष्ठैरे॒वामुष्मिल्ँ॑ लो॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिल्ँ लो॒के

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑श्चतुर्दशरा॒त्रमास॑त , उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नुवन्त्य् अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।
पृ॒ष्ठैर् ए॒वामुष्मिल्ँ॑ लो॒क ऋ॑ध्नु॒वन्ति॑ , त्र्य॒हाभ्या॑म् अ॒स्मिल्ँ लो॒के ।

2य एवमित्यादि ॥ गतम् ॥ +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++।

मूलम् (संयुक्तम्)

ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वति

विश्वास-प्रस्तुतिः

ज्योति॒र् गौरायु॒रिति॑ त्र्य॒हो भ॑वति ।

मूलम्

ज्योति॒र् गौरायु॒रिति॑ त्र्य॒हो भ॑वति ।

भट्टभास्कर-टीका

3कः पुनरसौ त्र्यह इत्याह - ज्योतिरित्यादि ॥ +++( विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++।

मूलम् (संयुक्तम्)

इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ [12]
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते

विश्वास-प्रस्तुतिः

इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ् गौर॒सावायुः॑ । इ॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।
यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ [12]।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ । ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।

4कः पुनरस्य विशेष इत्याह - इयं वावेत्यादि ॥ इमानिति इममन्तरिक्षं अमुं च प्रत्यूहेन पुनरिमां प्राप्य ऋद्धा भवन्ति । यदन्यत इत्यादि । यदन्यतः एकतः पृष्ठानि स्युः सामर्थ्यादेकतस्त्र्यहाविति गम्यते । तद्विविवधं स्यात् । उभयतोवलम्बक्षीरादिवहनयन्त्रविशेषो विवधः; तद्विरुद्धं स्यात् विषमं स्यात् एकतोल्पं भारं एकतो महाभारमिति । तस्मान्मध्ये पृष्ठानि भवन्ति सामर्थ्यादभितस्त्र्यहाविति गम्यते । सविवधत्वाय विवधसदृशत्वाय समभारत्वायेति यावत् । सहशब्दस्य सादृश्येऽव्य यीभावः । ‘अव्ययीभावे चाकाले’ इति सभावः । ओघो वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒

विश्वास-प्रस्तुतिः

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒, ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ ।
प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्यै । अथो॒ प्रति॑ष्ठित्यै । उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

5बृहद्रथन्तराभ्यामित्यादि ॥ दिवसेषु एकान्तराभ्यां यन्ति । गतमन्यत् । पराञ्च इत्यादि । अपुनरावृत्ता एव स्वर्गं गच्छन्ति, पराचीनपृष्ठोपयानात् । ‘विभाषाञ्चेरदिक्स्त्रियाम्, इति खः । तस्मात्प्रत्यङ् प्रतीचीनगतिः द्वितीयस्त्र्यहो भवति, आयुर्गौर्ज्योतिरिति । प्रत्यवरूढ्यै प्रत्यवरोहणाय आत्मनो भवति । पृथिव्यामवरोहणाय प्रतिष्ठार्थं च भवति । उभयत्र ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । एवमुभयोर्लोकयोः ऋद्धिं प्राप्य उत्तिष्ठन्ति ॥

मूलम् (संयुक्तम्)

चतु॑र्दशै॒तास्तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [13]

विश्वास-प्रस्तुतिः

चतु॑र्दशै॒ताः ।
तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ।
याश्चत॑स्र॒श् - चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्ति ।
अ॒ति॒रा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [13]

6चतुर्दशैता इत्यादि ॥ एताश्चतुर्दशरात्र्यः तासां मध्ये या दश ताभिः दशत्वान्वयात् विराडात्मकान्नलाभः । यारततः पराश्चतस्रः ताभिश्चतुष्ट्वान्वयात् दिक्षु प्रतिष्ठिता भवन्ति । अतिरात्रावभितो भवतः उभयलोकवेदिभिः परिग्रहाय ॥

इति सप्तमे तृतीये पञ्चमोनुवाकः ॥