द्व्यादि युग्मसङ्ख्यासङ्घः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
द्वाभ्याँ॒ स्वाहा॑ च॒तुर्भ्य॒स्स्वाहा॑ ष॒ड्भ्यस्स्वाहा॑ऽष्टा॒भ्यस्स्वाहा॑ द॒शभ्य॒स्स्वाहा॑ द्वाद॒शभ्य॒स्स्वाहा॑ चतुर्द॒शभ्य॒स्स्वाहा॑ षोड॒शभ्य॒स्स्वाहा॑ऽष्टाद॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [43]
विश्वास-प्रस्तुतिः
द्वाभ्याँ॒ स्वाहा॑ । च॒तुर्भ्य॒स् स्वाहा॑ । ष॒ड्भ्यस् स्वाहा॑ । अ॒ष्टा॒भ्यस् स्वाहा॑ ।
द॒शभ्य॒स् स्वाहा॑ । द्वा॒द॒शभ्य॒स् स्वाहा॑ । च॒तु॒र्द॒शभ्य॒स् स्वाहा॑ । षो॒ड॒शभ्य॒स् स्वाहा॑ ।
अ॒ष्टा॒द॒शभ्य॒स् स्वाहा॑ । विँ॒श॒त्यै स्वाहा॑ । अ॒ष्टान॑वत्ये॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [43]
मूलम्

भट्टभास्कर-टीका
1अथ युग्माः द्वाम्यामित्याद्या उपादीयन्ते - विंशत्याम्नानं द्वितीयेऽपि स्थाने सङ्ख्याद्वयप्रदर्शनार्थम् । अथ सङ्ग्रहिष्यत् तत्पूर्वां सङ्ख्यां गृह्णाति द्वाभ्यां शतपूर्तिं ख्यापयितुं सर्वयुग्माविच्छेदान्वयप्रदर्शनाथम् । सर्वग्रहणं च अनुक्तसमस्तयुग्मसङ्ग्रहार्थम् ॥
इति सप्तमे द्वितीये त्रयोदशोनुवाकः ॥