१२ अश्वमेधाङ्गरात्रिहोममन्त्राः सङ्ख्यादेवताकाः २

  • अयुजामेकाधिकानां सङ्घः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)

एक॑स्मै॒ स्वाहा॑ त्रि॒भ्यस्स्वाहा॑ प॒ञ्चभ्य॒स्स्वाहा॑ स॒प्तभ्य॒स्स्वाहा॑ न॒वभ्य॒स्स्वाहै॑काद॒शभ्य॒स्स्वाहा॑ त्रयोद॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ सप्तद॒शभ्य॒स्स्वाहैका॒न्न विँ॑श॒त्यै स्वाहा॒ नव॑विँशत्यै॒ स्वाहैका॒न्न च॑त्वारिँ॒शते॒ स्वाहा॒ नव॑चत्वारिँशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]

विश्वास-प्रस्तुतिः

एक॑स्मै॒ स्वाहा॑ । त्रि॒भ्यस् स्वाहा॑ । प॒ञ्चभ्य॒स्स्वाहा॑ । स॒प्तभ्य॒स् स्वाहा॑ ।
न॒वभ्य॒स् स्वाहा॑ । ए॒का॒द॒शभ्य॒स् स्वाहा॑ । त्र॒यो॒द॒शभ्य॒स् स्वाहा॑ । प॒ञ्च॒द॒शभ्य॒स् स्वाहा॑ ।
स॒प्त॒द॒शभ्य॒स् स्वाहा॑ । एका॒न्न विँ॑शत्यै स्वाहा॑ । नव॑विँशत्यै॒ स्वाहा॑ । एका॒न्न च॑त्वारिँ॒शते॒ स्वाहा॑ ।
नव॑चत्वारिँशते॒ स्वाहा॑ । एका॒न्न ष॒ष्ट्यै स्वाहा॑ । नव॑षष्ट्यै॒ स्वाहा॑ । एका॒न्नाशी॒त्यै स्वाहा॑ ।
नवा॑शीत्यै॒ स्वाहा॑ । एका॒न्न श॒ताय॒ स्वाहा॑ । श॒ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [42]

मूलम्

भट्टभास्कर-टीका

1अथ अयुग्माः सङ्ख्याः एकादिद्व्युत्तरा उपादीयन्ते - एकस्मा इत्यादि ॥ गतम् । युग्मत्वेऽपि शतसङ्ख्याया उपादाने हेतुरुक्तः । द्वाभ्यां शताभ्यामित्यपि नोक्तं युग्मत्वादेव । सर्वस्मा इति चानुक्तसमुच्चयार्थमुक्तम् ॥

इति सप्तमे द्वितीये द्वादशोनुवाकः ॥