विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒तँ स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याᳶ प॒शव॒स्तानवा॑रुन्द्ध॒ य ए॒वव्ँवि॒द्वान्त्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्ताने॒वाव॑ रुन्द्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिर् अकामयत - पशु॒मान्त्स्या॒मिति॑ ।
मूलम्
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिर् अकामयत - पशु॒मान्त्स्या॒मिति॑ ।
भट्टभास्कर-टीका
1अथाष्टौ सप्तरात्राः - कौसुरुबिन्दः प्रथमः, सप्तर्षीणां द्वितीयः, प्राजापत्यस्तृतीयः, छन्दोमपवमानश्चतुर्थः, पृष्ट्यावलम्बः पञ्चमः, सत्त्रसम्मितष्षष्ठः, ऐन्द्रस्सप्तमः, जनकसप्तरात्रोष्टमः । तत्र प्रथमं विदधाति - कुसुरुबिन्द इति ॥ कुसुरुबिन्दो नाम उद्दालकपुत्रोकामयत पशुमान् बहुपशुस्स्यामिति । ‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
स ए॒तँ स॑प्तरा॒त्रम् आह॑रत् ।
तेना॑यजत ।
मूलम्
स ए॒तँ स॑प्तरा॒त्रम् आह॑रत् ।
तेना॑यजत ।
भट्टभास्कर-टीका
स एतमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
तेन॒ वै स याव॑न्तो ग्रा॒म्याᳶ प॒शव॒स् तानवा॑रुन्ध ।
य ए॒वव्ँ वि॒द्वान्त्स॑प्तरा॒त्रेण॒ यज॑ते , याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्, ताने॒वाव॑ रुन्धे ।
स॒प्त॒रा॒त्रो भ॑वति ।
स॒प्त ग्रा॒म्याᳶ प॒शवः॑ । स॒प्तार॒ण्याः । स॒प्त छन्दाँ॑सि । उ॒भय॒स्य अव॑रुद्ध्यै ।

अन्यो द्रष्टा, अयमाहर्ता, तेनापश्यदिति नोक्तम् । गोजाश्वाविकपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटादयस्सप्तारण्याः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यस्सप्त छन्दांसि । चतुरुत्तराणि । उभयस्यावरुद्ध्यै पशूनां छन्दसां चावरुद्ध्यै भवति सप्तत्वान्वयात् ॥
मूलम् (संयुक्तम्)
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेजः॑ [5]
ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै
विश्वास-प्रस्तुतिः
त्रि॒वृद् अ॑ग्निष्टो॒मो भ॑वति । तेज॑ ए॒वाव॑ रुन्धे [5] ।
प॒ञ्च॒द॒शो भ॑वति । इन्द्रि॒यम् ए॒वाव॑ रुन्धे ।
स॒प्त॒द॒शो भ॑वति । अ॒न्नाद्य॒स्य अव॑रुध्यै ।
अथो॒ प्रैव तेन॑ जायते । ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् ध॑त्ते । त्रि॒ण॒वो भ॑वति॒ विजि॑त्यै ।
प॒ञ्च॒विँ॒शो॑ऽग्निष्टो॒मो भ॑वति॒ प्र॒जाप॑ते॒राप्त्यै॑ ।
म॒हा॒व्र॒त॒वा॑न् अ॒न्नाद्य॑स्य अव॑रुद्ध्यै ।

2त्रिवृदित्यादि ॥ अहीनत्वादत्र सर्वत्रैकवचनम् । त्रयस्त्रिंशस्य स्थाने पञ्चविंश इति विशेषः । महाव्रतवान् ये महाव्रतधर्माः ‘स्तुवन्त्यनुश्नोकेन’ इत्याद्याः तद्वान् ।
विश्वास-प्रस्तुतिः
वि॒श्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति ।
सर्व॑स्य अ॒भिजि॑त्यै ।
मूलम्
वि॒श्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति ।
सर्व॑स्य अ॒भिजि॑त्यै ।
भट्टभास्कर-टीका
विश्वजित् सर्वपृष्ठोतिरात्रस्सप्तममहः । बृहद्रथन्तरवैरूपवैराजशाक्वररैवतानि सर्वाण्यपि पृष्ठान्यस्येति सर्वपृष्ठः ॥
मूलम् (संयुक्तम्)
यत्प्र॒त्यक्ष॒म्पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युᳶ प्र॒त्यक्ष॑म् [6]
वि॒श्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममह॑स्स्या॒न्नैक॑रा॒त्रश्च॒न स्या॑द्बृहद्रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ति
विश्वास-प्रस्तुतिः
यत् प्र॒त्यक्ष॒म् पूर्वे॒ष्व् अह॑स्सु पृ॒ष्ठान्य् उ॑पे॒युᳶ ,
प्र॒त्यक्षव्ँ॑ विश्व॒जिति॒ - +++(तद्)+++
यथा॑ दु॒ग्धाम् उ॑प॒सीद॑त्य् ए॒वम् उ॑त्त॒मम् अह॑स् स्यात् ।
नैक॑रा॒त्रश्च॒न स्या॑त्।
बृ॒ह॒द्र॒थ॒न्त॒रे पूर्वे॒ष्व् अह॒स्सूप॑ यन्ति ।

3यत्प्रत्यक्षमित्यादि ॥ पूर्वेष्वहस्सु त्रिवृदादिषु पृष्ठानि रथन्तरादीनि प्रत्यक्षमविकृतमेव उपेयुः । तत्तथा स्यात् । कथम्? यथैव दुग्धामपि गां तदैव दोग्धुं दोग्धा उपसीदति एवमिदं उत्तममहर्निस्सारं स्यात्, ततश्च नैकरात्रोपि स्यात् एकरात्रमपि विश्वजिन्न स्यात् । तस्मात्पूर्वेष्वहस्सु बृहद्रथन्तरे रथन्तरं बृहदिति पर्यायेणोपयन्ति अन्त्याद्दिवसात्प्राग्वैरूपादिभिर्विना ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत्प्र॒त्यक्षव्ँ॑विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्ता॑न्दु॒हे ता॒दृगे॒व तत् ॥ [7]
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् +++( चास्ति)+++। आ॒भ्यामे॒व न य॒न्त्य् अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
यत् प्र॒त्यक्षव्ँ॑ विश्व॒जिति॑ पृ॒ष्ठान्य् उ॑प॒यन्ति ।
यथा॒ प्रत्ता॑न् दु॒हे, ता॒दृग् ए॒व तत् ॥ [7]

4इयं वावेत्यादि ॥ गतम् । यदित्यादि । अथ विश्वजिति सर्वपृष्ठानि प्रत्यक्षमुपयन्ति । यथा प्रत्तां पयो दातुं प्रवृत्तां प्रारब्धां प्रस्नवतीं गां दुग्धे तादृक्तद्भवति । आदिकर्मणि क्तः अच उपसर्गात्तः, ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥
इति सप्तमे द्वितीये द्वितीयोनुवाकः ॥