विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रस्स॑मा॒नँ ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च
विश्वास-प्रस्तुतिः
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत् त्र॑योदशरा॒त्रः ।
मूलम्
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत् त्र॑योदशरा॒त्रः ।
भट्टभास्कर-टीका
1अथ द्वौ त्रयोदशरात्रौ । तत्रायं प्रथमः अतिरात्रः पृष्ठ्यष्षडहस्सर्वस्स्तोमोतिरात्रश्चत्वारश्छन्दोमा अतिरात्रश्चेति । इममधिकृत्योच्यते - एष वा इत्यादि ॥ एष आप्तः पूर्णो द्वादशाहः यज्ञः त्रयोदशरात्रः ।
विश्वास-प्रस्तुतिः
स॑मा॒नँ ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च ।
मूलम्
स॑मा॒नँ ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च ।
भट्टभास्कर-टीका
कथमित्याह - समानमेकमेतदहः यत्मायणीयोदयनीयौ अतिरात्रद्वयम् । तस्माद्द्वादशाह एवायमिति द्वादशाहत्वेन स्तुतिः । द्वादशानामह्नां प्राप्त्यर्थमित्यर्थः ॥
मूलम् (संयुक्तम्)
त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै॑
विश्वास-प्रस्तुतिः
त्र्य॑तिरात्रो भवति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
मूलम्
त्र्य॑तिरात्रो भवति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
भट्टभास्कर-टीका
2त्र्यतिरात्र इति ॥ अतिरात्रत्रयवानयं त्रयोदशरात्रः कर्तव्यः । ‘यन्मध्येऽतिरात्रं कुर्युः’ इति दोषवचनान्मध्ये तृतीयोतिरात्रः, आदावन्ते च अन्याविति गम्यते, लोकत्रयसाम्यात् । तत्र चाष्टममहरतिरात्रः कार्यः पृष्ठ्ये षडहे समावृत्त इति वेदितव्यम् । त्रय इत्यादि गतम् ॥
मूलम् (संयुक्तम्)
प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयᳶ॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वव्ँवि॒द्वाँ॑सस्त्रयोदशरा॒त्रमास॑ते॒
विश्वास-प्रस्तुतिः
प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो, व्या॒नो द्वि॒तीयो॑ , ऽपा॒नस्तृ॒तीयः॑।
मूलम्
प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो, व्या॒नो द्वि॒तीयो॑ , ऽपा॒नस्तृ॒तीयः॑।
भट्टभास्कर-टीका
3प्राणो वा इत्यादि ॥ व्यानग्रहणं प्राणापानव्यतिरिक्तसर्वप्राणवृत्युपलक्षणार्थम् ।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नो॒दा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति । सर्व॒मायु॑र्यन्ति॒ , य ए॒वव्ँ वि॒द्वाँ॑सस् त्रयोदशरा॒त्रमास॑ते ।
मूलम्
प्रा॒णा॒पा॒नो॒दा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति । सर्व॒मायु॑र्यन्ति॒ , य ए॒वव्ँ वि॒द्वाँ॑सस् त्रयोदशरा॒त्रमास॑ते ।
भट्टभास्कर-टीका
प्राणापानोदानेष्वित्यादि । अत्राप्युदानग्रहणं पूर्ववदुपलक्षणार्थम् । अयमर्थः - प्राणापानयोः उदानादिषु च तत्कार्ये चान्नाद्ये प्रतितिष्ठन्ति । गतमन्यत् ॥
मूलम् (संयुक्तम्)
तदा॑हु॒र्वाग्वा ए॒षा वित॑ता [7] यद्द्वा॑दशा॒हस्ताव्ँविच्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रङ्कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒माना॑म्महाव्र॒तङ्कु॑र्वन्ति॒ सन्त॑तामे॒व वाच॒मव॑ रुन्द्ध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति
विश्वास-प्रस्तुतिः
तदा॑हुर् -
वाग्वा ए॒षा वित॑ता यद् द्वा॑दशा॒हः [7] ।
ताव्ँ विच्छि॑न्द्यु॒र् ,यन्मध्ये॑ऽतिरा॒त्रङ् कु॒र्युर् उ॑प॒दासु॑का गृ॒हप॑ते॒र् वाक्स्या॑त् ।
उपरि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तङ् कु॑र्वन्ति॒ , सन्त॑तामे॒व वाच॒मव॑ रुन्धते , ऽनु॑पदासुका गृ॒हप॑ते॒र् वाग्भ॑वति ।

4तदाहुरित्यादि ॥ द्वादशाहो नाम वाग्वितता सन्तता तत्र यदि मध्येऽतिरात्रस्स्यात् वाग्विच्छेदस्स्यात् । ततश्च गृहपतेर्वागुपदासुका क्षयशीला स्यात् । छान्दस उकञ् । तस्माच्छन्दोमानामुपरिष्टादविवाक्येन सह महाव्रतधर्माणमतिरात्रं कुर्वन्ति न मध्ये सन्ततां अविच्छिन्नां वाचं अवरुन्धे । ततौ गृहपतेश्च वागनुपदासुका भवति ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तय्ँयदु॒परि॑ष्टाच्छन्दो॒माना॑म्महाव्र॒तङ्कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ [8]
विश्वास-प्रस्तुतिः
प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तम् ।
यदु॒परि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तङ्कु॒र्वन्ति॑ , प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ [8]
मूलम्
प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तम् ।
यदु॒परि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तङ्कु॒र्वन्ति॑ , प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ [8]
भट्टभास्कर-टीका
5किञ्च - पशवो वै छन्दोमा इत्यादि ॥ तत्साधनत्वात्ताच्छब्द्यम् । व्याख्याताः छन्दो मा महाव्रतं च । एवमुभयत्र विधानादुभयत्र च फलश्रुतेर्विकल्पः - पृष्ठानां वोपरि स्यात् छन्दोमानां वेति ॥
इति सप्तमे तृतीये तृतीयोनुवाकः ॥