०५ दशरात्रविधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारञ्जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयत - प्र जा॒ये॒येति॑ ।
स ए॒तन् दश॑होतारम् अपश्यत् ।

मूलम्

प्र॒जाप॑तिरकामयत - प्र जा॒ये॒येति॑ ।
स ए॒तन् दश॑होतारम् अपश्यत् ।

भट्टभास्कर-टीका

1अथ चत्वारो दशरात्राः - त्रिककुत्प्रथमः । देवपुरा द्वितीयः । छन्दोमवान् तृतीयः । कौसुरुबिन्दश्चतुर्थः । तत्र प्रथमो विधीयते - प्रजापतिरित्यादि ॥ प्रजायेय प्रजावान् स्यामिति प्रजापतिरकामयत । स एतं दशहोतारं ‘चित्तिस्स्रुक्’ इत्यादिकं अपश्यत् । दशभूतान्याह्वानानि ‘आत्मन्नात्मन्’ इति स दशहोता । ‘तं वा एतं दशहूतं सन्तम् । दशहेतित्याचक्षते परोक्षेण’ इति ब्राह्मणम् । ‘ऋतः छन्दसि’ इति कबाभावः ।

विश्वास-प्रस्तुतिः

तम॑जुहो॒त् ।
तेन॑ दशरा॒त्रम् अ॑सृजत ।
तेन॑ दशरा॒त्रेण॒ प्राजा॑यत ।

मूलम्

तम॑जुहो॒त् ।
तेन॑ दशरा॒त्रम् अ॑सृजत ।
तेन॑ दशरा॒त्रेण॒ प्राजा॑यत ।

भट्टभास्कर-टीका

तमित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

द॒श॒रा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारञ् जुहुयात्।
दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जते ।
तेन॑ दशरा॒त्रेण॒ प्र जा॑यते ।

मूलम्

द॒श॒रा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारञ् जुहुयात्।
दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जते ।
तेन॑ दशरा॒त्रेण॒ प्र जा॑यते ।

भट्टभास्कर-टीका

दशरात्राय दीक्षिष्यमाणः दशहोतारं मनसाऽनुद्रुत्य आहवनीये जुहुयात् । तेन होमेन दशरात्रं सृष्ट्वा तेन दशरात्रेण प्रजायते ॥

मूलम् (संयुक्तम्)

वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः [13]
य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒…

विश्वास-प्रस्तुतिः

वै॒रा॒जो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्रः ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते , वि॒राज॑म् ए॒व ग॑च्छति ।
प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो , यद् द॑शरा॒त्रः [13] ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते॒ , प्रैव जा॑यते ।

मूलम्

वै॒रा॒जो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्रः ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते , वि॒राज॑म् ए॒व ग॑च्छति ।
प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो , यद् द॑शरा॒त्रः [13] ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते॒ , प्रैव जा॑यते ।

भट्टभास्कर-टीका

2वैराज इत्यादि ॥ गतम् । दशत्वान्वयाद्वैराजः, प्रजापतिना सृष्टत्वात्प्राजापत्यः । प्रैव जायते इति । प्रजापतिवत्प्राजापत्यस्यापि प्रजाहेतुत्वात् ॥

मूलम् (संयुक्तम्)

इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तन्द॑शरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति

विश्वास-प्रस्तुतिः

इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासीत् ।
स न व्या॒वृत॑म् अगच्छत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तन् द॑शरा॒त्रम् प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सो॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगच्छत् ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते , व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति ।

मूलम्

इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासीत् ।
स न व्या॒वृत॑म् अगच्छत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तन् द॑शरा॒त्रम् प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सो॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगच्छत् ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते , व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति ।

भट्टभास्कर-टीका

3इन्द्रो वा इत्यादि ॥ सदृक् सदृशः … देवताभिर्व्यावृत्तिः तत्साधारणधर्मनिवृत्तिः । पाप्मना तु व्यावृत्तिः तस्यैव निवृत्तिः, तस्यात्माश्रयत्वात् ॥

मूलम् (संयुक्तम्)

त्रिक॒कुद्वै [14]
ए॒ष य॒ज्ञो यद्द॑शरा॒त्रᳵ क॒कुत्प॑ञ्चद॒शᳵ क॒कुदे॑कविँ॒शᳵ क॒कुत्त्र॑यस्त्रिँ॒शो…

विश्वास-प्रस्तुतिः

त्रि॒क॒कुद् वा ए॒ष य॒ज्ञो यद् द॑शरात्रः [14]।
क॒कुत् प॑ञ्चद॒शः, क॒कुदे॑कविँ॒शः , क॒कुत् त्र॑यस्त्रिँ॒शः ।

मूलम्

त्रि॒क॒कुद् वा ए॒ष य॒ज्ञो यद् द॑शरात्रः [14]।
क॒कुत् प॑ञ्चद॒शः, क॒कुदे॑कविँ॒शः , क॒कुत् त्र॑यस्त्रिँ॒शः ।

भट्टभास्कर-टीका

4त्रिककुदित्यादि ॥ ककुदत्युन्नतः । निरुदकादित्वादुत्तरपदान्तोदात्त्वम् । अथ तान्येवोन्नतानि दर्शयति - ककुत्पञ्चदश इत्यादि । अत्रेयमहः कॢप्तिः - त्रिवृदग्निष्टोमावभितः, मध्ये पञ्चदश उक्थ्य उन्नतः । सप्तदशाग्निष्टोमावभितः, एकविंश उक्थ्य उन्नतः । त्रिणवाग्निष्टोमावभितः, मध्ये त्रयस्त्रिंश उक्थ्य उन्नतः ॥

मूलम् (संयुक्तम्)

य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नाना॑म्भवति॒ यज॑मानᳶ पञ्चद॒शो यज॑मान एकविँ॒शो यज॑मानस्त्रयस्त्रिँ॒शᳶ पुर॒ इत॑रा

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नाना॑म् भवति ।
यज॑मानᳶ पञ्चद॒शः , यज॑मान एकविँ॒शः , यज॑मानस्त्रयस्त्रिँ॒शः , पुर॒ इत॑राः ।

मूलम्

य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नाना॑म् भवति ।
यज॑मानᳶ पञ्चद॒शः , यज॑मान एकविँ॒शः , यज॑मानस्त्रयस्त्रिँ॒शः , पुर॒ इत॑राः ।

भट्टभास्कर-टीका

5य एवमित्यादि ॥ समानानां मध्ये त्रिककुत् त्रिभिः ककुद्भिरुन्नतैः विद्याप्रजाधनैर्युक्तो भवति । यजमान इत्यादि । यजमानः पञ्चदशादिः मध्ये राजवद्गोपनीयः । इतराः इतराण्यहानि तस्य पुरः पत्तनस्थानीयानि वर्तन्ते दुर्गाणीत्यर्थः ॥

मूलम् (संयुक्तम्)

अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति॒ नैन॑मभि॒चर॑न्त्स्तृणुते

विश्वास-प्रस्तुतिः

अ॒भि॒च॒र्य॒मा॑णो दशरा॒त्रेण॑ यजेत ।
दे॒व॒पु॒रा ए॒व पर्यू॑हते ।

मूलम्

अ॒भि॒च॒र्य॒मा॑णो दशरा॒त्रेण॑ यजेत ।
दे॒व॒पु॒रा ए॒व पर्यू॑हते ।

भट्टभास्कर-टीका

6अभिचर्यमाण इत्यादि ॥ देवपुराः देवानां पुरस्थानीयानि पुरविवक्षया इतराण्यहानि पर्यूहन्ते सर्वतो नयन्ति आत्मनो रक्षार्थम् । ‘ऋक्पूः’ इति समासान्तः परवल्लिङ्गता च, ‘उपसर्गादस्यत्यूह्योः’ इति आत्मनेपदम् ।

विश्वास-प्रस्तुतिः

तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।
नैन॑म् अभि॒चर॑न् स्तृणुते ।

मूलम्

तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।
नैन॑म् अभि॒चर॑न् स्तृणुते ।

भट्टभास्कर-टीका

तस्य यजमानस्य कस्मादप्युपाव्याधः अभिचारादिबाधा न भवति । न चैनमभिचरंस्तृणुते छादयति ॥

मूलम् (संयुक्तम्)

देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा ए॒ताः [15] दे॒व॒पु॒रा अ॑पश्य॒न्यद्द॑शरा॒त्रस्ताᳶ पर्यौ॑हन्त॒ तेषा॒न्न कुत॑श्च॒नोपा॑व्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा ए॒ता दे॑वपु॒रा अ॑पश्य॒न् यद् द॑शरा॒त्रः [15]।
ताᳶ पर्यौ॑हन्त ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा ए॒ता दे॑वपु॒रा अ॑पश्य॒न् यद् द॑शरा॒त्रः [15]।
ताᳶ पर्यौ॑हन्त ।

भट्टभास्कर-टीका

7देवासुरा इत्यादि ॥ ते देवाः देवपुराख्यानि दशरात्रसम्बन्धीन्यहानि । तदेवाह - यद्दशरात्र इति । दशरात्रावयवभूता इत्यर्थः । ता एव देवपुराः पर्यौहन्त परितो रक्षार्थं कृतवन्तः ।

विश्वास-प्रस्तुतिः

तेषा॒न् न कुत॑श्च॒नोपा॑व्या॒धो॑ऽभवत् ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यो भ्रातृ॑व्यवा॒न्त्स्यात् स द॑शरा॒त्रेण॑ यजेत ।
दे॒व॒पु॒रा ए॒व पर्यू॑हते ।
तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।
भव॑त्या॒त्मना॑ । परा॑स्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

तेषा॒न् न कुत॑श्च॒नोपा॑व्या॒धो॑ऽभवत् ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यो भ्रातृ॑व्यवा॒न्त्स्यात् स द॑शरा॒त्रेण॑ यजेत ।
दे॒व॒पु॒रा ए॒व पर्यू॑हते ।
तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।
भव॑त्या॒त्मना॑ । परा॑स्य॒ भ्रातृ॑व्यो भवति ।

भट्टभास्कर-टीका

तेषामित्यादि । गतम् ॥ +++(विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

स्तोम॒स्स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिङ्कुरुते

विश्वास-प्रस्तुतिः

स्तोम॒स् स्तोम॒स्य उप॑स्तिर्भवति ।
भ्रातृ॑व्यमे॒व उप॑स्तिङ् कुरुते ।

मूलम्

स्तोम॒स् स्तोम॒स्य उप॑स्तिर्भवति ।
भ्रातृ॑व्यमे॒व उप॑स्तिङ् कुरुते ।

भट्टभास्कर-टीका

8स्तोमस्स्तोमस्येत्यादि ॥ गतम् । त्रिवृदादिस्स्तोमः अभितस्स्थितः स्तोमस्य पञ्चदशादेर्मध्ये स्थितस्य उपस्तिः हीनप्राणमाधारकाष्ठं भवति । तेनोपस्तिभूतेन मध्यस्थो धार्यते । समीपे भवतीत्युपस्तिः । अस्तेः क्तिनि ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् ‘श्नसोरल्लोपः’ इत्यकारलोपः भूभावश्च । भ्रातृव्यमुपस्तिहीनं करोति ॥

मूलम् (संयुक्तम्)

जा॒मि वै [16]
ए॒तत्कु॑र्वन्ति॒ यज्ज्यायाँ॑सँ॒ स्तोम॑मु॒पेत्य॒ कनी॑याँसमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ता॑च्च प॒रस्ता॑च्च॒ भव॒न्त्यजा॑मित्वाय

विश्वास-प्रस्तुतिः

जा॒मि वै ए॒तत्कु॑र्वन्ति॒ , यज् ज्यायाँ॑सँ॒ स्तोम॑म् उ॒पेत्य॒ कनी॑याँसम् उप॒यन्ति॑ ।

मूलम्

जा॒मि वै ए॒तत्कु॑र्वन्ति॒ , यज् ज्यायाँ॑सँ॒ स्तोम॑म् उ॒पेत्य॒ कनी॑याँसम् उप॒यन्ति॑ ।

भट्टभास्कर-टीका

9जामि वा इत्यादि ॥ जामि आलस्य दोषवत् यत् ज्यायांसं महान्तं पञ्चदशादिकं स्तोममुपेत्य कनीयांसं त्रिवृदादिकमुपयन्ति एतद्विपरीतं भवति । अतो जाम्येतत्कुर्वन्ति ।

विश्वास-प्रस्तुतिः

यद् अ॑ग्निष्टोमसा॒मानि अ॒वस्ता॑च् च प॒रस्ता॑च् च॒ भव॒न्त्य् अजा॑मित्वाय ।

मूलम्

यद् अ॑ग्निष्टोमसा॒मानि अ॒वस्ता॑च् च प॒रस्ता॑च् च॒ भव॒न्त्य् अजा॑मित्वाय ।

भट्टभास्कर-टीका

तत्र समाधानमाह - यस्मादग्निष्टोमसामानि अवस्तात् पुरस्तात् परस्तादुपरिष्टाच्च त्र्यहस्य भवन्ति तदजामित्वाय भवति । तस्य प्रकृतित्वेन प्राधान्यात् तस्योपरिभावेऽपि नास्ति दोष इति ॥

मूलम् (संयुक्तम्)

त्रि॒वृद॑ग्निष्टो॒मो॑ऽग्नि॒ष्टुदा॑ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्द्धे सप्तद॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासु॑ तीव्रसो॒मो॑ऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते [17]
ए॒क॒विँ॒श उ॒क्थ्य॑स्सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते सप्तद॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [18]

विश्वास-प्रस्तुतिः

त्रि॒वृद॑ग्निष्टो॒मो॑ ऽग्नि॒ष्टुद् आ॒ग्ने॒यीषु॑ भवति । तेज॑ ए॒वाव॑ रुन्धे ।

मूलम्

त्रि॒वृद॑ग्निष्टो॒मो॑ ऽग्नि॒ष्टुद् आ॒ग्ने॒यीषु॑ भवति । तेज॑ ए॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

10त्रिवृदित्यादि ॥ अग्निष्टुत् अग्निष्टोमविशेषः । सर्वाग्नेयस्त्रिवृत् । आग्नेयीषु ऋक्षु भवति तत्प्रथममहः ।

विश्वास-प्रस्तुतिः

प॒ञ्च॒द॒श उ॒क्थ्य॑ ऐ॒न्द्रीषु॑ । इन्द्रि॒यमे॒वाव॑ रुन्धे ।

मूलम्

प॒ञ्च॒द॒श उ॒क्थ्य॑ ऐ॒न्द्रीषु॑ । इन्द्रि॒यमे॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

पञ्चदश उक्थ्यः ऐन्द्रीषु ऋक्षु भवति द्वितीयमहः ।

विश्वास-प्रस्तुतिः

त्रि॒वृद॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॑ । पुष्टि॑मे॒वाव॑ रुन्धे ।

मूलम्

त्रि॒वृद॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॑ । पुष्टि॑मे॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

त्रिवृदग्निष्टोमः वैश्वदेवीषु ऋक्षु भवति तृतीयमहः ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासु॑ तीव्रसो॒मः ।
अ॒न्नाद्य॒स्य अव॑रुद्ध्यै ।
अथो॒ प्रैव तेन॑ जायते [17] ।

मूलम्

स॒प्त॒द॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासु॑ तीव्रसो॒मः ।
अ॒न्नाद्य॒स्य अव॑रुद्ध्यै ।
अथो॒ प्रैव तेन॑ जायते [17] ।

भट्टभास्कर-टीका

सप्तदशोग्निष्टोमः प्राजापत्यासु ऋक्षु भवति तीव्रसोमो नामोक्थ्यविशेषः, यत्र शतमाशिरे दुहन्ति, तद्धर्मा स भवति चतुर्थमहः ।

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒श उ॒क्थ्य॑स् सौ॒रीषु॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वाऽऽत्मन् ध॑त्ते ।

मूलम्

ए॒क॒विँ॒श उ॒क्थ्य॑स् सौ॒रीषु॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वाऽऽत्मन् ध॑त्ते ।

भट्टभास्कर-टीका

एकविंश उक्थ्यः सौरीषु ऋक्षु भवाति पञ्चममहः ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासू॑पह॒व्यः॑ । उपह॒वमे॒व ग॑च्छति ।

मूलम्

स॒प्त॒द॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासू॑पह॒व्यः॑ । उपह॒वमे॒व ग॑च्छति ।

भट्टभास्कर-टीका

सप्तदशोग्निष्टोमः प्राजापत्यासु एव ऋक्षु उपहव्यो भवति उपहवे साधुः षष्ठमहः । उपहवं पूजां गच्छति ।

विश्वास-प्रस्तुतिः

त्रि॒ण॒वाव् अ॑ग्निष्टो॒माव् अ॒भित॑ ऐ॒न्द्रीषु॒ , विजि॑त्यै।

मूलम्

त्रि॒ण॒वाव् अ॑ग्निष्टो॒माव् अ॒भित॑ ऐ॒न्द्रीषु॒ , विजि॑त्यै।

भट्टभास्कर-टीका

त्रिणवाग्निष्टोमावभितः त्रयस्त्रिंशस्य पुरस्तादुपरिष्टाच्च सप्तममहः । तावुभावविशेषात् ऐन्द्रीष्वृक्षु भवतः ।

विश्वास-प्रस्तुतिः

त्र॒य॒स्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै।

मूलम्

त्र॒य॒स्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै।

भट्टभास्कर-टीका

त्रयस्त्रिंश उक्थ्यो वैश्वदेवीषु ऋक्षु भवति अष्टममहः ।

विश्वास-प्रस्तुतिः

वि॒श्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ , सर्व॑स्या॒भिजि॑त्यै ॥ [18]

मूलम्

वि॒श्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ , सर्व॑स्या॒भिजि॑त्यै ॥ [18]

भट्टभास्कर-टीका

विश्वजित्सर्वपृष्ठोतिरात्रः दशममहः भवति । पृष्ठसामानि रथन्तरादीनि रैवतान्तानि । विश्वञित् सहस्रदक्षिणादिलक्षणः ॥

इति सप्तमे द्वितीये पञ्चमोनुवाकः ॥