विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ऋ॒तवो॒ वै प्र॒जाका॑माᳶ प्र॒जान्नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाँ सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जाव्ँवि॑न्देमहि प्र॒जाव॑न्तस्स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न्तदा॑र्त॒वाना॑मार्तव॒त्वम्
विश्वास-प्रस्तुतिः
ऋ॒तवो॒ वै प्र॒जाका॑माᳶ प्र॒जान् नावि॑न्दन्त ।
ते॑ऽकामयन्त -
प्र॒जाँ सृ॑जेमहि , प्र॒जामव॑ रुन्धीमहि , प्र॒जाव्ँ वि॑न्देमहि , प्र॒जाव॑न्तस् स्या॒मेति॑ ।
मूलम्
ऋ॒तवो॒ वै प्र॒जाका॑माᳶ प्र॒जान् नावि॑न्दन्त ।
ते॑ऽकामयन्त -
प्र॒जाँ सृ॑जेमहि , प्र॒जामव॑ रुन्धीमहि , प्र॒जाव्ँ वि॑न्देमहि , प्र॒जाव॑न्तस् स्या॒मेति॑ ।
भट्टभास्कर-टीका
1समाप्ता अहीनाः । अथ सत्त्राण्यारभ्यन्ते उभयतोतिरात्राणि । तत्र एकादशरात्रं विदधाति ऋतव इत्यादि ॥ ऋतवो वसन्तादयः प्रजाकामा प्रजां नाविन्दन्त नालभन्त । ते अकामयन्त - प्रजां मृजेमहि प्रजां स्रष्टुं समर्थाः स्याम, प्रजामवरुन्धीमहि नियन्तुं समर्थास्स्याम । विन्देमहि लभेमहि । प्रजावन्तः बहुप्रजाः सत्प्रजाः स्यामेति ।
विश्वास-प्रस्तुतिः
त ए॒तम् ए॑कादशरा॒त्रम् अ॑पश्यन् । तमाह॑रन् । तेना॑यजन्त ।
ततो॒ वै ते प्र॒जाम् अ॑सृजन्त , प्र॒जामवा॑रुन्धत , प्र॒जाम् अ॑विन्दन्त , प्र॒जाव॑न्तोऽभवन् ।
त ऋ॒तवो॑ऽभवन् । तदा॑र्त॒वाना॑म् आर्तव॒त्वम् ।
मूलम्
त ए॒तम् ए॑कादशरा॒त्रम् अ॑पश्यन् । तमाह॑रन् । तेना॑यजन्त ।
ततो॒ वै ते प्र॒जाम् अ॑सृजन्त , प्र॒जामवा॑रुन्धत , प्र॒जाम् अ॑विन्दन्त , प्र॒जाव॑न्तोऽभवन् ।
त ऋ॒तवो॑ऽभवन् । तदा॑र्त॒वाना॑म् आर्तव॒त्वम् ।
भट्टभास्कर-टीका
ततस्ते एकादशरात्रेण सर्वमलभन्त । ततस्ते क्रतवः सर्वार्थहितलाभेन अभवन् भूतिमन्तस्सम्पन्नाः । यद्वा - ततस्त ऋतवः स्वैस्स्वैः ऋतुधर्मैर्युक्ता ऋत्वनुरूपस्वभावभाजोभवन् । अथवा - वसन्तादयः ततः प्रभृति ऋतवोभवत् । अरणात् ऋतवः एकादशरात्रेण सर्वाभिमतप्राप्त्या ऋतुव्यपदेशभाजोभवन्, तदार्तवानामार्तवत्वम् । ऋतुर्योनिगतो द्रव्यविशेषः ऋतूत्पत्तिहेतुभूतः कालो वा । यथा - ‘ऋत्वियात्प्रजां विन्दामहै’ । इति । ऋतुभवास्सर्वाः प्रजा आर्तवाः । यत्कामा इमे यज्ञमासते तेषां तत आर्तवत्वं ऋतुप्रभवत्वं ऋतुभ्यो वोत्पद्यमा …
मूलम् (संयुक्तम्)
ऋ॒तू॒नाव्ँवा ए॒ते पु॒त्रास्तस्मा॑त् [19]
आ॒र्त॒वा उ॑च्यन्ते॒ य ए॒वव्ँवि॒द्वाँस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जाव्ँवि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒
विश्वास-प्रस्तुतिः
ऋ॒तू॒नाव्ँँ वा ए॒ते पु॒त्राः ।
तस्मा॑दार्त॒वा उ॑च्यन्ते [19]।
य ए॒वव्ँ वि॒द्वाँस॑ एकादशरा॒त्रमास॑ते , प्र॒जामे॒व सृ॑जन्ते ,
प्र॒जामव॑ रुन्धते , प्र॒जाव्ँ वि॑न्दन्ते , प्र॒जाव॑न्तो भवन्ति ।
मूलम्
ऋ॒तू॒नाव्ँँ वा ए॒ते पु॒त्राः ।
तस्मा॑दार्त॒वा उ॑च्यन्ते [19]।
य ए॒वव्ँ वि॒द्वाँस॑ एकादशरा॒त्रमास॑ते , प्र॒जामे॒व सृ॑जन्ते ,
प्र॒जामव॑ रुन्धते , प्र॒जाव्ँ वि॑न्दन्ते , प्र॒जाव॑न्तो भवन्ति ।
भट्टभास्कर-टीका
2ऋतूनां वा इत्यादि ॥ एते सर्वे जन्मिनः पुत्राः तेषामृतूनां ‘ऋत्वियात्प्रजां विन्दामहै’ तस्मात्प्रजा आर्तवशब्देनोच्यन्ते इति । य एवं विद्वानित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒
विश्वास-प्रस्तुतिः
ज्योति॑र् अतिरा॒त्रो भ॑वति ।
ज्योति॑रे॒व पु॒रस्ता॑द् दधते ।
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
मूलम्
ज्योति॑र् अतिरा॒त्रो भ॑वति ।
ज्योति॑रे॒व पु॒रस्ता॑द् दधते ।
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
भट्टभास्कर-टीका
3ज्योतिरित्यादिरहः कॢप्तिः - ज्योतिस्संज्ञसमासादिलक्षणं एकाहः तद्धर्माऽतिरात्रः प्रथममहः; यागारम्भ एव ज्योतिर्धारणात् स्वर्गस्यानुक्रमेण प्रकाशो भवतीति ॥
मूलम् (संयुक्तम्)
पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्विँ॒शो भ॑वति॒ चतु॑र्विँशत्यक्षरा गाय॒त्री [20]
गा॒य॒त्रम्ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारिँ॒शो भ॑वति॒ चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारिँ॒शो भ॑वत्य॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒
विश्वास-प्रस्तुतिः
पृष्ठ्य॑ष्षड॒हो भ॑वति ।
षड्वा ऋ॒तवः॑ । षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैरे॒वर्तून् अन्वारो॑हन्ति + ऋ॒तुभि॑स् सव्ँवत्स॒रम् । ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।
च॒तु॒र्विँ॒शो भ॑वति ।
चतु॑र्विँशत्यक्षरा गाय॒त्री [20] ।
गा॒य॒त्रम् ब्र॑ह्मवर्च॒सम् ।
गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति ।
च॒तु॒श्च॒त्वा॒रिँ॒शो भ॑वति ।
चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुक् ।
इ॑न्द्रि॒यन् त्रि॒ष्टुप् । त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।
अ॒ष्टा॒च॒त्वा॒रिँ॒शो भ॑वति । अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः ।
जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
ए॒का॒द॒श॒रा॒त्रो भ॑वति ।
मूलम्
पृष्ठ्य॑ष्षड॒हो भ॑वति ।
षड्वा ऋ॒तवः॑ । षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैरे॒वर्तून् अन्वारो॑हन्ति + ऋ॒तुभि॑स् सव्ँवत्स॒रम् । ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।
च॒तु॒र्विँ॒शो भ॑वति ।
चतु॑र्विँशत्यक्षरा गाय॒त्री [20] ।
गा॒य॒त्रम् ब्र॑ह्मवर्च॒सम् ।
गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति ।
च॒तु॒श्च॒त्वा॒रिँ॒शो भ॑वति ।
चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुक् ।
इ॑न्द्रि॒यन् त्रि॒ष्टुप् । त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।
अ॒ष्टा॒च॒त्वा॒रिँ॒शो भ॑वति । अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवः ।
जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
ए॒का॒द॒श॒रा॒त्रो भ॑वति ।
भट्टभास्कर-टीका
4पृष्ठ्य इत्यादि ॥ द्वादशाहस्य द्वितीयदिवसप्रभृति पृष्ठ्यष्षडहः । तत्र त्रिवृदग्निष्टोमो रथन्तरसामा प्रथमः । पञ्चदश उक्थ्यो बृहत्सामा द्वितीयः । सप्तदश उवथ्यो वैरूपसामा तृतीयः । एकविंशष्षोडशी उक्थ्यो वैराजसामा चतुर्थः । त्रिणव उक्थ्यः शाक्वरसामा पञ्चमः । त्रयस्त्रिंश उक्थ्यो रैवतसामा षष्ठः । पृष्ठानि रथन्तरादीनि । बृहत्सामा तृतीयः एकादशरात्र इति । अतिरात्रावभितो भवत डति, अतिरात्रमेकादशं वक्ष्यामीति मन्यते इत्यादि ॥
मूलम् (संयुक्तम्)
पञ्च॒ वा ऋ॒तव॑ आर्त॒वाᳶ पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ सव्ँवत्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतᳶ प्र॒जायै॒ परि॑गृहीत्यै ॥ [21]
विश्वास-प्रस्तुतिः
पञ्च॒ वा ऋ॒तवः॑। आ॒र्त॒वाᳶ पञ्च॑ ।
ऋ॒र्तुष्वे॒वार्त॒वेषु॑ सव्ँवत्स॒रे प्र॑ति॒ष्ठाय॑, प्र॒जामव॑ रुन्धते ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतः ।
प्र॒जायै॒ परि॑गृहीत्यै ॥ [21]
मूलम्
पञ्च॒ वा ऋ॒तवः॑। आ॒र्त॒वाᳶ पञ्च॑ ।
ऋ॒र्तुष्वे॒वार्त॒वेषु॑ सव्ँवत्स॒रे प्र॑ति॒ष्ठाय॑, प्र॒जामव॑ रुन्धते ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतः ।
प्र॒जायै॒ परि॑गृहीत्यै ॥ [21]
भट्टभास्कर-टीका
5पञ्च वा इत्यादि ॥ ऋतवः पञ्च । आर्तवा ऋतुस्वभावाश्च पञ्च । प्रजायाः उभयतः परिग्रहार्थं च - यागसाध्याः प्रजाः - आद्यवसानयोः अतिरात्राभ्यां परिगृह्यते परितो रक्ष्यते इति । तस्मात्प्रजापरिग्रहार्थं उभयतोऽतिरात्रं भवतीति ॥
इति सप्तमे द्वितीये षष्ठोनुवाकः ॥