१५ अश्वमेधाङ्गरात्रिहोममन्त्राः सङ्ख्यादेवताकाः ५

  • चतुरादि चतुरुत्तरसङ्ख्यासङ्घः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)

च॒तुर्भ्य॒स्स्वाहा॑ऽष्टा॒भ्यस्स्वाहा॑ द्वाद॒शभ्य॒स्स्वाहा॑ षोड॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [45]

विश्वास-प्रस्तुतिः

च॒तुर्भ्य॒स् स्वाहा॑ । अ॒ष्टा॒भ्यस् स्वाहा॑ । द्वा॒द॒शाभ्य॒स् स्वाहा॑ । षो॒ड॒शभ्य॒स् स्वाहा॑ ।
विँ॒श॒त्यै स्वाहा॑ ।॒ षण्ण॑वत्यै॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [45]

मूलम्

च॒तुर्भ्य॒स् स्वाहा॑ । अ॒ष्टा॒भ्यस् स्वाहा॑ । द्वा॒द॒शाभ्य॒स् स्वाहा॑ । षो॒ड॒शभ्य॒स् स्वाहा॑ ।
विँ॒श॒त्यै स्वाहा॑ ।॒ षण्ण॑वत्यै॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [45]

भट्टभास्कर-टीका

1अथ चतुरादिचतुरुत्तरा युग्मा गृह्यन्ते - चतुर्भ्य इत्यादि ॥ विंशत्यन्तानां ग्रहणं उपात्तस्य चतुष्कपञ्चकस्य विंशत्यन्तरेऽप्यविशिष्टत्वात् । षण्णवतिग्रहणं यावच्छतमव्यवच्छेदेन चतुष्कान्वयप्रदर्शनार्थं चतुर्भिश्शतपूरणख्यापनार्यं च ॥

इति सप्तमे द्वितीये पञ्चदशोनुवाकः ॥