१९ अश्वमेधाङ्गरात्रिहोममन्त्राः सङ्ख्यादेवताकाः ९

पञ्चशतमारभ्य पञ्चाशदुत्तराणां शतोत्तराणां च सङ्घः विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॑ त्रि॒भ्यश्श॒तेभ्य॒स्स्वाहा॑ च॒तुर्भ्य॑श्श॒तेभ्य॒स्स्वाहा॑ प॒ञ्चभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ ष॒ड्भ्यश्श॒तेभ्य॒स्स्वाहा॑ स॒प्तभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ऽष्टा॒भ्यश्श॒तेभ्य॒स्स्वाहा॑ न॒वभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [49]

विश्वास-प्रस्तुतिः

प॒ञ्चा॒शते॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ ।
द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॑ । त्रि॒भ्यश् श॒तेभ्य॒स् स्वाहा॑ । च॒तुर्भ्य॑श् श॒तेभ्य॒स् स्वाहा॑ ।
प॒ञ्चभ्य॑श् श॒तेभ्य॒स् स्वाहा॑ । ष॒ड्भ्यश् श॒तेभ्य॒स् स्वाहा॑ । स॒प्तभ्य॑श् श॒तेभ्य॒स् स्वाहा॑ ।
अ॒ष्टा॒भ्यश् श॒तेभ्य॒स् स्वाहा॑ । न॒वभ्य॑श् श॒तेभ्य॒स् स्वाहा॑ । स॒हस्रा॑य॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [49]

मूलम्

भट्टभास्कर-टीका

अथ क्रमप्राप्तं विशतिद्वैगुण्यं शतान्वयाभावेन हित्वा पञ्चाशदादिपञ्चाशदुत्तरा गृह्यन्ते - पञ्चाशते स्वाहा शताय स्वाहेति ॥ तत ऊर्ध्वं शतवृद्धिः ‘द्वाभ्यां शताभ्यां’ इत्यादिकं कृतं भवति । एवं दशस्थानाभिवृद्धिभिः विकल्पैः बहुधा शतपूरणप्रतिपादनेन शतस्थाने एकत्वसङ्ख्या समर्थिता । इदानीं तु शतद्वित्वादिसंपादनक्रमेण सहस्रस्थाने एकत्वसंख्यामारोहयति - सर्वस्मै इति ॥

इति सप्तमे द्वितीये एकोनविंशोनुवाकः ॥