विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न्गृह्णीया॒द्यᳵ का॒मये॑त यथापू॒र्वम्प्र॒जाᳵ क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाᳵ क॑ल्पन्ते य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाᳵ क॑ल्पयति॒ न ज्यायाँ॑स॒ङ्कनी॑या॒नति॑ क्रामति
विश्वास-प्रस्तुतिः
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीया॒द् - यᳵ का॒मये॑त - “यथापू॒र्वम् प्र॒जाᳵ क॑ल्पेरन्न्” इति॑ ।
मूलम्
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीया॒द् - यᳵ का॒मये॑त - “यथापू॒र्वम् प्र॒जाᳵ क॑ल्पेरन्न्” इति॑ ।
भट्टभास्कर-टीका
1अतः परं द्वादशाहप्रकरणम् । एते काम्या ग्रहाग्रताविधयः । केचिन्नैमित्तिकाः बृहत्पृष्ठपक्षे नियमार्थाः । ऐन्द्रवायवाग्रानित्यादि ॥ ऐन्द्रवायवप्रथमान् गृह्णीयात्, सामर्थ्याद्ग्रहानिति गम्यते । वक्ष्यति च ‘पूर्णान्ग्रहान्गृह्णीयात्’ इति । यथापूर्वं पूर्वानतिवृत्त्या तेनैव क्रमेण कल्पेरन् नासामञ्जस्येन । पदार्थानतिवृत्त्याऽव्ययीभावः । यद्वा - सादृश्ये - यथा पूर्वाः प्रजाः पूर्वपुरुषसंबन्धिन्यः प्रवर्तन्ते एवं मम प्रवर्तन्तामिति विपर्ययस्याप्रसङ्गार्थं प्रसक्तस्य वा निवृत्त्यर्थम् । तेनेयं कामे निमित्ते वा ग्रहाग्रता ।
विश्वास-प्रस्तुतिः
य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाᳵ क॑ल्पन्ते ।
य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते ।
य॒था॒पू॒र्वमे॒व प्र॒जाᳵ क॑ल्पयति ।
न ज्यायाँ॑स॒ङ् कनी॑या॒नति॑ क्रामति ।
मूलम्
य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाᳵ क॑ल्पन्ते ।
य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते ।
य॒था॒पू॒र्वमे॒व प्र॒जाᳵ क॑ल्पयति ।
न ज्यायाँ॑स॒ङ् कनी॑या॒नति॑ क्रामति ।
भट्टभास्कर-टीका
यज्ञस्येति । यज्ञस्य कॢप्तिः सम्यक्त्वं, तेन हेतुना प्रजाः कल्पन्ते सम्यग्वर्तन्ते, यज्ञाकॢप्त्या च न कल्पन्ते । ‘तृतीयार्थे’ इति हेतौ अनोः कर्मप्रवचनीयत्वम् । तस्मादैन्द्रवायवाग्रतया यथापूर्वं प्रजाः कल्पयति । ऐन्द्रवायवस्य ग्रहाणां प्रधानत्वात् तदग्रतया न किंचिदसामञ्जस्यमिति । तदेवाह - न ज्यायांसमिति ॥
मूलम् (संयुक्तम्)
ऐन्द्रवाय॒वाग्रा॑न्गृह्णीयादामया॒विनᳶ॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐ॑न्द्रवाय॒वᳶ प्रा॒णेनै॒वैनँ॒ सम॑र्धयति
विश्वास-प्रस्तुतिः
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीयाद् आ॒म॒या॒विनः॑ ।
प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ - यस्या॒मय॑ति ।
प्रा॒ण ऐ॑न्द्रवाय॒वः । प्रा॒णेनै॒वैनँ॒ सम॑र्धयति ।
मूलम्
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीयाद् आ॒म॒या॒विनः॑ ।
प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ - यस्या॒मय॑ति ।
प्रा॒ण ऐ॑न्द्रवाय॒वः । प्रा॒णेनै॒वैनँ॒ सम॑र्धयति ।
भट्टभास्कर-टीका
2द्वितीयः पक्षोऽसामञ्जस्याभावोदाहरणप्रदर्शनार्थम् । आमयावी रोगवान् । ‘बहुलं छन्दसि’ इति विनिः, ‘अन्येषामपि दृश्यते’ इति दीर्घः । यस्यामयतीति । आमय इति शेषः । ‘रुजार्थानाम्’ इति कर्मणि षष्ठी । प्राणात्मन ऐन्द्रवायवस्य प्रधानत्वात् तदग्रतोग्रहणात् प्रथमत एव प्राणवन्तमेनं करोति ॥
मूलम् (संयुक्तम्)
मैत्रावरु॒णाग्रा॑न्गृह्णीर॒न्येषा॑न्दीक्षि॒ताना॑म्प्र॒मीये॑त [22]
प्रा॒णा॒पा॒नाभ्याव्ँ॒वा ए॒ते व्यृ॑ध्यन्ते॒ येषा॑न्दीक्षि॒ताना॑म्प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तᳶ परि॑ हरन्त…
विश्वास-प्रस्तुतिः
मै॒त्रा॒व॒रु॒णाग्रा॑न् गृह्णीरन् येषा॑न् दीक्षि॒ताना॑म् प्र॒मीये॑त [22] ।
प्रा॒णा॒पा॒नाभ्याव्ँ॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषा॑न् दीक्षि॒ताना॑म् प्र॒मीय॑ते ।
मूलम्
मै॒त्रा॒व॒रु॒णाग्रा॑न् गृह्णीरन् येषा॑न् दीक्षि॒ताना॑म् प्र॒मीये॑त [22] ।
प्रा॒णा॒पा॒नाभ्याव्ँ॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषा॑न् दीक्षि॒ताना॑म् प्र॒मीय॑ते ।
भट्टभास्कर-टीका
3मैत्रावरुणाग्रान् गृह्णीरन्निति ॥ सत्र एव, बहुवचनात् । येषां दीक्षितानां मध्ये कश्चित्प्रमीयेत एकस्य मरणेन सर्वे प्राणापानाभ्यां व्यृध्यन्ते ।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ ।
प्रा॒णा॒पा॒नाव् ए॒व मु॑ख॒तᳶ परि॑ हरन्ते ।
मूलम्
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ ।
प्रा॒णा॒पा॒नाव् ए॒व मु॑ख॒तᳶ परि॑ हरन्ते ।
भट्टभास्कर-टीका
तस्मात्प्राणापानभूतयोर्मित्रावरुणयोः प्राथम्यात्प्राणापानावेव मुखतः परिहरन्ते, आरभ्य समादधते, न ताभ्यां विनियुज्यन्ते ॥
मूलम् (संयुक्तम्)
आश्वि॒नाग्रा॑न्गृह्णीतानुजाव॒रो॑ऽश्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्र॒म्पर्यैताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्र॒म्परि॑ णयतश्…
विश्वास-प्रस्तुतिः
आ॒श्वि॒नाग्रा॑न् गृह्णीतानुजाव॒रः ।
अ॒श्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ । प॒श्चेवाग्र॒म् पर्यै॑ताम् ।
मूलम्
आ॒श्वि॒नाग्रा॑न् गृह्णीतानुजाव॒रः ।
अ॒श्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ । प॒श्चेवाग्र॒म् पर्यै॑ताम् ।
भट्टभास्कर-टीका
4आश्विनाग्रानित्यादि ॥ आनुजावरः उत्तमस्सन् समानानामवरत्वेन पश्चाज्जातः आनुजावरः । सान्नाय्यानुजावरानुष्टुभादीना स्वार्थिकोऽण् । अश्विनौ हि देवानामानुजावरौ । पश्चाद्देवानां अग्रं श्रैष्ठ्यं पर्यैतां अभजताम् । ‘पश्च पश्चा च छन्दसि’ इति पश्चशब्दो निपात्यते ।
विश्वास-प्रस्तुतिः
अ॒श्विना॑वे॒तस्य॑ दे॒वता॑ । य आ॑नुजाव॒रस्, तावे॒वैन॒मग्र॒म् परि॑ णयतः ।
मूलम्
अ॒श्विना॑वे॒तस्य॑ दे॒वता॑ । य आ॑नुजाव॒रस्, तावे॒वैन॒मग्र॒म् परि॑ णयतः ।
भट्टभास्कर-टीका
अश्विनावेतस्य देवतेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
शु॒क्राग्रा॑न्गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यश्शु॒क्र ए॒षोऽन्तोऽन्त॑म्मनु॒ष्यः॑ [23]
श्रि॒यै ग॒त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न तत॒ᳶ पापी॑यान्भवति
विश्वास-प्रस्तुतिः
शु॒क्राग्रा॑न् गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मः ।
अ॒सौ वा आ॑दि॒त्यः । शु॒क्र ए॒षोऽन्तः॑ ।
अन्त॑म् मनु॒ष्यश्॑ श्रि॒यै ग॒त्वा नि व॑र्त॒ते । [23]
मूलम्
शु॒क्राग्रा॑न् गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मः ।
अ॒सौ वा आ॑दि॒त्यः । शु॒क्र ए॒षोऽन्तः॑ ।
अन्त॑म् मनु॒ष्यश्॑ श्रि॒यै ग॒त्वा नि व॑र्त॒ते । [23]
भट्टभास्कर-टीका
5शुकाग्रानित्यादि ॥ गता प्राप्ता श्रीर्येन स गतश्रीः । शुश्रुवान् ग्रामणी राजन्यः स प्रतिष्ठाकामः श्रियः स्थिरत्वं कामयमानः न ह्रसेदियम्, अपि तु प्रकर्षकाष्ठां गच्छेदिति । एषोन्त इति । एष आदित्यः श्रियः अन्तः प्रकर्षकाष्ठा । तत्कार्यत्वात्ताच्छब्द्यम् । तस्मात् अनया शुक्राग्रतया मनुष्यः श्रियः अन्तं प्रकर्षकाष्ठां गत्वा निवर्तते, तन्नियममत्र वर्तते । यद्वा - व्यावर्तयते मनु[ष्य] मात्रात् ।
विश्वास-प्रस्तुतिः
अन्ता॑द् ए॒वान्त॒म् आ र॑भते । न तत॒ᳶ पापी॑यान् भवति ।
मूलम्
अन्ता॑द् ए॒वान्त॒म् आ र॑भते । न तत॒ᳶ पापी॑यान् भवति ।
भट्टभास्कर-टीका
तदेवाह - अन्तादिति । अन्तादेव आदित्यादेव पुनरप्यन्तं प्रकर्षकाष्ठामारभते । यद्वा - पूर्वप्रकर्षकाष्ठाया उपरि, पुनरपरां प्रकर्षकाष्ठामारभते । ततः परं पापीयान्न भवति, न ह्रसतीति यावत् । अथवा - गतश्रीर्दरिद्रः गता नष्टा श्रीरस्येति । स प्रतिष्ठाकामः । एपोन्त इति । एष ह्यादित्यः श्रियोन्तः अन्तकारीति पापहेतुः । तस्मात् श्रियः अन्तं दारिद्र्यकाष्ठामपि गत्वा स्थितोऽपि मनुष्यः अनया ग्रहाग्रतया ततो निवर्तते । कुत इत्याह - अन्तादेव ततो दारिद्र्यात् निवर्तते एव । हेतुमाह - अन्तमारभते इति । शुक्राग्रतया ह्यन्तकारिणामादित्यमारभते प्रथमतो गच्छति । तस्मात्ततः प्रभृति पापीयान् दरिद्रो न भवतीति ॥
मूलम् (संयुक्तम्)
म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रव्ँवा ए॒तद्यन्म॑न्थिपा॒त्रम्मृ॒त्युनै॒वैन॑ङ्ग्राहयति ता॒जगार्ति॒मार्च्छ॑ति
विश्वास-प्रस्तुतिः
म॒न्थ्य॑ग्रान् गृह्णीताभि॒चर॑न् । आ॒र्त॒पा॒त्रव्ँ वा ए॒तद् - यन्म॑न्थिपा॒त्रम् ।
मृ॒त्युनै॒वैन॑ङ् ग्राहयति । ता॒जगार्ति॒मार्च्छ॑ति ।
मूलम्
म॒न्थ्य॑ग्रान् गृह्णीताभि॒चर॑न् । आ॒र्त॒पा॒त्रव्ँ वा ए॒तद् - यन्म॑न्थिपा॒त्रम् ।
मृ॒त्युनै॒वैन॑ङ् ग्राहयति । ता॒जगार्ति॒मार्च्छ॑ति ।
भट्टभास्कर-टीका
6मन्थ्यग्रानिति ॥ आर्तपात्रमिति । आर्तकारं पात्रं आर्तपात्रम् । पात्रमेवाभिचर्यमाणं मृत्युना ग्राहयति । मन्थ्यग्रतया स तदानीमेवार्तिं गच्छति, एतेन गच्छति अन्यः आर्तिकर्मा ॥
मूलम् (संयुक्तम्)
आ॒ग्र॒य॒णाग्रा॑न्गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्य॒स्स्यादथ॒ तन्न प्रा॑प्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्यः॑ [24]
भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदा॑ग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न तत॒ᳶ पापी॑यान्भवति
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णा ऽग्रा॑न् गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्य॒स् स्याद् ,
अथ॒ तन्न प्रा॑प्नु॒यात् ।
मूलम्
आ॒ग्र॒य॒णा ऽग्रा॑न् गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्य॒स् स्याद् ,
अथ॒ तन्न प्रा॑प्नु॒यात् ।
भट्टभास्कर-टीका
7यस्य पितेत्यादि ॥ यस्य पिता पितामहश्च पुण्यस्स्यात् पुण्यतरो भवति । अथापि तत्पुण्यतरत्वं स्वयं यो न प्राप्नुयात् ऊन एव स्याद्विद्याधनादिभिः स आग्रयणाग्रान् गृह्णीतेति ।
विश्वास-प्रस्तुतिः
वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ - यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्यो॒ भव॑त्य् अथ॒ तन् न प्रा॒प्नोति॑ ।[24]
मूलम्
वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ - यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्यो॒ भव॑त्य् अथ॒ तन् न प्रा॒प्नोति॑ ।[24]
भट्टभास्कर-टीका
वाचेत्यादि । वाचा इन्द्रियेण वीर्येण च एष व्यृद्ध्यते वियुज्यते । वाचा वीर्येण च वियुक्तः पुरुषः तथा भवति ।
विश्वास-प्रस्तुतिः
उर॑ इवै॒तद् य॒ज्ञस्य॒ , वाग् इ॑व॒ , यद् आ॑ग्रय॒णः ।
वा॒चैवैन॑म् इन्द्रि॒येण॒ सम॑र्धयति । न तत॒ᳶ पापी॑यान् भवति ।
मूलम्
उर॑ इवै॒तद् य॒ज्ञस्य॒ , वाग् इ॑व॒ , यद् आ॑ग्रय॒णः ।
वा॒चैवैन॑म् इन्द्रि॒येण॒ सम॑र्धयति । न तत॒ᳶ पापी॑यान् भवति ।
भट्टभास्कर-टीका
उर इवेत्यादि । आग्रयणग्रहोप्युर इव वीर्यस्थानमिव यज्ञस्य वागिव, तद्ग्रहणानन्तरं वाचो विसर्गात् । तस्मादाग्रयणाग्रतया वागादिभिरेनं समर्धयति, ततः परं पापीयान्न भवति, तदैव पुण्यं प्राप्नोति वागिन्द्रियसंपत्त्या ॥
मूलम् (संयुक्तम्)
उ॒क्थ्या॑ग्रान्गृह्णीताभिच॒र्यमा॑ण॒स्सर्वे॑षाव्ँ॒वा ए॒तत्पात्रा॑णामिन्द्रि॒यय्ँयदु॑क्थ्यपा॒त्रँ सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते॒
विश्वास-प्रस्तुतिः
उ॒क्थ्या॑ग्रान्गृह्णीत अभिच॒र्यमा॑णः ।
सर्वे॑षाव्ँ॒ वा ए॒तत्पात्रा॑णाम्, इन्द्रि॒यय्ँ यदु॑क्थ्यपा॒त्रम् ।
सर्वे॑णै॒वैन॑म् इन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते ।
मूलम्
उ॒क्थ्या॑ग्रान्गृह्णीत अभिच॒र्यमा॑णः ।
सर्वे॑षाव्ँ॒ वा ए॒तत्पात्रा॑णाम्, इन्द्रि॒यय्ँ यदु॑क्थ्यपा॒त्रम् ।
सर्वे॑णै॒वैन॑म् इन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते ।
भट्टभास्कर-टीका
8सर्वेषामित्यादि ॥ सर्वेषां पात्राणां इन्द्रियं वीर्यं उक्थ्यपात्रं इन्द्रियसंबन्धात् । सर्वेण वीर्येण एनमभिचरितारमतिप्रयङ्क्ते अतिक्रम्य प्रयुङ्क्ते ॥
मूलम् (संयुक्तम्)
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुच॑ङ्कुर्या॒द्वाग्वै [25]
सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति
विश्वास-प्रस्तुतिः
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ , पुरो॒रुच॑ङ् कुर्यात् ।
मूलम्
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ , पुरो॒रुच॑ङ् कुर्यात् ।
भट्टभास्कर-टीका
9पुरोरुचमिति ॥ पुरस्ताद्रोचयति ग्रहमिति पुरोरुक् । ‘सरस्वत्यभि नः’ इति पुरोरुचं कुर्यात् । नित्यो निवर्तते ‘उपयामगृहीतः’ इति ।
विश्वास-प्रस्तुतिः
वाग्वै [25] सर॑स्वती । वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते ।
मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह ।
मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि ।
तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति।
मूलम्
वाग्वै [25] सर॑स्वती । वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते ।
मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह ।
मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि ।
तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति।
भट्टभास्कर-टीका
वाग्वा इत्यादि । तत्र निर्वचनं कृतम् । मन्त्रार्थस्तु - हे सरस्वति! अस्मानाभिमुख्येन वस्यः वरिष्ठं प्राणादिकं प्रापय । मा चास्मान् पस्फरीः हिंसीः । मा चास्मानागत्य पयसा हविषा च वर्धिता धाक्षीः । अपि तु सख्येनास्मान् जुषस्व वेश्या वेश्यतया अभिगम्यतया च । किं च - त्वत्प्रसादात् मृत्योः क्षेत्राणि क्षपणशीलानि अरणानि अरणीयानि क्षेत्राणि स्थानानि मा गन्मेति ॥
मूलम् (संयुक्तम्)
पू॒र्णान्ग्रहा॑न्गृह्णीयादामया॒विनᳶ॑ प्रा॒णान्वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति प्रा॒णा ग्रहाः॑ प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
विश्वास-प्रस्तुतिः
पू॒र्णान् ग्रहा॑न् गृह्णीयाद् आमया॒विनः॑ ।
प्रा॒णान्- वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
मूलम्
पू॒र्णान् ग्रहा॑न् गृह्णीयाद् आमया॒विनः॑ ।
प्रा॒णान्- वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
भट्टभास्कर-टीका
10पूर्णानित्यादि ॥ शुक् शोकः । यदा प्राणान् शुक् प्राप्नोति तदा परुषस्य आमयत्यामयः । कर्मणि षष्ठी । तत्र प्राणात्मकानां ग्रहाणां पूर्णतया शोकाभावादामयाभावः । ततश्च गतासुरपि जीवत्येव । ‘वा दान्तशान्तपूर्ण’ इति णान्तो निपात्यते ॥
मूलम् (संयुक्तम्)
पू॒र्णान्ग्रहा॑न्गृह्णीया॒द्यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त्प्रा॒णान्वा ए॒तर्हि॑ प्र॒जानाँ॒ शुगृ॑च्छति॒ यर्हि॑ प॒र्जन्यो॒ न॒ वर्ष॑ति प्रा॒णा ग्रहाः॑ प्रा॒णाने॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति ता॒जक्प्र व॑र्षति ॥ [26]
विश्वास-प्रस्तुतिः
पू॒र्णान् ग्रहा॑न् गृह्णीया॒द् , यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त् ।
प्रा॒णान् वा ए॒तर्हि॑ प्र॒जानाँ॒ शुगृ॑च्छति॒ , यर्हि॑ प॒र्जन्यो॒ न॒ वर्ष॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णान् ए॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति।
ता॒जक्प्र व॑र्षति ॥ [26]
मूलम्
पू॒र्णान् ग्रहा॑न् गृह्णीया॒द् , यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त् ।
प्रा॒णान् वा ए॒तर्हि॑ प्र॒जानाँ॒ शुगृ॑च्छति॒ , यर्हि॑ प॒र्जन्यो॒ न॒ वर्ष॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णान् ए॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति।
ता॒जक्प्र व॑र्षति ॥ [26]
भट्टभास्कर-टीका
11यर्हि पर्जन्य इत्यादि ॥ पूर्ववत् । अनद्यतनेर्हिल्प्रत्ययः । वर्षाभावेन प्रजानां प्राणान् शुगृच्छति । तत्र प्राणात्मकानां ग्रहाणां पूर्णतया जनानां प्राणान् शुचो मुञ्चन्ति, प्रकर्षेण वर्षति पर्जन्यः । एवं द्वादशाह एव ग्रहाग्रता विहिता । अन्ये आहुः - खादिरादिवत्पात्रेषु यत्र ग्रहणं तत्र वाक्येन ग्रहाग्रता गच्छति इति ज्योतिष्टोम एव विधीयते । उत्तरानुवाकप्रभृति द्वादशाह एवेति ॥
इति सप्तमे द्वितीये सप्तमोनुवाकः ॥