०४ नवरात्रविधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ तास्सृ॒ष्टाः क्षुध॒न्न्या॑य॒न्त्स ए॒तन्न॑वरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यर्हि॑ प्र॒जाः क्षुध॑न्नि॒गच्छे॑यु॒स्तर्हि॑ नवरा॒त्रेण॑ यजेत

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास् सृ॒ष्टाः क्षुध॒न् न्या॑यन् ।
स ए॒तन् न॑वरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत ।

मूलम्

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास् सृ॒ष्टाः क्षुध॒न् न्या॑यन् ।
स ए॒तन् न॑वरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत ।

भट्टभास्कर-टीका

1त्रयो नवरात्राः । आयुष्कामस्य प्रथमः । ब्रह्मवर्चसकामस्य द्वितीयः । शललीपिशङ्गस्तृतीयः । तत्राद्यो विधीयते - प्रजापतिः प्रजा इत्यादि ॥ प्रजासृष्ट्यनन्तरमेव क्षुधं नियमेनागच्छन् ततोक्षीयन्त । अथ नवरात्रोण लोकान् प्रजाभ्योकल्पत वृत्तिविधानेन क्षुधं निवर्तयितुं समर्थोभवत् । ततः प्रजा दीर्घमजीवन् ।

विश्वास-प्रस्तुतिः

यर्हि॑ प्र॒जाः क्षुध॑न् नि॒गच्छे॑युस् तर्हि॑ नवरा॒त्रेण॑ यजेत ।

मूलम्

यर्हि॑ प्र॒जाः क्षुध॑न् नि॒गच्छे॑युस् तर्हि॑ नवरा॒त्रेण॑ यजेत ।

भट्टभास्कर-टीका

यर्हीत्यादि । यस्मिन् काले । अनद्यतनेर्हिलन्यतरस्याम् ॥

मूलम् (संयुक्तम्)

इमे हि वा ए॒तासाल्ँ॑ लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुध॒न्नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते [10]
अ॒स्मा॒ इ॒मे लो॒का ऊर्ज॑म्प्र॒जासु॑ दधाति

विश्वास-प्रस्तुतिः

इमे हि वा ए॒तासाल्ँ॑ लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुध॒न्नि ग॑च्छन्ति ।
इ॒माने॒वाभ्यो॑ लो॒कान् क॑ल्पयति ।

मूलम्

इमे हि वा ए॒तासाल्ँ॑ लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुध॒न्नि ग॑च्छन्ति ।
इ॒माने॒वाभ्यो॑ लो॒कान् क॑ल्पयति ।

भट्टभास्कर-टीका

2इमे हीत्यादि ॥ एतासां प्रजानां इमे लोका अकॢप्ताः सस्याभावेन रक्षणपर्याप्ता न भवन्ति, अत एताः क्षुधं निगच्छन्ति । तस्मान्नवरात्रेण लोकान् प्रजाभ्यः कल्पयति रक्षणाय पर्याप्तान् करोति त्रैलोक्यात्मकत्वान्नवरात्रस्य ।

विश्वास-प्रस्तुतिः

तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते ।

मूलम्

तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते ।

भट्टभास्कर-टीका

तान् लोकान् कल्पमानाननु प्रजार्थं कल्पते यजमानः ।

विश्वास-प्रस्तुतिः

कल्प॑न्ते ऽस्मा॒ इ॒मे लो॒काः ।
ऊर्ज॑म् प्र॒जासु॑ दधाति [10]।

मूलम्

कल्प॑न्ते ऽस्मा॒ इ॒मे लो॒काः ।
ऊर्ज॑म् प्र॒जासु॑ दधाति [10]।

भट्टभास्कर-टीका

अस्मै च यजमानाय लोकाः कल्पन्ते सस्यादिवृद्ध्या । तत ऊर्जमन्नं प्रजासु दधाति ॥

मूलम् (संयुक्तम्)

त्रिरा॒त्रेणै॒वेमल्ँ लो॒कङ्क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑क्षन्त्रिरा॒त्रेणा॒मुल्ँ लो॒कय्ँयथा॑ गु॒णे गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलम्भावाय॒

विश्वास-प्रस्तुतिः

त्रिरा॒त्रेण ए॒वेमल्ँ लो॒कङ् क॑ल्पयति , त्रिरा॒त्रेणा॒न्तरि॑क्षन् , त्रिरा॒त्रेण अ॒मुल्ँ लो॒कम् । +++(कल्पयति)+++ ।

मूलम्

त्रिरा॒त्रेण ए॒वेमल्ँ लो॒कङ् क॑ल्पयति , त्रिरा॒त्रेणा॒न्तरि॑क्षन् , त्रिरा॒त्रेण अ॒मुल्ँ लो॒कम् । +++(कल्पयति)+++ ।

भट्टभास्कर-टीका

3त्रिरात्रेणेत्यादि ॥ प्रथमेन त्रिरात्रेण इमं लोकं कल्पयति । द्वितीयेन अन्तरिक्षम् । तृतीयेनामुम् । यथेत्यादि ।

विश्वास-प्रस्तुतिः

यथा॑ गु॒णे गु॒णम् अ॒न्वस्य॑त्य् ए॒वमे॒व तल् लो॒के लो॒कम् अन्व॑स्यति॒ , धृत्या॒ अशि॑थिलम्भावाय +++(च)+++।

मूलम्

यथा॑ गु॒णे गु॒णम् अ॒न्वस्य॑त्य् ए॒वमे॒व तल् लो॒के लो॒कम् अन्व॑स्यति॒ , धृत्या॒ अशि॑थिलम्भावाय +++(च)+++।

भट्टभास्कर-टीका

यथा गुणे रज्ज्वां अवयवगुणं द्वितीयं तृतीयं च अन्वस्यति अनुक्षिपति रज्जुमुपोद्बलयति, एवमेकस्मिन् लोके लोकं द्वितीयं तृतीयं च अन्वस्यति त्रैलोक्यात्मक एकतन्त्रस्त्रिरात्रः क्रियते धृत्यै धारणसामर्थ्यार्थं सर्वस्याशिथिलंभावाय च । च्वेरम्भावश्छान्दसः ॥

मूलम् (संयुक्तम्)

ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒तास्स्तोमा॑ भवन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्र॑म्प्र॒जाना॑म् [11]
ग॒च्छ॒ति

विश्वास-प्रस्तुतिः

ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒तास् स्तोमा॑ भवन्ति ।

मूलम्

ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒तास् स्तोमा॑ भवन्ति ।

भट्टभास्कर-टीका

4कथं पुनस्त्रिरात्रस्य लोकत्रयात्मकत्वमित्याह - ज्योतिर्गौरायुरिति ॥ ज्ञाताः स्तोमाः अहानि ज्ञाता अभ्यस्ता भवन्ति ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ् गौर॒सावायुः॑ ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
ज्ञात्र॑म् प्र॒जाना॑ङ् गच्छति ।

मूलम्

इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ् गौर॒सावायुः॑ ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
ज्ञात्र॑म् प्र॒जाना॑ङ् गच्छति ।

भट्टभास्कर-टीका

इयं वावेत्यादि । गतम् । ज्योतिरादय उक्थ्यविशेषाः त्रिकद्रुका नाम । ज्ञात्रं ख्यातिसिलाके प्रतिष्ठिता [ख्यातिश्लाघे प्रतिष्ठितं?] नाम प्रजानां गच्छति; ज्ञातस्तोमत्वान्नवरात्रस्य । औणादिकस्तृन्प्रत्ययः ॥

मूलम् (संयुक्तम्)

न॒व॒रा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्यात्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ [12]

विश्वास-प्रस्तुतिः

न॒व॒रा॒त्रो भ॑वति । अ॒भि॒पू॒र्वम् ए॒वास्मि॒न् तेजो॑ दधाति ।
यो ज्योगा॑मयावी॒ स्यात् स न॑वरा॒त्रेण॑ यजेत ।
प्रा॒णा हि वा ए॒तस्य+अधृ॑ता , अथै॒तस्य॒ ज्योग् - आ॑मयति ।
प्रा॒णान् ए॒वास्मि॑न् दाधार ।

मूलम्

न॒व॒रा॒त्रो भ॑वति । अ॒भि॒पू॒र्वम् ए॒वास्मि॒न् तेजो॑ दधाति ।
यो ज्योगा॑मयावी॒ स्यात् स न॑वरा॒त्रेण॑ यजेत ।
प्रा॒णा हि वा ए॒तस्य+अधृ॑ता , अथै॒तस्य॒ ज्योग् - आ॑मयति ।
प्रा॒णान् ए॒वास्मि॑न् दाधार ।

भट्टभास्कर-टीका

5नवरात्र इत्यादि ॥ त्रिरात्रष्षड्रात्रो नवरात्र इत्येव । त्रिरात्रानुपूर्व्यवत्त्वात् । अभिपूर्वमनुक्रमेण यजमाने तेजो दधाति । ज्योगामयावी दीर्घरोगी । एतस्य ज्योगामयाविनः प्राणा अधृताः अथैतस्य ज्योगामयति । ‘रुजार्थानाम्’ इति कर्मणि षष्ठी । अधारितप्राणत्वादेनं दीर्घरोगिणं करोति । तस्मान्नवरात्रेणास्मिन्यजमाने प्राणान् दाधार धारयति; नवत्वसाम्यात्, प्राणानां च नवत्वात् । छान्दसो लिङ्, ’ तुजादीनाम्’ इति दीर्घत्वम् ।

विश्वास-प्रस्तुतिः

उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ [12]

मूलम्

उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ [12]

भट्टभास्कर-टीका

उतायं यद्यपीतासुर्गतप्राणो जीवत्येव । ‘निपातैर्यद्यदिहन्त’ इति प्रथमस्याख्यातस्य निघाताभावः, द्वितीयस्य तिङ्परत्वात् ॥

इति सप्तमे द्वितीये चतुर्थोनुवाकः ॥