विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यᳵ का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ यत् [34]
अ॒ग्नि॒ष्टो॒मम्पूर्व॑म्प्रयुञ्जी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तᳵ क॒नीनि॑के॒ प्रति॑ दधति॒
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अकामयत॒ - प्र जा॑ये॒येति॑ ।
स ए॒तन् द्वा॑दशरा॒त्रम् अ॑पश्य॒त् । तमाह॑रत् ।
तेना॑यजत । ततो॒ वै स प्राजा॑यत ।
यᳵ का॒मये॑त॒ - प्र जा॑ये॒येति॑ ।
स द्वा॑दशरा॒त्रेण॑ यजेत । प्रैव जा॑यते ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य् - अग्निष्टो॒मप्रा॑यणा य॒ज्ञा , अथ॒ कस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यत॒ इति॑ ।
मूलम्

भट्टभास्कर-टीका
1इदानीं द्वादशाहो विधीयते - प्रजापतिरित्यादि ॥ गतम् । ब्रह्मवादिन इत्यादि । अग्निष्टोमप्रायणाः यज्ञाः अग्निष्टोमारम्भणा भवन्ति सर्वे संगताः, अथ कस्मात्कारणात् तत्र द्वादशाहे अतिरात्रः पूर्वः प्रयुज्यते इति ब्रह्मवादिनः पर्यनुयोगं कुर्वन्ति ।
विश्वास-प्रस्तुतिः
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ , क॒नीनि॑के अग्निष्टो॒मौ ।
मूलम्
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ , क॒नीनि॑के अग्निष्टो॒मौ ।
भट्टभास्कर-टीका
तत्रैवं ब्रूयादित्याह - चक्षुषी वा इत्यादि । यज्ञस्य चक्षुस्स्थानीयौ अतिरात्रौ । कनीनिका चक्षुस्स्थं कृष्णमण्डलं, तत्स्थानीयावग्निष्टोमौ यज्ञस्य ।
विश्वास-प्रस्तुतिः
यद॑ग्निष्टो॒मम् पूर्व॑म् प्रयुञ्जी॒रन् ब॑हि॒र्धा क॒नीनि॑के दध्युः ।
मूलम्
यद॑ग्निष्टो॒मम् पूर्व॑म् प्रयुञ्जी॒रन् ब॑हि॒र्धा क॒नीनि॑के दध्युः ।
भट्टभास्कर-टीका
तथा सति यद्यग्निष्टोमं पूर्वं प्रयुञ्जीरन् बहिर्धा चक्षुषः बहिः कनीनिके दध्युः स्थापयेयुः । छान्दसो धाप्रत्ययः ।
विश्वास-प्रस्तुतिः
तस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यते ।
चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तᳵ क॒नीनि॑के॒ प्रति॑ दधति ।
मूलम्
तस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यते ।
चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तᳵ क॒नीनि॑के॒ प्रति॑ दधति ।
भट्टभास्कर-टीका
तस्मादतिरात्र एव प्रथमः प्रयोक्तव्य इति । एवं हि सति चक्षुषी यज्ञे धित्वा स्थापयित्वा अविनष्टे कृत्वा । विपर्यये हि चक्षुरेव न स्यादिति । धारणेन ततस्तयोः चक्षुषोर्मध्यतः कनीनिके प्रतिदधति प्रतिष्ठापयन्ति ॥
मूलम् (संयुक्तम्)
यो वै गा॑य॒त्रीञ्ज्योतिᳶ॑पक्षाव्ँ॒वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मैषा वै गा॑य॒त्री ज्योतिᳶ॑पक्षा॒ य ए॒वव्ँ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कम् [35]
ए॒ति॒
विश्वास-प्रस्तुतिः
यो वै गा॑य॒त्रीञ् ज्योतिᳶ॑पक्षाव्ँ॒ वेद॒ , ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
यो वै गा॑य॒त्रीञ् ज्योतिᳶ॑पक्षाव्ँ॒ वेद॒ , ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति ।
भट्टभास्कर-टीका
2यो वै गायत्रीमित्यादि ॥ ज्योतिःपक्षां ज्योतिष्टोमपक्षां पक्षिरूपां गायत्रीं यो वेद स ज्योतिषा द्योतमानया भासा स्वर्गं गच्छति ।
विश्वास-प्रस्तुतिः
याव॑ग्निष्टो॒मौ, तौ प॒क्षौ । येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मा ।
मूलम्
याव॑ग्निष्टो॒मौ, तौ प॒क्षौ । येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मा ।
भट्टभास्कर-टीका
तमेव दर्शयति - यावग्निष्टोमौ दशरात्रस्याद्यन्तौ तावस्याः पक्षौ, ये मध्यस्थिताः अष्टावुक्थ्याः सोस्या आत्मा ।
विश्वास-प्रस्तुतिः
एषा वै गा॑य॒त्री, ज्योतिᳶ॑पक्षा ।
य ए॒वव्ँ वेद॒
ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति (35)।
मूलम्
एषा वै गा॑य॒त्री, ज्योतिᳶ॑पक्षा ।
य ए॒वव्ँ वेद॒
ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति (35)।
भट्टभास्कर-टीका
एषेत्यादि । गतम् । अस्याश्चक्षुषी अतिरात्रावित्युक्तमेव ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मा
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो यद् द्वा॑दशरा॒त्रः ।
याव॑तिरा॒त्रौ तौ प॒क्षौ । येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑, स आ॒त्मा ।
मूलम्
प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो यद् द्वा॑दशरा॒त्रः ।
याव॑तिरा॒त्रौ तौ प॒क्षौ । येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑, स आ॒त्मा ।
भट्टभास्कर-टीका
3एवं गायत्र्याः पक्षित्वेन रूपणं सिद्धम् । अस्यास्सोमाहरणादौ पक्षित्वमिति तद्रूपो द्वादशाहो रूपितः । इदानीं प्रजापतित्वेन रूप्यते - प्रजापतिर्वा इत्यादि ॥ द्वादशधा द्वादशात्मा विवक्षितः । तस्यातिरात्रौ पक्षो, पार्श्वे अन्तस्स्थिता अष्टावुक्थ्या आत्मा, सकनीनिके अस्य चक्षुषी उक्ते ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्वावैष सन्त्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्वावैष सन्थ् - सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति ।
मूलम्
प्र॒जाप॑तिर्वावैष सन्थ् - सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति ।
भट्टभास्कर-टीका
4प्रजापतिर्वावेत्यादि ॥ एष द्वादशाहेन यष्टा प्रजापतिरेव सन् प्रकृष्टं प्रशस्तं अविनाशं कलं सत्रेणानेन स्पृणोति लभते । स्पृ प्रीत्यादौ, सोवादिकः ।
विश्वास-प्रस्तुतिः
प्रा॒णा वै सत् । प्रा॒णाने॒व स्पृ॑णोति ।
मूलम्
प्रा॒णा वै सत् । प्रा॒णाने॒व स्पृ॑णोति ।
भट्टभास्कर-टीका
किं च - प्राणा एव स्वयं सत्फलं तस्मात्प्राणानेव स्पृणोति ॥
मूलम् (संयुक्तम्)
सर्वा॑साव्ँ॒वा ए॒ते प्र॒जाना॑म्प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मा॑त्पृच्छन्ति॒ किमे॒ते स॒त्त्रिण॒ इति॑ प्रि॒यᳶ प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वव्ँ वेद॑ ॥ [36]
विश्वास-प्रस्तुतिः
सर्वा॑साव्ँ॒ वा ए॒ते प्र॒जाना॑म् प्रा॒णैरा॑सते॒ , ये स॒त्त्रमास॑ते ।
मूलम्
सर्वा॑साव्ँ॒ वा ए॒ते प्र॒जाना॑म् प्रा॒णैरा॑सते॒ , ये स॒त्त्रमास॑ते ।
भट्टभास्कर-टीका
5सर्वासामित्यादि ॥ एते हि सत्रिणः सर्वासां प्रजानां प्राणैस्सहासते प्राणान् रक्षन्त आसते तस्मात्प्राणान् स्पृणोति प्रीणयतीति । तस्मादेव च पृच्छन्ति लौकिकान्तस्स्तुष्टाः किमेते सत्रिणः ये प्रजानां प्राणान् स्पृण्वन्ति अहो महाभाग्यमेतेषां धिगस्मानितीति भावः । एवं वेदिता प्रजानां प्रियश्च भवति । उत्थितः लोकेषु पूजितश्च भवति । एवं प्रशस्तत्वाद्द्वादशाहेन यजेतेति विधिः । अन्ये तु अन्यथा वर्णयन्ति - स्पृणोतिः हिंसाकर्मा, व्यत्ययेन श्नुः । प्रजापतिरेव सन् एष यजमानः सत्फलं सत्रासनेन स्पृणोति हिनस्ति, प्राणांश्च स्पृणोत्येव तस्मात्सर्वासां प्रजानां प्राणैरेते आसते न केवलमात्मीयैरेव सत्रमासते ये मूर्खाः सत्रासनं कुर्वन्ति । यद्वा - विरुद्धमाचरन्नुच्यते प्राणैस्संक्रीडतीति । एवमेते प्रजानां प्राणविनाशार्थमासते इति ।
विश्वास-प्रस्तुतिः
तस्मा॑त् पृच्छन्ति॒ , “किमे॒ते स॒त्त्रिण॒” इति॑ ।
प्रि॒यᳶ प्र॒जाना॒म् उत्थि॑तो भवति॒ , य ए॒वव्ँ वेद॑ ॥ [36]
मूलम्
तस्मा॑त् पृच्छन्ति॒ , “किमे॒ते स॒त्त्रिण॒” इति॑ ।
प्रि॒यᳶ प्र॒जाना॒म् उत्थि॑तो भवति॒ , य ए॒वव्ँ वेद॑ ॥ [36]
भट्टभास्कर-टीका
तस्मात्पृच्छन्ति लौकिकाः जुगुप्समानाः किमेते सत्रिण इति, अहो मौर्ख्यमेषां ये विनाशहेतुं कुर्वन्ति धिगेतान् जितमस्माभिरिति । एवं विदित्वा य उत्थितः सत्राद्भवति सत्रासनं जहाति स प्रजानां प्रियो भवति अनिष्टव्यावृत्तेः । तस्मात्सत्रेण द्वादशाहेन यष्टव्यमित्यत्रैव योज्यम् । सत्रादुत्थितः प्रजानां प्रियो भवतीति य एवं वेद सोऽपि प्रियो भवति प्रजानाम् ॥
इति सप्तमे द्वितीये नवमोनुवाकः ॥