१८ अश्वमेधाङ्गरात्रिहोममन्त्राः सङ्ख्यादेवताकाः ८

  • विशत्यादि विंशत्युत्तरसङ्ख्य़ासङ्घः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)

विँ॒श॒त्यै स्वाहा॑ चत्वारिँ॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [48]

विश्वास-प्रस्तुतिः

विँ॒श॒त्यै स्वाहा॑ । च॒त्वा॒रिँ॒शते॒ स्वाहा॑ । ष॒ष्ट्यै स्वाहा॑ ।
अ॒शी॒त्यै स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [48]

मूलम्

विँ॒श॒त्यै स्वाहा॑ । च॒त्वा॒रिँ॒शते॒ स्वाहा॑ । ष॒ष्ट्यै स्वाहा॑ ।
अ॒शी॒त्यै स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [48]

भट्टभास्कर-टीका

अथ दशादिद्विगुणकया विंशत्या शतान्ता गृह्यन्ते - विंशत्या इति ॥ अत्रापि शतस्य क्रमप्राप्तिः स्पष्टा ॥

इति सप्तमे द्वितीये अष्टादशोनुवाकः ॥