- पढ्चादिपञ्चोत्तरसङ्ख्यासङ्घः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प॒ञ्चभ्य॒स्स्वाहा॑ द॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [46]
विश्वास-प्रस्तुतिः
प॒ञ्चभ्य॒स् स्वाहा॑ । द॒शभ्य॒स् स्वाहा॑ । प॒ञ्च॒द॒शभ्य॒स् स्वाहा॑ ।
विँ॒श॒त्यै स्वाहा॑ । पञ्च॑नवत्यै॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [46]
मूलम्
प॒ञ्चभ्य॒स् स्वाहा॑ । द॒शभ्य॒स् स्वाहा॑ । प॒ञ्च॒द॒शभ्य॒स् स्वाहा॑ ।
विँ॒श॒त्यै स्वाहा॑ । पञ्च॑नवत्यै॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [46]
भट्टभास्कर-टीका
1अथ पञ्चादिपञ्चोत्तरा गृह्यन्ते - पञ्चभ्य इत्यादि ॥ पूर्वेण समानम् । अत्रापि पञ्चनवतिग्रहणं पञ्चकेन शतपूरणं प्रदर्शयितुम् ॥
इति सप्तमे द्वितीये षोडशोनुवाकः ॥