०४ चतुर्दशरात्रयोः विधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

आ॒दि॒त्या अ॑कामयन्तो॒भयो॑र्लो॒कयो॑र्ऋध्नुया॒मेति॒ त ए॒तञ्च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयो॑र्लो॒कयो॑रार्ध्नुवन्न॒स्मिँश्चा॒मुष्मिँ॑श्च॒ य ए॒वव्ँवि॒द्वाँस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयो॑र्ऋध्नुवन्त्य॒स्मिँश्चा॒मुष्मिँ॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒

विश्वास-प्रस्तुतिः

आ॒दि॒त्या अ॑कामयन्त - “उ॒भयो॑र् लो॒कयो॑र् ऋध्नुया॒म”+ इति॑ ।
त ए॒तञ् च॑तुर्दशरा॒त्रम॑पश्यन् ।
तमाह॑रन् ।
तेना॑यजन्त ।
ततो॒ वै त उ॒भयो॑र्लो॒कयो॑रार्ध्नुवन्न॒स्मिँश्चा॒मुष्मिँ॑श्च ।

य ए॒वव्ँ वि॒द्वाँस॑श् चतुर्दशरा॒त्रमास॑ते, उ॒भयो॑रे॒व लो॒कयो॑र्ऋध्नुवन्ति - अ॒स्मिँश् चा॒मुष्मिँ॑श् च ।
च॒तु॒र्द॒श॒रा॒त्रो भ॑वति ।
स॒प्त ग्रा॒म्या ओष॑धयस्, स॒प्तार॒ण्याः ।
उ॒भयी॑षा॒म् अव॑रुद्ध्यै ।

मूलम्

भट्टभास्कर-टीका

1त्रयश्चतुर्दशरात्रास्तत्रायं प्रथमोऽतिरात्रः पृष्ठ्यष्षडह आवृत्तः । पृष्ठ्यष्षडहोतिरात्र इति । तं विदधाति - आदित्या इत्यादि । सप्तग्राम्यावरोधः ॥ +++(विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++।

मूलम् (संयुक्तम्)

यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॑ [9] भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रिँ॒शौ म॑ध्य॒तस्स्तोमौ॑ भवत॒स्साम्रा॑ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नाना॑म्भवन्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [10]

विश्वास-प्रस्तुतिः

यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति + अ॒मुमे॒व तैर् लो॒कम॒भि ज॑यन्ति ।

यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति + इ॒ममे॒व तैर् लो॒कम॒भि ज॑यन्ति ।

मूलम्

यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति + अ॒मुमे॒व तैर् लो॒कम॒भि ज॑यन्ति ।

यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति + इ॒ममे॒व तैर् लो॒कम॒भि ज॑यन्ति ।

भट्टभास्कर-टीका

2यत्पराचीनानीत्यादि ॥ ऊर्ध्वमुखानि त्रिवृदादीनि त्रयस्त्रिंशान्तानि पृष्ठानि भवन्ति । तस्मात्तैरमुं लोकमभिजयन्ति । तस्मात्तदनन्तरं मध्ये समृद्धत्वात् प्रतीचीनानि प्रत्यङ्मुरवानि त्रयस्त्रिंशादीनि त्रिवृदन्तानि पृष्ठानि भवन्ति तस्मात्तैरिमं मनुष्यलोकं अभिजयन्त्येव ।

विश्वास-प्रस्तुतिः

त्र॒य॒स्त्रिँ॒शौ म॑ध्य॒तस् स्तोमौ॑ भवतः ।
साम्रा॑ज्यमे॒व ग॑च्छन्ति ।
अ॒धि॒रा॒जौ भ॑वतः । अ॒धि॒रा॒जा ए॒व स॑मा॒नाना॑म् भवन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [10]

मूलम्

त्र॒य॒स्त्रिँ॒शौ म॑ध्य॒तस् स्तोमौ॑ भवतः ।
साम्रा॑ज्यमे॒व ग॑च्छन्ति ।
अ॒धि॒रा॒जौ भ॑वतः । अ॒धि॒रा॒जा ए॒व स॑मा॒नाना॑म् भवन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [10]

भट्टभास्कर-टीका

एवं त्रयस्त्रिंशस्तोमौ मध्यतः मध्यमौ दिवसौ सप्तमाष्टमौ भवतः । तेन साम्राज्यं गच्छन्ति । मध्ये समृद्धत्वात् । यस्मादेवं तस्माच्चतुर्दशरात्रयाजिनोधिराजाः स्वामिनः समानानां भवन्ति समानैः परिगृहीता भवन्ति ॥

इति सप्तमे तृतीये चतुर्थोनुवाकः ॥