१० तदीयकतिपयगुणविधयः (द्वादशाहः दीक्षाविशेषश्च)

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

न वा ए॒षो॑ऽन्यतो॑वैश्वानरस्सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तव्ँ वै॑श्वान॒रम्पर्यौ॑हन्त्सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्यै

विश्वास-प्रस्तुतिः

न वा ए॒षो॑ऽन्यतो॑वैश्वानरस् सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वत् ।
ऊ॒र्ध्वो ह॒ वा ए॒ष आत॑त आसीत् ।

मूलम्

न वा ए॒षो॑ऽन्यतो॑वैश्वानरस् सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वत् ।
ऊ॒र्ध्वो ह॒ वा ए॒ष आत॑त आसीत् ।

भट्टभास्कर-टीका

1पुनरपि द्वादशाह एव गुणविधयः क्रियन्ते - न वा एष इत्यादि ॥ एष द्वादशाहः अन्यतो वैश्वानरः, एकतोऽतिरात्रः । आदावेवातिरात्रवान् सुवर्गाय लोकाय न प्राभवत् स्वर्गं प्रापयितुं न समर्थोऽभवत् । कुत इत्याह - एष हि स्वर्गः ऊर्ध्व आततः विस्तीर्णः आस्तर्णिः आसीत् तस्माद्यावत्स्वर्गप्रापणाय पर्याप्तो नाभवत् ।

विश्वास-प्रस्तुतिः

ते दे॒वा ए॒तव्ँ वै॑श्वान॒रम् पर्यौ॑हन्त् , सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्यै ।

मूलम्

ते दे॒वा ए॒तव्ँ वै॑श्वान॒रम् पर्यौ॑हन्त् , सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्यै ।

भट्टभास्कर-टीका

ततः ते देवाः द्वादशाहं तथा दृष्टवन्तः । एतमेव वैश्वानरं पर्यौहन् परित आदावन्ते चानयन् । ततोसौ महत्त्वात् स्वर्गस्य प्रभूत्यै प्रभूतये यावत्स्वर्गं प्रापयितुं प्रभुरभवत् ॥

मूलम् (संयुक्तम्)

ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वा॑र्ध्नो॒दधि॒ तत्…

विश्वास-प्रस्तुतिः

ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजयन् ।
तेष्वा॑र्ध्नो॒दधि॒ तत् ।

मूलम्

ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजयन् ।
तेष्वा॑र्ध्नो॒दधि॒ तत् ।

भट्टभास्कर-टीका

2ऋतवो वा इत्यादि ॥ एतेन द्वादशाहेन पूर्वं ऋतवः ऋत्विजो भूत्वा प्रजापतिमयाजयन् । ततः तत्तस्मात् तेन कर्मणा वा तेषु निमित्तभूतेषु प्रजापतिरधिकं आर्ध्नोत् ॥

मूलम् (संयुक्तम्)

ऋ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वव्ँवि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒

विश्वास-प्रस्तुतिः

ऋ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ , य ए॒वव्ँ वि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते ।

मूलम्

ऋ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ , य ए॒वव्ँ वि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते ।

भट्टभास्कर-टीका

3ऋध्नोतीत्यादि ॥ तस्मादेवं विदित्वा द्वादशाहेन यष्टा ऋत्विक्षु निमित्तेषु ऋध्नोत्येव ॥

मूलम् (संयुक्तम्)

ते॑ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37]
यव॑ङ्ग्री॒ष्मायौष॑धीर्व॒र्षाभ्यो॑ व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॒न्…

विश्वास-प्रस्तुतिः

ते॑ऽस्मिन्नैच्छन्त ।
स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37] ।
यव॑ङ्ग्री॒ष्मायौष॑धीर् व॒र्षाभ्यो॑ , व्री॒हीञ्छ॒रदे॑, माषति॒लौ हे॑मन्तशिशि॒राभ्या॑म्।

मूलम्

ते॑ऽस्मिन्नैच्छन्त ।
स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37] ।
यव॑ङ्ग्री॒ष्मायौष॑धीर् व॒र्षाभ्यो॑ , व्री॒हीञ्छ॒रदे॑, माषति॒लौ हे॑मन्तशिशि॒राभ्या॑म्।

भट्टभास्कर-टीका

4त इत्यादि ॥ ततस्ते ऋतवः अस्मिन् प्रजापतौ ऐच्छन्त दक्षिणामलिप्सन्त । स च प्रजापतिः अनन्तरं वसन्ताय रसं मध्वादि प्रायच्छत् पुष्पादिसम्बन्धेन मधुमानभूत् वसन्त: । यवं ग्रीष्मायेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

तेनेन्द्र॑म्प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जत…

विश्वास-प्रस्तुतिः

तेनेन्द्र॑म् प्र॒जाप॑तिरयाजयत् ।
ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभवत् ।
तस्मा॑दाहुर् - “आ॒नुजाव॒रस्य॑ य॒ज्ञ” इति॑ ।
स ह्ये॑तेनाग्रे ऽय॑जत ।

मूलम्

तेनेन्द्र॑म् प्र॒जाप॑तिरयाजयत् ।
ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभवत् ।
तस्मा॑दाहुर् - “आ॒नुजाव॒रस्य॑ य॒ज्ञ” इति॑ ।
स ह्ये॑तेनाग्रे ऽय॑जत ।

भट्टभास्कर-टीका

5तेनेन्द्रमित्यादि ॥ इन्द्रमनुजावरं प्रजापतिरयाजयत्, तत इन्द्र इन्द्रोऽभवत् अनुजावरत्वमपास्य प्रागिवेश्वरोऽभवत् । तस्मादाहुः आनुजावरस्य यज्ञ इति । य उत्कृष्टस्सन् अवरभावं गतः स एतेन यजेतेति, यस्मात्स तादृश इन्द्र एतेनाग्रे प्रथममयजत अनुजावरत्वनिवृत्तये, ईश्वरश्च संपन्न इति ॥

मूलम् (संयुक्तम्)

ए॒ष ह॒ वै कु॒णप॑मत्ति॒ यस्स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पङ्गौर्वा अन्नय्ँ॒येन॒ पात्रे॒णान्न॒म्बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॑ [38]
मल॑ञ्जायत॒

विश्वास-प्रस्तुतिः

ए॒ष ह॒ वै कु॒णप॑म् अत्ति॒, यस् स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ ।

मूलम्

ए॒ष ह॒ वै कु॒णप॑म् अत्ति॒, यस् स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ ।

भट्टभास्कर-टीका

6संप्रति अहीनयाजकदूषणेन अहीनमेव दूषयितुमाह- एष ह वा इत्यादि ॥ कुणपमत्ति मांसमत्ति, अकार्यं करोतीति यावत् यस्सत्रे अहस्समूहे प्रतिगृह्णाति याजयित्वा ।

विश्वास-प्रस्तुतिः

पु॒रु॒ष॒कु॒ण॒पम् अ॑श्वकुण॒पम् ।
गौर्वा अन्न॑म् ।

मूलम्

पु॒रु॒ष॒कु॒ण॒पम् अ॑श्वकुण॒पम् ।
गौर्वा अन्न॑म् ।

भट्टभास्कर-टीका

कुणपं विशिनष्टि - पुरुषकुणपमित्यादि । पुरुषादिग्रहणेनाभक्ष्यत्वं दर्शयति । न मांसमात्रं, अपि तु पुरुषादिमांसमेवाभक्ष्यमत्तीति । गौर्वा अन्नमिति । गोशब्देन दक्षिणोच्यते । अन्नस्थानीया दक्षिणा, प्रतिग्रहीता तु पात्रस्थानीयः ।

विश्वास-प्रस्तुतिः

येन॒ पात्रे॒णान्न॒म् बिभ्र॑ति॒, यत् तन्न नि॒र्णेनि॑जति॒, ततोऽधि॒ मल॑ञ्जायते ।[38]

मूलम्

येन॒ पात्रे॒णान्न॒म् बिभ्र॑ति॒, यत् तन्न नि॒र्णेनि॑जति॒, ततोऽधि॒ मल॑ञ्जायते ।[38]

भट्टभास्कर-टीका

तत्र येन पात्रोणान्नं बिभ्रति यदि तत्पात्रं न निर्णेनिजति न शोधयति । ‘निजां त्रयाणां गुणः’ इत्यभ्यासस्य गुणः । ततोधि मलं जायते तस्मात्पात्रस्थानीयः प्रतिग्रहीता अन्नस्थानीयया दक्षिणया मलिनो भवति । प्रतिग्राह्यविशेषेण पुरुषो दुष्यति अन्नविशेषेणेव पात्रं । तस्मात् नाहीने प्रतिग्राह्यमिति अहीनस्यैव निषेधः सत्रम प्रतिषिद्धमेवेति ।

मूलम् (संयुक्तम्)

एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्…

विश्वास-प्रस्तुतिः

एक॑ ए॒व य॑जेत ।
एको॒ हि प्र॒जाप॑ति॒रार्ध्नो॑त् ।

मूलम्

एक॑ ए॒व य॑जेत ।
एको॒ हि प्र॒जाप॑ति॒रार्ध्नो॑त् ।

भट्टभास्कर-टीका

7इदानीं अहीनं विदधाति- एव यजेतेति ॥ अहीनमपि कुर्यादेवेत्यर्थः । समर्थयते - एको हीति । एको हि प्रजापतिः द्वादशाहेन ऋद्धिं गतः । स यद्येको यष्टा कथं सत्रं स्यात्? । अथ यद्यहीनो न कर्तव्य एव, कथमनेन प्रजापतिः ऋद्धः स्यात्, तस्मात् अहीनः कर्तव्य इति ॥

मूलम् (संयुक्तम्)

द्वाद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ति॒र्वावैष…

विश्वास-प्रस्तुतिः

द्वाद॑श॒ रात्री॑र् दीक्षि॒तस् स्यात् ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॑वत्स॒रᳶ प्र॒जाप॑तिः, प्र॒जाप॑ति॒र् वावैषः ।

मूलम्

द्वाद॑श॒ रात्री॑र् दीक्षि॒तस् स्यात् ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॑वत्स॒रᳶ प्र॒जाप॑तिः, प्र॒जाप॑ति॒र् वावैषः ।

भट्टभास्कर-टीका

8अथ उभयसाधारणो विधिः - द्द्वादशरात्रीरित्मादि ॥ गतम् । प्रजापतिरेवैष यजमानः स्वयं तस्मात् द्वादशदीक्षा - इति ॥

मूलम् (संयुक्तम्)

ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोप॒सदो॒ याᳶ प्र॑थ॒मा य॒ज्ञन्ताभि॒स्सम्भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते [39]
यास्तृ॒तीया॒ᳶ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तश्शु॑न्धते॒

विश्वास-प्रस्तुतिः

ए॒ष ह॒ त्वै जा॑यते॒ यस् तप॒सोऽधि॒ जाय॑ते ।

मूलम्

ए॒ष ह॒ त्वै जा॑यते॒ यस् तप॒सोऽधि॒ जाय॑ते ।

भट्टभास्कर-टीका

9अथोपसदां विधिः - एष हेति ॥ एष एव जायते जातव्यपदेशमर्हति । कः? यस्तपसः उपसदो जायते ।

विश्वास-प्रस्तुतिः

चतु॒र्धा वा ए॒तास् ति॒स्रस् ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदः॑ ।
याᳶ प्र॑थ॒मा य॒ज्ञन् ताभि॒स् सम्भ॑रति ।

मूलम्

चतु॒र्धा वा ए॒तास् ति॒स्रस् ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदः॑ ।
याᳶ प्र॑थ॒मा य॒ज्ञन् ताभि॒स् सम्भ॑रति ।

भट्टभास्कर-टीका

चतुर्धेत्यादि । द्वादशोपसदः चतुर्धा तिस्रो भवन्ति । तत्र याः प्रथमाः तिस्र उपसदः ताभिः यज्ञं संभरति तत्साधनान्यर्जयति ।

विश्वास-प्रस्तुतिः

या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते [39] ।
यास् तृ॒तीया॒ᳶ पात्रा॑णि॒ ताभि॒र् निर्णे॑निक्ते ।
याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑म् अन्तर॒तश् शु॑न्धते ।

मूलम्

या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते [39] ।
यास् तृ॒तीया॒ᳶ पात्रा॑णि॒ ताभि॒र् निर्णे॑निक्ते ।
याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑म् अन्तर॒तश् शु॑न्धते ।

भट्टभास्कर-टीका

द्वितीयाभिः तिसृभिः यज्ञमारभते । तृतीयाभिः पात्राणि शोधयति । चतुर्थीभिरपि आत्मानं शोधयति । यद्वा - चतुर्थीभिरात्मानमपि शोधयति अन्तरतः अन्ततः । आद्यादित्वात्तसिः । अवसानवचनोन्तरशब्दः; यथाऽऽहुः - ‘अन्तरमवसानावधिपारिधानान्तर्धिभेदतादर्थ्ये’ इत्यादि । ततश्चाहीनपक्षेऽपि तस्य शुद्धत्वात् तस्य प्रतिग्रहोपि न दोषायेति तदनुज्ञा ॥

मूलम् (संयुक्तम्)

यो वा अ॑स्य प॒शुमत्ति॑ माँ॒सँ सो॑ऽत्ति॒ यᳶ पु॑रो॒डाश॑म्म॒स्तिष्कँ॒ स यᳶ प॑रिवा॒पम्पुरी॑षँ॒ स य आज्य॑म्म॒ज्जानँ॒ स यस्सोमँ॒ स्वेदँ॒ सोऽपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पद॒ᳶ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा॑द्द्वादशा॒हेन॒ न याज्य॑म्पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ [40]

विश्वास-प्रस्तुतिः

यो वा अ॑स्य प॒शुमत्ति॑ माँ॒सँ सो॑ऽत्ति ।
यᳶ पु॑रो॒डाश॑म् म॒स्तिष्कँ॒ सः +++(अत्ति)+++ ।
यᳶ प॑रिवा॒पम् पुरी॑षँ॒ सः +++(अत्ति)+++ ।
य आज्य॑म् म॒ज्जानँ॒ सः +++(अत्ति)+++ ।
यस्सोमँ॒ स्वेदँ॒ सः +++(अत्ति)+++ ।

मूलम्

यो वा अ॑स्य प॒शुमत्ति॑ माँ॒सँ सो॑ऽत्ति ।
यᳶ पु॑रो॒डाश॑म् म॒स्तिष्कँ॒ सः +++(अत्ति)+++ ।
यᳶ प॑रिवा॒पम् पुरी॑षँ॒ सः +++(अत्ति)+++ ।
य आज्य॑म् म॒ज्जानँ॒ सः +++(अत्ति)+++ ।
यस्सोमँ॒ स्वेदँ॒ सः +++(अत्ति)+++ ।

भट्टभास्कर-टीका

10पुनः दूषयति - यो वा अस्येत्यादि ॥ एवमहीनस्य विधिनिषधेपरंपरया सत्रस्य प्रशस्तताऽऽख्यायते । स चास्याहनिस्य पशुं पश्ववदानानि अत्ति न मांसमेव केवलमत्ति यजमानसंबन्धी यः पुरोडाशमत्तीत्वेव । मस्तिष्कं सः । अत्राप्यत्तीत्येव । मस्तिष्कः शिरोमांसः । यः परिवापं लाजानत्ति पुरीषं सोत्ति । यः आज्यमत्ति मज्जानं सोत्ति । यः सोममत्ति स्वेदमेव सोत्ति ।

विश्वास-प्रस्तुतिः

अपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पद॒ᳶ प्रति॑ गृह्णाति॒ , यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॑ ।
तस्मा॑द् द्वादशा॒हेन॒ न याज्य॑म् , पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ [40]

मूलम्

अपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पद॒ᳶ प्रति॑ गृह्णाति॒ , यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॑ ।
तस्मा॑द् द्वादशा॒हेन॒ न याज्य॑म् , पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ [40]

भट्टभास्कर-टीका

अपि च अस्य यजमानस्य शीर्षण्याः शिरसि भवाः निष्पदः निष्पद्यन्ते इति निष्पदः यूकादयः, ता एव प्रतिगृह्णाति यो द्वादशाहे गवादिदक्षिणां प्रतिगृह्णाति । तस्मात् द्वादशाहेन न याज्यम् । ऋत्विक्त्वमिदं निषिध्यते इत्येके । अहीनस्य निषेध इत्यन्ये । यजेर्ण्यन्तात् अचो यत् । ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । पाप्मनो व्यावृत्त्यै पृथग्भावार्थम् । ‘तादौ च’ इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम् ॥

इति सप्तमे द्वितीये दशमोनुवाकः ॥