- द्वादशाहगतमविवाक्यमहः
विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒जवव्ँ॒वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहᳶ॑ पापाव॒हीयव्ँ॒वा ए॒तेन॑ भवन्ति॒ यद्द॑श॒ममह॒र्यो वै प्र॒जवय्ँ॑य॒तामप॑थेन प्रति॒पद्य॑ते॒ यस्स्था॒णुँ हन्ति॒ यो भ्रेष॒न्न्येति॒ स ही॑यते॒ स
विश्वास-प्रस्तुतिः
प्र॒जवव्ँ॒वा ए॒तेन॑ यन्ति॒ , यद्द॑श॒ममहः॑ ।
मूलम्
प्र॒जवव्ँ॒वा ए॒तेन॑ यन्ति॒ , यद्द॑श॒ममहः॑ ।
भट्टभास्कर-टीका
1अथ द्वादशाहीनस्य दशरात्रस्य दशममहः अधिकृत्योच्यते - प्रजवं वा इत्यादि ॥ प्रायणीयोदयनीयौ विना दशाहत्वम् । तत्र दशममहः अविवाक्यं, एतेन प्रजवं प्रकृष्टवेगं यन्ति प्रवर्तन्ते । क्रियाविशेषणम् । ‘परादिश्छन्दसि’ इत्युतरपदाद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
पापाव॒हीयव्ँ॒वा ए॒तेन॑ भवन्ति॒ , यद्द॑श॒ममहः॑ ।
यो वै प्र॒जवय्ँ॑य॒तामप॑थेन प्रति॒पद्य॑ते॒ ,
यस्स्था॒णुँ हन्ति॒ ,
यो भ्रेष॒न्न्येति॒ स ही॑यते ।
मूलम्
पापाव॒हीयव्ँ॒वा ए॒तेन॑ भवन्ति॒ , यद्द॑श॒ममहः॑ ।
यो वै प्र॒जवय्ँ॑य॒तामप॑थेन प्रति॒पद्य॑ते॒ ,
यस्स्था॒णुँ हन्ति॒ ,
यो भ्रेष॒न्न्येति॒ स ही॑यते ।
भट्टभास्कर-टीका
शैघ्र्यै हेतुमाह - पापावहीयं वेत्यादि ॥ पापस्यावहतिः पापावहीयम् । भावे छान्दसः क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । दशमेन हि अह्ना पापस्य समस्तस्य विनाशं प्राप्नुवन्ति सद्य एव सर्वं पापं नश्यति तत्किमिति विलम्ब्यते इति । प्राप्तिकर्मा भवतिः । कर्मणि वा क्यप्प्रत्ययः, क्रियाविशेषणं, पापमवहीनं यथा भवति तथा भवन्ति भूतिमन्तस्सपद्यन्ते ॥
मूलम् (संयुक्तम्)
यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्ञु॒तेऽथ॒ यो व्याह॒ सः [1]
ही॒य॒ते॒ तस्मा॑द्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒म्
विश्वास-प्रस्तुतिः
यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ , स ही॑यते ।
तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नुते ।
मूलम्
यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ , स ही॑यते ।
तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नुते ।
भट्टभास्कर-टीका
2यो वा इत्यादि ॥ लोके हि प्रजवं शीघ्रं गच्छतां मध्ये योपथेन अमार्गेण प्रतिपद्यते सार्धं हित्वा गच्छति, यो वा स्थाणुं हन्ति गच्छति, न्येति रोधादिकं नित्य इत्यस्य भूयो विरोधिः ? । भ्रेषं कण्टकादिना गत्यसामर्थ्यं न्येति गच्छति स हीयते तस्मात्सार्धात् भ्रष्टो भवति । तस्मात् स यो वा एतादृशे दशमेऽहनि अविवाक्ये विवाक्यरहिते उपहन्यते स्मृतिविनाशादिना दुष्यति स हीयते एव । किंच - तस्मै उपहताय योन्यो व्याह विरुद्धमाह तस्य स्खलितं व्याकरोति तं स्खलितस्य व्याकर्तारमन्वारभ्य अवलम्ब्य समश्नुते व्याप्नोति कर्मसिद्धिं न तु हीयते उपहतस्खलितत्रेषव्यपगमात् ।
विश्वास-प्रस्तुतिः
अथ॒ यो व्याह॒ स ही॑यते [1]।
तस्मा॑द् दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्यम्॑ ।
मूलम्
अथ॒ यो व्याह॒ स ही॑यते [1]।
तस्मा॑द् दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्यम्॑ ।
भट्टभास्कर-टीका
अथ योप्रा प्तकारी अविवाक्येनाह्ना व्याह स एव हीयते । तस्माद्दशमेऽह्नि अविवाक्ये द्रुतगतित्वेन अविवचनार्हे उपहताय न व्युच्यम् । छान्दसः क्यप्, न विवक्तव्यमस्मिन् इत्यविवाक्यं, अधिकरणे ण्यत्, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - विवक्तव्यं विवाक्यं तदस्मिन्नास्तीति अविवाक्यम्, बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
अथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन्य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒न्तद्यज॑मानस्य॒ यद्व्यृ॑द्ध॒न्तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॑ [2]
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तस्सद॒साद्व्युच्यय्ँ॒यदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्य॒न्तद्व्युच्य॑मे॒व
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर्
य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ,
य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्निति॑ ।
यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒न् , तद्यज॑मानस्य॒ यद्व्यृ॑द्ध॒न् तद्भ्रातृ॑व्यस्य ।
स यो वै द॑श॒मे ऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒, स ए॒वाति॑ रेचयति ।
मूलम्
अथो॒ खल्वा॑हुर्
य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ,
य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्निति॑ ।
यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒न् , तद्यज॑मानस्य॒ यद्व्यृ॑द्ध॒न् तद्भ्रातृ॑व्यस्य ।
स यो वै द॑श॒मे ऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒, स ए॒वाति॑ रेचयति ।
भट्टभास्कर-टीका
3अथो खल्वाहुरित्यादि - अविकलं पुष्कलं यज्ञफलं यजमानस्य । विकलं यज्ञफलमस्य शत्रोरित्यर्थः । एवं स्थिते स एष दशमेऽहनि अविवाक्ये उपहन्यते । सोतिरेचयत्येव यज्ञं यज्ञांशं किंचिच्छेषयति तस्याकृतत्वात् तस्याविकलत्वात् यज्ञफलं भ्रातृव्यस्य स्यात्, तत् मा भूदेष दोष इति विवचनं वक्तव्यमेव विकलांशपूरणाय ।
विश्वास-प्रस्तुतिः
ते ये बाह्या॑ दृशी॒कव॒स् स्युस्, ते वि ब्रू॑युः । [2]
यदि॒ तत्र॒ न वि॒न्देयु॑र्, अन्तस् सद॒साद् व्युच्य॑म् ।
यदि॒ तत्र॒ न वि॒न्देयु॑र् गृ॒हप॑तिना॒ व्युच्य॑म् ।
तद्व्युच्य॑मे॒व ।
मूलम्
ते ये बाह्या॑ दृशी॒कव॒स् स्युस्, ते वि ब्रू॑युः । [2]
यदि॒ तत्र॒ न वि॒न्देयु॑र्, अन्तस् सद॒साद् व्युच्य॑म् ।
यदि॒ तत्र॒ न वि॒न्देयु॑र् गृ॒हप॑तिना॒ व्युच्य॑म् ।
तद्व्युच्य॑मे॒व ।
भट्टभास्कर-टीका
तस्मादत्र ये बाह्याः बहिर्भवाः ऋत्विग्भ्योऽन्ये दृशीकवः येऽन्ये प्रेक्षका वर्तन्ते तेऽपि ब्रूयुः यदि तत्र बहिर्वक्तॄन् स्खलितस्य वेदितॄर् न विन्देयुः न लभेरन् । विदिर्लाभे । अन्तस्सदसात् सदसोन्तरधितिष्ठद्भिः विवाच्यं ऋत्वि- ग्भिरेव । सदो यज्ञगृहं तस्यान्तर्मध्यं अन्तस्सदसं, ‘अव्ययीभावे शरत्प्रभृतिभ्यः’ इत्यच् समासान्तः, ततो ल्यब्लोपे कर्मणि पञ्चमी । यदि तत्रापि स्खलितज्ञातॄन् न विन्देयुः गृहपतिना यतमानेनैव व्युच्यम् । कि बहुना येनकेनापि स्खलितभावविदा विवक्तव्यं नाविवाक्यमिति कथं नाम अविवाक्यमहस्स्यात् विवक्तव्यमस्मिन् नास्तीत्यविवाक्यं यथा विवक्तव्यमत्र न भवति तथाऽवहितैः कर्तव्यमिति सति तु स्खलिते विवक्तव्यमेवेति ॥
मूलम् (संयुक्तम्)
अथ॒ वा ए॒तत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ती॒यव्ँ वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्याङ्किञ्चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यँ स॑र्परा॒ज्ञी
विश्वास-प्रस्तुतिः
अथ॒ वा ए॒तत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति ।
इ॒यव्ँ वै सर्प॑तो॒ राज्ञी॑ ।
यद्वा अ॒स्याङ्किञ्चार्च॑न्ति॒ ,
यदा॑नृ॒चुस् तेने॒यँ स॑र्परा॒ज्ञी ।
मूलम्
अथ॒ वा ए॒तत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति ।
इ॒यव्ँ वै सर्प॑तो॒ राज्ञी॑ ।
यद्वा अ॒स्याङ्किञ्चार्च॑न्ति॒ ,
यदा॑नृ॒चुस् तेने॒यँ स॑र्परा॒ज्ञी ।
भट्टभास्कर-टीका
4अथवा इत्यादि ॥ अथ वा तस्मिन्नहनि समाप्तिकाले सर्पराज्ञिया ऋग्भिः सा एतं मन्त्रमपश्यदिति सर्पराज्ञियाः पृथिव्याः अष्टाभिः ‘भूमिर्भूम्ना’ इत्यादिभिः ऋग्भिस्स्तुवन्ति । का पुनः सर्पराज्ञी? कथं पुनः सा सर्पराज्ञी? इत्याह - इयमित्यादि । इयं पृथिवी सर्पतो गतिमततः सर्पस्य राज्ञी स्वामिनी । कथमित्याह - यद्वा इत्यादि ॥ यत्किंचिदर्चन्ति तत् अर्चनीयं तत्सर्वमस्यां निवर्तते । तदिदमेकं कारणम् । यच्चेमां पृथिवीं सर्वेऽप्यानृचुः अर्चयन्ति वाचा पूजयन्ति अतश्चेयं स्वामिनी सर्वस्य अतः सर्पराज्ञीत्युच्यते । ‘अपस्पृधेथाम्’ इत्यादौ अर्चयतेर्लिटि आनृचुरिति निपात्यते । राजनशीला राज्ञी स्वामिनी ‘कनिन्युवृष’ इति कनिन्, ऋन्नेभ्यो ङीष् । ततः सर्पाणां राज्ञीति षष्ठीतत्पुरुषे समासान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
ते यदे॒व किञ्च॑ वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तारः॑ [3] तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒
विश्वास-प्रस्तुतिः
ते यदे॒व किञ्च॑ वा॒चाऽऽनृ॒चुर्
यद॒तोऽध्य॑र्चि॒तार॒स् ,
तद् उ॒भय॑म् आ॒प्त्वा ऽव॒रुध्योत्ति॑ष्ठा॒मेति॒
ताभि॒र् मन॑सा स्तुवते ।[3]
मूलम्
ते यदे॒व किञ्च॑ वा॒चाऽऽनृ॒चुर्
यद॒तोऽध्य॑र्चि॒तार॒स् ,
तद् उ॒भय॑म् आ॒प्त्वा ऽव॒रुध्योत्ति॑ष्ठा॒मेति॒
ताभि॒र् मन॑सा स्तुवते ।[3]
भट्टभास्कर-टीका
5ते यदेवेत्यादि ॥ यत्किंचित् तस्यः पृथिव्याः संबन्धि वस्तु वाचाऽर्चयन्ति अतः अस्यां पृथिव्यां अधि उपरि अनर्थतो वा अधिशब्दः सर्वधा अनवग्रहः । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । तस्या यद्वस्तु अर्चितारः पूजयन्ति जनाः तदुभयमप्याप्त्वा लब्ध्वा अवरुध्य विधेयीकृत्य च ते वशमुत्तिष्ठाम उच्छ्रिता भूयास्मेत्यनेनाभिप्रायोग सर्पराज्ञिया ऋग्भिस्स्तुवन्ति । तेभ्य इत्यस्योत्तिष्ठामेत्यनेन संबन्धः । ताभिरित्यादि ॥
मूलम् (संयुक्तम्)
न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थस्स॒द्यᳶ पर्या॑प्तुमर्हति॒ मनो॒ वा इ॒माँ स॒द्यᳶ पर्या॑प्तुमर्हति॒ मन॒ᳶ परि॑भवितु॒म्
विश्वास-प्रस्तुतिः
न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थस्स॒द्यᳶ पर्या॑प्तुमर्हति ।
मनो॒ वा इ॒माँ स॒द्यᳶ पर्या॑प्तुमर्हति॒ , मन॒ᳶ परि॑भवितुम् ।
मूलम्
न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थस्स॒द्यᳶ पर्या॑प्तुमर्हति ।
मनो॒ वा इ॒माँ स॒द्यᳶ पर्या॑प्तुमर्हति॒ , मन॒ᳶ परि॑भवितुम् ।
भट्टभास्कर-टीका
6हेतुमाह - न वा इत्यादि ॥ अश्वयुक्तो रथः अश्वतरीयुक्तो वा इमां पृथिवीं सद्य एव पर्याप्तुं सर्वतोऽवाप्तुं नार्हति मन एवार्हति तथाकर्तुं परिभवितुं अतिव्याप्तुं मन एवार्हति तस्मान्मनसा स्तोतव्यमिति । गर्दभेन बडबायामुत्पन्ना अश्वतरी अश्वादपि शीघ्रगामिनी । ‘वत्सोक्षाश्वर्षभेभ्यः" इति ष्टरन् ॥
मूलम् (संयुक्तम्)
अथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋच॒ᳶ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजूँ॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ॥ [4]
विश्वास-प्रस्तुतिः
अथ॒ ब्रह्म॑ वदन्ति ।
परि॑मिता॒ वा ऋच॒ᳶ, परि॑मितानि॒ सामा॑नि॒, परि॑मितानि॒ यजूँ॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॑ ।
यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत ।
स प्र॑तिग॒रः ॥ [4]
मूलम्
अथ॒ ब्रह्म॑ वदन्ति ।
परि॑मिता॒ वा ऋच॒ᳶ, परि॑मितानि॒ सामा॑नि॒, परि॑मितानि॒ यजूँ॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॑ ।
यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत ।
स प्र॑तिग॒रः ॥ [4]
भट्टभास्कर-टीका
7अथेत्यादि ॥ अथ स्तोत्रान्ते शस्त्रारम्भे ब्रह्म वदन्ति चतुर्होर्त्रं जपन्ति । ‘ब्रह्म वै चतुर्होतारः’ इति ब्राह्मणम् । सर्वेऽपि दशहोत्रादयश्चतुर्होतारः; यथोक्तं - ‘दशहोता चतुर्होता । पञ्चहोता षड्डोता सप्तहोता । अथ कस्माच्चतुरहोतार उच्यन्ते’ इति । परिमिता वा इत्यादि । ऋगादीनि परिमितानि परिच्छिन्नानि ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ब्रह्मैव अनन्तं अपरिमितं तत्प्रतिगृणते अध्वर्यवे होताऽऽचक्षीत स एव प्रतिगरो भवति न प्रतिगरोन्य इति । प्रतिगृणतेः ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । प्रतिगरः थाथादिनोत्तरपदान्तोदात्तत्वम् । शंसितुः प्रोत्साहनं प्रतिगरः ॥
इति सप्तमे तृतीये प्रथमोनुवाकः ॥