- द्वादशाहयाजिप्रशंसा
विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किन्द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजाय्ँ॒यज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किन्द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किन्तृ॒तीये॒नेति॒ त्रीनि॒माल्ँ लो॒कानिति॒ किञ्च॑तु॒र्थेनेति॒ चतु॑ष्पदᳶ प॒शूनिति॒ किम्प॑ञ्च॒मेनेति॒ पञ्चा॑क्षराम्प॒ङ्क्तिमिति॒ किँ ष॒ष्ठेनेति॒ षडृ॒तूनिति॒ किँ स॑प्त॒मेनेति॑ स॒प्तप॑दाँ॒ शक्व॑री॒मिति॑ [5]
किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑राङ्गाय॒त्रीमिति॒ किन्न॑व॒मेनेति॑ त्रि॒वृतँ॒ स्तोम॒मिति॒ किन्द॑श॒मेनेति॒ दशा॑क्षराव्ँवि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरान्त्रि॒ष्टुभ॒मिति॒ किन्द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरा॒ञ्जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षाव्ँवृङ्क्ते ॥ [6]
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति
किन्द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजाय्ँ॒यज॑मानो वृङ्क्त॒ इति॑ ।
तेज॑ इन्द्रि॒यमिति॑ । किन्द्वि॒तीये॒नेति॑ । प्रा॒णान॒न्नाद्य॒मिति॑ ।
किन्तृ॒तीये॒नेति॑ । त्रीनि॒माल्ँ लो॒कानिति॑ ।
किञ्च॑तु॒र्थेनेति॑ । चतु॑ष्पदᳶ प॒शूनिति॑ ।
किम्प॑ञ्च॒मेनेति॑ । पञ्चा॑क्षराम् प॒ङ्क्तिमिति॑ ।
किँ ष॒ष्ठेनेति॑ । षडृ॒तूनिति॑ ।
किँ स॑प्त॒मेनेति॑ । स॒प्तप॑दाँ॒ शक्व॑री॒मिति॑ [5] ।
किम॑ष्ट॒मेनेति॑ । अ॒ष्टाक्ष॑राङ्गाय॒त्रीमिति॑ ।
किन्न॑व॒मेनेति॑ । त्रि॒वृतँ॒ स्तोम॒मिति॑ ।
किन्द॑श॒मेनेति॑ । दशा॑क्षराव्ँवि॒राज॒मिति॑ ।
किमे॑काद॒शेनेति॑ । एका॑दशाक्षरान्त्रि॒ष्टुभ॒मिति॑ ।
किन्द्वा॑द॒शेनेति॑ । द्वाद॑शाक्षरा॒ञ्जग॑ती॒मिति॑ ।
ए॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तत् ।
याव॑दे॒वास्ति॒ तदे॑षाव्ँ वृङ्क्ते ॥ [6]
मूलम्

भट्टभास्कर-टीका
14’द्वादशाहेन न याज्यम्’ इति यदुक्तं तत्र हेत्वन्तरं चाह - ब्रह्मवादिन इत्यादि ॥ ऋत्विक्प्रतिषेधात् अहीन एव निषेधः । द्वादशाहसंबन्धिना प्रथमेनाह्ना ऋत्विक्संबन्धि किं यजमानो वृङ्क्ते आदत्ते इति ब्रह्मवादिनः पृच्छन्ति तेज इन्द्रियं च वृङ्क्ते इत्युत्तरं ब्रूयात् । एवं द्वितीयादिष्वपि द्रष्टव्यं प्रश्नः प्रतिवचनं च । अन्नस्यादनं अन्नाद्यं । छान्दसः क्यप् । चतुष्पदः ‘संख्यासुपूर्वस्य’ इति पादस्य लोपः समासान्तः, ‘पादः पत्’ इति पत् । पञ्चाक्षरां पञ्चाक्षरपदाम् । एरतावद्वा इत्यादि । यावदिदं तदनुक्रान्तं इव यदेव हि तेषामस्ति यद्यावच्च तेषामस्ति तत्सर्वं वृङ्क्ते द्वादशाहेन । तस्मात् द्वादशाहेन न याज्यमिति ॥
इति सप्तमे तृतीये द्वितीयोनुवाकः ॥