०८ तदङ्गनित्यग्रहाग्रताविधयः (द्वादशाहस्य व्यूढप्रकाशः)

मूलम् (संयुक्तम्)

गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वो गा॑य॒त्रम्प्रा॑य॒णीय॒मह॒स्तस्मा॑त्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒

विश्वास-प्रस्तुतिः

गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वः ।
गा॒य॒त्रम् प्रा॑य॒णीय॒महः॑ ।
तस्मा॑त् प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वः ।
गा॒य॒त्रम् प्रा॑य॒णीय॒महः॑ ।
तस्मा॑त् प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

1अधुना द्वादशाहस्य नित्यग्रहाग्रताकॢप्तिः प्रदर्श्यते । तत्र द्विविधो द्वादशाहः - अव्यूढो व्यूढश्च तद्विकार इति । तत्र प्रथमो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथाग्रयणाग्रम्, एवं विहित … निका … इति । अथ व्यूढो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथ द्वे आग्रयाणाग्रे अथ ऐन्द्रवायवाग्रम्, अथ द्वे शुक्राग्रे, अथ आग्रयणाग्रम्, अथ द्वे ऐन्द्रवायवाग्रे इति । विवहनक्रमश्चैषामनुवाकान्ते दर्शयिष्यते ॥

आदौ तु व्यूढान्यहानि क्रमेण दर्शयति - गायत्रो वा इत्यादि ॥ ऐन्द्रवायवो ग्रहो गायत्रं गायत्रभक्तं, प्राथम्यात् । तथा प्रायणीयमहः प्राथम्यादेव गायत्रम् । तस्मात्प्रयणीये दशरात्रस्य प्रथमेऽहनि प्राथम्यादेव प्रायणीयव्यपदेशभाजित्वात्, द्वादशाहस्य द्वितीयेऽहनि । यद्वा - प्रथमस्यातिरात्रस्य प्रथमत्वात्प्रायणीयेऽहनि ऐन्द्रवायवो गृह्यते प्रथममिति भावः, अन्यथा वचनानर्थक्यात्, यत्र क्वचन ग्रहणस्य वचनमन्तरेणापि सिद्धत्वात् । एवं सर्वत्र द्रष्टव्यम् । प्रायणं प्रारम्भः, तत्र भवः प्रायणीयः । दिगादित्वाच्छः । यद्वा - प्रायणं स्वर्गगमनादिकर्म, तत्प्रयोजनमस्येति । अनुप्रवचनादित्वाच्छः । स्व एवायतने स्थाने एनं गृह्णाति गायत्रं गायत्रेण, गायत्रत्वात् द्वयोः ॥

मूलम् (संयुक्तम्)

त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भन्द्वि॒तीय॒मह॒स्तस्मा॑द्द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒

विश्वास-प्रस्तुतिः

त्रैष्टु॑भो॒ वै शु॒क्रः ।
त्रैष्टु॑भन् द्वि॒तीय॒महः॑ ।

मूलम्

त्रैष्टु॑भो॒ वै शु॒क्रः ।
त्रैष्टु॑भन् द्वि॒तीय॒महः॑ ।

भट्टभास्कर-टीका

2त्रैष्टुभः शुक्रः त्रिष्टुब्भक्तित्वात् । त्रैष्टुभं द्वितीयमहः, गायत्र्या अनन्तरत्वात् ।

विश्वास-प्रस्तुतिः

तस्मा॑द् द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

तस्मा॑द् द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

तस्माद्वितीयेऽहनि दशरात्रस्य शुक्रः प्रथमं गृह्यते इति पूर्ववत् तद्द्रष्टव्यम् ॥

मूलम् (संयुक्तम्)

जाग॑तो॒ वा आ॑ग्रय॒णो जाग॑तन्तृ॒तीय॒मह॒स्तस्मा॑त्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति

विश्वास-प्रस्तुतिः

जाग॑तो॒ वा आ॑ग्रय॒णः । जाग॑तन् तृ॒तीय॒महः॑ ।
तस्मा॑त् तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

जाग॑तो॒ वा आ॑ग्रय॒णः । जाग॑तन् तृ॒तीय॒महः॑ ।
तस्मा॑त् तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

3जागत आग्रयणः । उभयोस्तृतीयसवने साहचर्यात् तृतीयत्वसाम्यात् जागतं तृतीयमहः । तस्मादित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ए॒तद्वै [27]
य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यदा॑ग्रय॒णश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॑ङ्क्ते॒

विश्वास-प्रस्तुतिः

ए॒तद् वै य॒ज्ञमा॑पद् यच् छन्दाँ॑स्या॒प्नोति॑ [27] ।

मूलम्

ए॒तद् वै य॒ज्ञमा॑पद् यच् छन्दाँ॑स्या॒प्नोति॑ [27] ।

भट्टभास्कर-टीका

4एतद्वा इत्यादि ॥ एतदाग्रयणग्रहाग्रतावत्तृतीयमर्हज्ञं त्रिरात्रमापत् अवाप्नोत् । यस्माद्वा एतच्छन्दांसि जगत्यन्तानि सर्वाण्याप्नोति - छन्दस्समाप्तौ हि यागसमाप्तिः, तत्राग्रयणे यज्ञावाप्तिरभूदिति - ततश्चतुर्थेऽह्नि द्वितीयस्य यज्ञस्य प्रथमे आग्रयणं प्रथमं गृह्यते ।

विश्वास-प्रस्तुतिः

यद् आ॑ग्रय॒णश् श्वो गृ॒ह्यते॒ ,
यत्रै॒व य॒ज्ञम् अदृ॑श॒न् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।

मूलम्

यद् आ॑ग्रय॒णश् श्वो गृ॒ह्यते॒ ,
यत्रै॒व य॒ज्ञम् अदृ॑श॒न् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।

भट्टभास्कर-टीका

यस्मादेवमाग्रयणः श्वो गृह्यते तद्यज्ञे यत्रादृशन् उदपादयत् छन्दांस्यपश्यन् तत एवाग्रयणादारभ्य एनं यज्ञं पुनः प्रयुङ्क्ते, आग्रयणाग्रता पुनरावर्तते इति यावत् । यज्ञदर्शनाधारत्वेन तस्य प्रशस्तत्वात् । दृशेर्लुङि इरित्त्वाच्च्लेरङादेशः, ‘ऋदृशोऽङि गुणः’ इति व्यत्ययेन न प्रवर्तते ॥

मूलम् (संयुक्तम्)

जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒

विश्वास-प्रस्तुतिः

जग॑न्मुखो॒ वै द्वि॒तीय॑स् त्रिरा॒त्रः ।
जाग॑त आग्रय॒णः ।
यच् च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ , स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

जग॑न्मुखो॒ वै द्वि॒तीय॑स् त्रिरा॒त्रः ।
जाग॑त आग्रय॒णः ।
यच् च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ , स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

5जगन्मुख । इत्यादि ॥ जागतराथन्तरबार्हतत्वाद्द्वितीयः त्रिरात्रः जगन्मुखः । जगत्सामप्रधानत्वात् जागतत्वमाग्रयणस्योक्तम् । स्व एव जागते आयतने एनमाग्रयणं गृह्णाति ।

विश्वास-प्रस्तुतिः

अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

मूलम्

अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

भट्टभास्कर-टीका

अथो अपि च स्वयमेव छन्दो जगतमिनुपर्यावर्तते द्वितीयत्रिरात्रसंवन्धीन्यहानि स्वेन छन्दसा अनुपर्यावर्तन्त इत्यर्थः । पूर्ववद्गतिनिघातसमासौ, तृतीयार्थे अनोः कर्मप्रवचनीयत्वम् । यद्वा - स्वयमेव पर्यावर्तन्ते ॥

मूलम् (संयुक्तम्)

राथ॑न्तरो॒ वा ऐ॑न्द्रवाय॒वो राथ॑न्तरम्पञ्च॒ममह॒स्तस्मा॑त्पञ्च॒मेऽह॑न् [28]
ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒

विश्वास-प्रस्तुतिः

राथ॑न्तरो॒ वा ऐ॑न्द्रवाय॒वः । राथ॑न्तरम् पञ्च॒ममहः॑ ।

मूलम्

राथ॑न्तरो॒ वा ऐ॑न्द्रवाय॒वः । राथ॑न्तरम् पञ्च॒ममहः॑ ।

भट्टभास्कर-टीका

6राथन्तरो वा ऐन्द्रवायवः, द्वयोरपि प्राथम्यात्, साहचर्या- च्च । राथन्तरं पञ्चममहः रथन्तरप्रधानत्वात् ।

विश्वास-प्रस्तुतिः

तस्मा॑त् पञ्च॒मेऽहन्नै॑न्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।

मूलम्

तस्मा॑त् पञ्च॒मेऽहन्नै॑न्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

तस्मादित्यादि । गतम् ॥ +++(विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

बार्ह॑तो॒ वै शु॒क्रो बार्ह॑तँ ष॒ष्ठमह॒स्तस्मा॑त्ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति

विश्वास-प्रस्तुतिः

बार्ह॑तो॒ वै शु॒क्रः । बार्ह॑तँ ष॒ष्ठमहः॑ ।
तस्मा॑त्ष॒ष्ठेऽह॑ञ् छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।

मूलम्

बार्ह॑तो॒ वै शु॒क्रः । बार्ह॑तँ ष॒ष्ठमहः॑ ।
तस्मा॑त्ष॒ष्ठेऽह॑ञ् छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

7बार्हतः शुक्रः, बृहद्भक्तित्वात् । बार्हतं षष्ठमहः, क्रमात् । तस्मादित्यादि । स्व एव बार्हते एनं गृह्णाति ॥

मूलम् (संयुक्तम्)

ए॒तद्वै द्वि॒तीयय्ँ॑ य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यच्छु॒क्रश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॑ङ्क्ते

विश्वास-प्रस्तुतिः

ए॒तद्वै द्वि॒तीयय्ँ॑ य॒ज्ञमा॑पद् , यच् छन्दाँ॑स्या॒प्नोति॑ ।
यच्छु॒क्रश् श्वो गृ॒ह्यते॒ , यत्रै॒व य॒ज्ञमदृ॑शन् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।

मूलम्

ए॒तद्वै द्वि॒तीयय्ँ॑ य॒ज्ञमा॑पद् , यच् छन्दाँ॑स्या॒प्नोति॑ ।
यच्छु॒क्रश् श्वो गृ॒ह्यते॒ , यत्रै॒व य॒ज्ञमदृ॑शन् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।

भट्टभास्कर-टीका

8एतद्वा इत्यादि ॥ द्वितीयं त्रिरात्रं यज्ञं शुक्राग्रतावत् अहरापत् छन्दांसि बृहत्यन्तानि । यच्छुक्र इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः [29]
शु॒क्रो यत्स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒

विश्वास-प्रस्तुतिः

त्रि॒ष्टुङ् मु॑खो॒ वै तृ॒तीय॑स् त्रिरा॒त्रः ।
त्रैष्टु॑भश् शु॒क्रः (29)।
यत्स॑प्त॒मे ऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ , स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।
अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

मूलम्

त्रि॒ष्टुङ् मु॑खो॒ वै तृ॒तीय॑स् त्रिरा॒त्रः ।
त्रैष्टु॑भश् शु॒क्रः (29)।
यत्स॑प्त॒मे ऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ , स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।
अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

भट्टभास्कर-टीका

9त्रिष्टुङ्मुख इति ॥ त्रिष्टुग्वाक्प्राणसंबन्धित्वात् तृतीयत्रिरात्र संबन्धिनामह्नाम् । त्रैष्टुभः शुक्रः, द्वितीयत्वाद्द्वयोः । यत्सप्तमेऽहन्नित्यादि । तृतीयं त्रिरात्रं यज्ञम् । छन्दांसीत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

वाग्वा आ॑ग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति

विश्वास-प्रस्तुतिः

वाग्वा आ॑ग्रय॒णः। वाग॑ष्ट॒ममहः ।
तस्मा॑द् अष्ट॒मे ऽह॑न्नाग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

वाग्वा आ॑ग्रय॒णः। वाग॑ष्ट॒ममहः ।
तस्मा॑द् अष्ट॒मे ऽह॑न्नाग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

10वाग्वा इति ॥ +++(व्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

प्रा॒णो वा ऐ॑न्द्रवाय॒वᳶ प्रा॒णो न॑व॒ममह॒स्तस्मा॑न्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्य्…

विश्वास-प्रस्तुतिः

प्रा॒णो वा ऐ॑न्द्रवाय॒वः ।
प्रा॒णो न॑व॒ममहः॑ ।

तस्मा॑न् नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

मूलम्

प्रा॒णो वा ऐ॑न्द्रवाय॒वः ।
प्रा॒णो न॑व॒ममहः॑ ।

तस्मा॑न् नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।

भट्टभास्कर-टीका

11प्राण ऐन्द्रवायवः, तत्संबन्धात्प्राणो नवममहः, नवमत्वान्वयात्, प्राणानां च नवत्वान्वयात् ॥

मूलम् (संयुक्तम्)

ए॒तत् [30]
वै तृ॒तीयय्ँ॑ य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यदै॑न्द्रवाय॒वश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते

विश्वास-प्रस्तुतिः

ए॒तद् वै तृ॒तीयय्ँ॑ य॒ज्ञमा॑पद् यच् छन्दाँ॑स्या॒प्नोति॑ ।[30]
यद् ऐ॑न्द्रवाय॒वश् श्वो गृ॒ह्यते॒ , यत्रै॒व य॒ज्ञमदृ॑श॒न् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॒ङ्क्ते ।
अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

मूलम्

ए॒तद् वै तृ॒तीयय्ँ॑ य॒ज्ञमा॑पद् यच् छन्दाँ॑स्या॒प्नोति॑ ।[30]
यद् ऐ॑न्द्रवाय॒वश् श्वो गृ॒ह्यते॒ , यत्रै॒व य॒ज्ञमदृ॑श॒न् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॒ङ्क्ते ।
अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते ।

भट्टभास्कर-टीका

12एतद्वा इत्यादि ॥ तृतीयं त्रिरात्रम् । छन्दांसीत्यादि । गतम् ॥ +++(विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

प॒थो वा ए॒तेऽध्यप॑थेन यन्ति॒ ये॑ऽन्येनै॑न्द्रवाय॒वात् प्र॑ति॒पद्य॒न्तेऽन्त॒ᳵ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्य॑ [31]
ए॒वान्त॑ङ्ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारव्ँ॒वह॑न्ति ता॒दृगे॒व तच्…

विश्वास-प्रस्तुतिः

प॒थो वा ए॒ते ऽध्यप॑थेन यन्ति॒ , ये॑ऽन्येनै॑न्द्रवाय॒वात् प्र॑ति॒पद्य॑न्ते ।

मूलम्

प॒थो वा ए॒ते ऽध्यप॑थेन यन्ति॒ , ये॑ऽन्येनै॑न्द्रवाय॒वात् प्र॑ति॒पद्य॑न्ते ।

भट्टभास्कर-टीका

13पथो वा इत्यादि ॥ एते खलु पथः मार्गादपेत्य अपथेन गच्छन्ति ये अन्येन ऐन्द्रवायवात् प्रतिपद्यन्ते, अस्य प्रकृतौ प्रज्ञातत्वात् ।

विश्वास-प्रस्तुतिः

अन्त॒ᳵ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममहः॑ ।
द॒श॒मे ऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
य॒ज्ञस्यै॒वान्त॑ङ् ग॒त्वा ऽप॑था॒त् पन्था॒मपि॑ य॒न्ति ।

मूलम्

अन्त॒ᳵ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममहः॑ ।
द॒श॒मे ऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
य॒ज्ञस्यै॒वान्त॑ङ् ग॒त्वा ऽप॑था॒त् पन्था॒मपि॑ य॒न्ति ।

भट्टभास्कर-टीका

अन्त इत्यादि । यज्ञान्ते ऐन्द्रवायवान्वये यज्ञस्य सम्यक् निर्वृत्त्या अपथात् पन्थानमेव प्रतिपद्यन्ते । द्वितीयायामपि व्यत्ययेनात्वम् ।

विश्वास-प्रस्तुतिः

अथो॒ यथा॒ वही॑यसा प्रति॒सारव्ँ॒ वह॑न्ति , ता॒दृगे॒व तत् ।

मूलम्

अथो॒ यथा॒ वही॑यसा प्रति॒सारव्ँ॒ वह॑न्ति , ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

अथो अपिच यथा वहीयसा वोढृतरणे अनडुहा प्रतिसारं वरिष्ठद्रव्यं वहन्ति तादृक् तद्दशमं वरिष्ठतमं वोढृतरेण ऐन्द्रवायवेन वहन्ति । वोढृशब्दात् ‘तुश्छन्दसि’ इतीयसुन्, ‘तुरिष्ठेमेयस्सु’ इति तृशब्दलोपः ॥

मूलम् (संयुक्तम्)

छन्दाँ॑स्य॒न्यो॑न्यस्य॑ लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यत्प॑ञ्च॒मम् [32]
अह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यत्ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्मा॑च्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒

विश्वास-प्रस्तुतिः

छन्दाँ॑स्य॒न्यो॑न्यस्य॑ लो॒कम॒भ्य॑ध्यायन् ।
तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन् ।

मूलम्

छन्दाँ॑स्य॒न्यो॑न्यस्य॑ लो॒कम॒भ्य॑ध्यायन् ।
तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन् ।

भट्टभास्कर-टीका

14इदानीं तेषां विवहनक्रमं दर्शयति - छन्द्रांसीत्यादि ॥ अन्यः अन्यस्य लोकं स्थान अभ्यध्यायन् कथं नामेनं गछेमेति । कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः । असमासपक्षे प्रथमैकवचनं च पूर्वपदस्य । अन्योन्यस्येत्यर्थः । तानि छन्दांसि देवाः एतेन वक्ष्यमाणेन क्रमेण व्यवाहयन् व्यत्यासेन प्रापयत् स्थानानि ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्र॒वा॒य॒वस्य वा ए॒तदा॒यत॑नय्ँ॒ यच् च॑तु॒र्थमहः॑ ।
तस्मि॑न्नाग्रय॒णो गृ॑ह्यते ।
तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।

मूलम्

ऐ॒न्द्र॒वा॒य॒वस्य वा ए॒तदा॒यत॑नय्ँ॒ यच् च॑तु॒र्थमहः॑ ।
तस्मि॑न्नाग्रय॒णो गृ॑ह्यते ।
तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।

भट्टभास्कर-टीका

कथमित्याह - ऐन्द्रवायवस्येत्यादि । ऐन्द्रवायवस्य चतुर्थमहः आयतनं स्थानं अव्यूढे ऐन्द्रवायवशुक्राग्रयणानां पुनःपुनः प्रवृत्तेः । तस्मिन् चतुर्थेऽहनि आग्रयणो गृह्यते । व्यूढे तच्च प्रदर्शितम् । तस्मात् स्वस्थानापहारिणः आग्रयणस्य स्थाने नवमे अहनि ऐन्द्रवायवो गृह्यते ।

विश्वास-प्रस्तुतिः

शु॒क्रस्य॒ वा ए॒तदा॒यत॑नय्ँ॒ यत्प॑ञ्च॒ममहः॑ [32] ।
तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते । तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यते ।

आ॒ग्र॒य॒णस्य॒ वा ए॒तदा॒यत॑नय्ँ॒ यत्ष॒ष्ठमहः॑।
तस्मि॑ञ् छु॒क्रो गृ॑ह्यते ।
तस्मा॑च् छु॒क्रस्या॒यत॑ने ऽष्ट॒मे ऽह॑न्नाग्रय॒णो गृ॑ह्यते ।

मूलम्

शु॒क्रस्य॒ वा ए॒तदा॒यत॑नय्ँ॒ यत्प॑ञ्च॒ममहः॑ [32] ।
तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते । तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यते ।

आ॒ग्र॒य॒णस्य॒ वा ए॒तदा॒यत॑नय्ँ॒ यत्ष॒ष्ठमहः॑।
तस्मि॑ञ् छु॒क्रो गृ॑ह्यते ।
तस्मा॑च् छु॒क्रस्या॒यत॑ने ऽष्ट॒मे ऽह॑न्नाग्रय॒णो गृ॑ह्यते ।

भट्टभास्कर-टीका

एतेनैव शुक्रस्य वा एतदित्यादि व्याख्यातम् । तत्र प्रथमं शुक्रैन्द्रवायवयोः, तत आग्रयणशुक्रयोः ॥

मूलम् (संयुक्तम्)

छन्दाँ॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा॑प्नोति॒ य ए॒वव्ँ वेदाथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सव्ँ॒विद॑न्दधाति॒ तस्मा॑दि॒दमन्यो॑न्यस्मै॑ ददाति ॥ [33]

विश्वास-प्रस्तुतिः

छन्दाँ॑स्ये॒व तद्वि वा॑हयति ।
प्र वस्य॑सो विवा॒हम् आ॑प्नोति॒ , य ए॒वव्ँ वेद॑ ।

मूलम्

छन्दाँ॑स्ये॒व तद्वि वा॑हयति ।
प्र वस्य॑सो विवा॒हम् आ॑प्नोति॒ , य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

15छन्दांस्येवेत्यादि ॥ तत् तथा कुर्वन् छन्दांस्येव विवाहयति परस्परेणाभिसंबन्धीनि करोति, तत्प्रधानत्वादह्नाम् । एवं छन्दसां विवहनस्य वेदिता वस्यसः प्रकृष्टात्कुलात् विवाहं प्राप्तोति दारिकां परिणयति । वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक्’ इति लुक् । टिलोपं छान्दसः प्रत्ययादेर्लोपः ।

विश्वास-प्रस्तुतिः

अथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सव्ँ॒विद॑न् दधाति ।
तस्मा॑द् इ॒दम् अन्यो॑न्यस्मै॑ ददाति ॥ [33]

मूलम्

अथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सव्ँ॒विद॑न् दधाति ।
तस्मा॑द् इ॒दम् अन्यो॑न्यस्मै॑ ददाति ॥ [33]

भट्टभास्कर-टीका

अथो अपिच देवार्थं यज्ञे यज्ञनिर्वृत्तये संविदं दधाति संधारयति व्यूढं यज्ञं निर्वर्तयिष्यामीति । तस्मादिदं अनेन क्रमेण छन्दांसि अन्योन्यस्मै ददाति अन्यच्छन्दसः स्थानमन्यस्मै ददाति, अन्यदपि चान्यस्मै । पूर्ववद्द्विर्वचनादि । यद्वा - तस्मादन्यः पुरुषः अन्यस्मै अन्यगोत्राय स्वदारिकां करोति यस्मादेवं छन्दांसि अन्योन्यस्मै स्वस्थानं प्रादुरिति । इदमिति सामान्येन लोकप्रसिद्धिं दर्शयति । इदमेव विवहन प्रतिपादनं लिङ्गं समू[अव्यू]ढो व्यूढस्य प्रकृतिरिति । असत्यां हि तस्यां ऐन्द्रवायवस्य वा इत्याद्यघटमानं स्यात्, न हि कस्य चित् किञ्चित्स्थानं नियतं स्यात् ॥

इति सप्तमे द्वितीये अष्टमोऽनुवाकः ॥