०३ अष्टरात्रविधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वव्ँवि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्द्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे [8]

विश्वास-प्रस्तुतिः

बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॑ ।
स ए॒तम् अ॑ष्टरा॒त्रम् अ॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् ।
य ए॒वव्ँ वि॒द्वान् अ॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒सी + ए॒व भ॑वति । अ॒ष्ट॒रा॒त्रो भ॑वति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धे ।
अष्टरा॒त्रो भ॑वति ।
चत॑स्रो॒ वै दिशः॑ ।
चत॑स्रोऽवान्तरदि॒शाः ।
दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे [8] ।

मूलम्

भट्टभास्कर-टीका

1अथाष्टरात्र एकस्तद्विदधाति - बृहस्पतिरित्यादि ॥ गतम् । अष्टत्वान्वयात् अष्टाक्षरगायत्र्यात्मकब्रह्मवर्चसलाभः । पुनरप्यष्टत्वान्वयात् । अष्टभ्यो दिग्भ्यो ब्रह्मवर्चसलाभः ॥

मूलम् (संयुक्तम्)

त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [9]

विश्वास-प्रस्तुतिः

त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ , तेज॑ ए॒वाव॑ रुन्धे ।
प॒ञ्च॒द॒शो भ॑वति + इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धे ।
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुध्यै।
अथो॒ प्रैव तेन॑ जायते ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन्ध॑त्ते ।
त्रि॒ण॒वो भ॑वति॒ विजि॑त्यै ।
त्र॒य॒स्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
प॒ञ्च॒विँ॒शो॑ ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ ।
म॒हा॒व्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
वि॒श्व॒जित् सर्व॑पृष्ठो ऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [9]

2त्रिवृदित्यादि ॥ गतम् । त्रिवृदादयस्त्रयस्त्रिंशान्ताः षट्, पञ्चविंशोग्निष्टोमो महाव्रतवान् सप्तमः’ विश्वजित्सर्वपृष्ठोतिरात्रोष्टममहः ॥

इति सप्तमे द्वितीये तृतीयोनुवाकः ॥