०१ षड्रात्रविधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

सा॒ध्या वै दे॒वास्सु॑व॒र्गका॑मा ए॒तँ ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्य ए॒वव्ँवि॒द्वाँस॑ष्षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

सा॒ध्या वै दे॒वास् सु॑व॒र्गका॑माः, ए॒तँ ष॑ड्रा॒त्रम॑पश्य॒न् ।
तमाह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
य ए॒वव्ँ वि॒द्वाँसष् षड्रा॒त्रमास॑ते , सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।

मूलम्

सा॒ध्या वै दे॒वास् सु॑व॒र्गका॑माः, ए॒तँ ष॑ड्रा॒त्रम॑पश्य॒न् ।
तमाह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
य ए॒वव्ँ वि॒द्वाँसष् षड्रा॒त्रमास॑ते , सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

1अथ चत्वारष्षडहास्सन्ति - साध्यानां प्रथमः, द्वितीय उपरिष्टात्, त्रिककुत् तृतीयः, अभ्यासश्चतुर्थः । तत्र प्रथमं विदधाति - साध्या वा इत्यादि ॥ गतम् । साध्या देवविशेषाः । तत्र कर्तरि यत्, उदात्तनिवृत्तिस्वरेण तत उदात्तत्वम् । आसते इत्यादि । चोदितत्वात्सत्त्रं षड्रात्रः, अत एव बहुवचनं देवा इति ॥

मूलम् (संयुक्तम्)

देवस॒त्त्रव्ँ वै ष॑ड्रा॒त्रᳶ प्र॒त्यक्षँ॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वव्ँवि॒द्वाँस॑ष्षड्रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ [1]
पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

दे॒व॒स॒त्रव्ँ वै ष॑ड्रा॒त्रः ।
प्र॒त्यक्षँ॒ ह्ये॑तानि॑ पृ॒ष्ठानि॑ ।

मूलम्

दे॒व॒स॒त्रव्ँ वै ष॑ड्रा॒त्रः ।
प्र॒त्यक्षँ॒ ह्ये॑तानि॑ पृ॒ष्ठानि॑ ।

भट्टभास्कर-टीका

2देवसत्त्रमित्यादि ॥ देवैर्दृष्टत्वात् । यद्वा - देवा एव सत्त्रात्मना तिष्ठन्तीति देवसत्त्रं । तदेवाह प्रत्यक्षमेव हि अव्यवधानेन वर्तन्ते यान्येतानि पृष्ठानि रथन्तरादीनि तान्येव हि देवाः देवतुल्यत्वात्, अतो देवसत्त्रम् । ‘कूलतीर’ इत्यादिना प्रत्यक्षशब्द उत्तरपदाद्युदात्तः ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑ष् षड्रा॒त्रम् आस॑ते , सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।
ष॒ड्रा॒त्रो भ॑वति ।

मूलम्

य ए॒वव्ँ वि॒द्वाँस॑ष् षड्रा॒त्रम् आस॑ते , सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।
ष॒ड्रा॒त्रो भ॑वति ।

भट्टभास्कर-टीका

तस्मात्साक्षादव्यवधानेन देवतास्थानमभ्यारोहन्ति । देवताशब्देन साहचर्यात् तदीय स्थानमुच्यते । देवता एव वा प्रविशन्ति । सत्त्रत्वात्सर्वत्र बहुवचनम् । पृष्ठानीति वचनात् पृष्ठ्यः षडहो भवतीति गम्यते । तच्चेदानीमेव दर्शयिष्यति त्रिवृदग्निष्टोम इत्यादिना ।

विश्वास-प्रस्तुतिः

षड्वा ऋ॒तव॒ष् षट्पृ॒ष्ठानि॑ +++( च सन्ति)+++[1]।
पृ॒ष्ठैरे॒व ऋ॒र्तून् अ॒न्वारो॑हन्ति + ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।

मूलम्

षड्वा ऋ॒तव॒ष् षट्पृ॒ष्ठानि॑ +++( च सन्ति)+++[1]।
पृ॒ष्ठैरे॒व ऋ॒र्तून् अ॒न्वारो॑हन्ति + ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।

भट्टभास्कर-टीका

षट्त्वान्वयात् षड्भिः पृष्ठैः ऋतूननुक्रमेणारोहन्ति। उक्तौ स्वरसमासौ । ऋतुभिश्च संवत्सरं आदित्यात्मानम् ।

विश्वास-प्रस्तुतिः

ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।

मूलम्

ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।

भट्टभास्कर-टीका

अथ ते तत्रैव प्रतिष्ठिता भवन्ति ।

विश्वास-प्रस्तुतिः

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् ,अ॒सौ बृ॒हत् +++(चास्ति)+++। आ॒भ्यामे॒व य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् ,अ॒सौ बृ॒हत् +++(चास्ति)+++। आ॒भ्यामे॒व य॑न्ति ।

भट्टभास्कर-टीका

अथ बृहद्रथन्तराभ्यामिति । द्वितीयत्वेऽपि अल्पाच्तरत्वाद्वृहतः पूर्वनिपातः । अत्रायं षडहोतिरात्रोहीनः, तत्रान्त्येऽहनि बृहद्रथन्तराभ्यां यन्ति गच्छन्ति यागं निर्वर्तयन्ति । पूर्वेषु त्वहस्सु ‘प्रत्यक्षं ह्येतानि’ इति वचनात् वैरूपादीन्यपि यथायथं वर्तन्ते । इयमित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

अपिचानयोर्द्यावापृथिव्योः प्रतिष्ठिता भवन्ति । यावदिमे तावत् स्थास्यन्ति । ‘त्यदादीनां यद्यत्परम्’ इतीदमश्शेषः । एते बृहद्रथन्तरे यज्ञस्याञ्जसा आर्जवेन अपरिहारेण गमनसाधने स्रुती मार्गौ ‘अञ्जस उपसंख्यानम्’ इत्यलुक् ॥

मूलम् (संयुक्तम्)

त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शः [2]
भ॒व॒त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

त्रि॒वृद॑ग्निष्टो॒मो भ॑वति । तेज॑ ए॒वाव॑ रुन्धते ।
प॒ञ्च॒द॒शो भ॑वति । इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
अथो॒ प्रैव तेन॑ जायन्ते ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते ।
त्रि॒ण॒वो भ॑वति॒ , विजि॑त्यै ।
त्र॒य॒स्त्रिँ॒शो भ॑वति , प्रति॑ष्ठित्यै ।

मूलम्

त्रि॒वृद॑ग्निष्टो॒मो भ॑वति । तेज॑ ए॒वाव॑ रुन्धते ।
प॒ञ्च॒द॒शो भ॑वति । इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
अथो॒ प्रैव तेन॑ जायन्ते ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते ।
त्रि॒ण॒वो भ॑वति॒ , विजि॑त्यै ।
त्र॒य॒स्त्रिँ॒शो भ॑वति , प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

6त्रिवृदग्निष्टोम इति ॥ पृष्ठ्यष्षडहं दर्शयति - त्रिवृदग्निष्टोमो रथन्तरसामा प्रथममहः । पञ्चदश उक्थ्यो बृहत्सामा द्वितीयमहः । सप्तदश उक्थ्यो वैरूपसामा तृतीयमहः । एकविंशष् षोडशी वैराजसामा चतुर्थम् । त्रिणव उक्थ्यः शाक्वरसामा पञ्चमम् । त्रयस्त्रिंश उक्थ्यो रैवतसामा षष्ठम् । इत्येष पृष्ठ्यष्षडहः । वैकृतस्तु विशेषो यथावद्योज्य इति । त्रिवृदादयश्शब्दा व्याख्याताः ॥

मूलम् (संयुक्तम्)

सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धान॒ञ्चाग्नी॑ध्रञ्च भवत॒स्तद्धि सु॑व॒र्ग्य॑ञ्च॒क्रीव॑ती भवतस्सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गः [3]
लो॒कस्सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यान॒ᳶ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठाङ्ग॑च्छन्ति

विश्वास-प्रस्तुतिः

स॒दो॒ह॒वि॒र्धा॒निन॑ ए॒तेन॑ षड्-रा॒त्रेण॑ यजेरन् ।

मूलम्

स॒दो॒ह॒वि॒र्धा॒निन॑ ए॒तेन॑ षड्-रा॒त्रेण॑ यजेरन् ।

भट्टभास्कर-टीका

4सदोहविर्धानिन इत्युत्तरार्थोनुवादः विशेषं दर्शयितुम् ।

विश्वास-प्रस्तुतिः

आश्व॑त्थी हवि॒र्धान॒ञ्च , आग्नी॑ध्रञ्च भवतः ।
तद्धि सु॑व॒र्ग्य॑म् ।
च॒क्रीव॑ती भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

आश्व॑त्थी हवि॒र्धान॒ञ्च , आग्नी॑ध्रञ्च भवतः ।
तद्धि सु॑व॒र्ग्य॑म् ।
च॒क्रीव॑ती भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

आश्वत्थी इति ॥ अश्वत्थमय्यौ । विकृत्यभिप्रायमिदं स्त्रीत्वम् । हविर्धानाग्नीध्रे अश्वत्थविकृती । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, ‘सुपां सुलुक्’ इति लुक् । तद्धि सुवर्ग्यं सुवर्गस्य लोकस्य निमित्तम् । ‘गोद्व्यचः’ इति यत् । चक्रीवती चक्रयुक्ते शकटे भवतः । अन्य आहुः - एवं सति सदसो विशेषवचने तद्ग्रहणानर्थक्यात् हविर्धानस्य प्रयोजनाभावात् सदोहविर्धाने शकटवती भवत इति । ‘आसन्दीवत्’ इत्यादौ निपात्यते, ‘नपुंसकाच्च’ इति शीभावः । समष्ट्यै सम्यक्प्राप्तये । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

उ॒लूख॑लबुध्नो॒ यूपो॑ भवति । प्रति॑ष्ठित्यै ।
प्राञ्चो॑ यान्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः ।
सर॑स्वत्या यान्ति [3]।

मूलम्

उ॒लूख॑लबुध्नो॒ यूपो॑ भवति । प्रति॑ष्ठित्यै ।
प्राञ्चो॑ यान्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः ।
सर॑स्वत्या यान्ति [3]।

भट्टभास्कर-टीका

उलूखलबुध्न इति । उलूखलाकारमूल इति । प्राञ्च इति । प्राङ्मुखा गच्छन्ति सत्त्रं समापयन्ति प्रकर्षेणाञ्चन्निव स्वर्गो भवति । सरस्वत्येति । तीर्थविशेषः सरस्वती, तया यान्ति तां प्राप्य सत्त्रं समापयन्ति ।

विश्वास-प्रस्तुतिः

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒स्, तमे॒वान्वारो॑हन्ति ।
आ॒क्रोश॑न्तो या॒न्ति ।
अव॑र्तिमे॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठाङ् ग॑च्छन्ति।

मूलम्

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒स्, तमे॒वान्वारो॑हन्ति ।
आ॒क्रोश॑न्तो या॒न्ति ।
अव॑र्तिमे॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठाङ् ग॑च्छन्ति।

विश्वास-प्रस्तुतिः

एष वा इति । देवान्यान्ति अनेनेति देवयानः, तमेव मार्गं समारोहन्ति प्रपद्यन्ते । आक्रोशन्त इति । अवर्ति अवर्तनं दारिद्र्यं अन्यस्मिन् पुरुषे प्रतिषज्य समासज्य प्रतिष्ठां प्राप्तिं गच्छन्ति ॥

मूलम्

एष वा इति । देवान्यान्ति अनेनेति देवयानः, तमेव मार्गं समारोहन्ति प्रपद्यन्ते । आक्रोशन्त इति । अवर्ति अवर्तनं दारिद्र्यं अन्यस्मिन् पुरुषे प्रतिषज्य समासज्य प्रतिष्ठां प्राप्तिं गच्छन्ति ॥

मूलम् (संयुक्तम्)

य॒दा दश॑ श॒तङ्कु॒र्वन्त्यथैक॑मु॒त्थानँ॑ श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

य॒दा दश॑ श॒तङ्कु॒र्वन्त्य् अथैक॑म् उ॒त्थान॑म् ।

मूलम्

य॒दा दश॑ श॒तङ्कु॒र्वन्त्य् अथैक॑म् उ॒त्थान॑म् ।

भट्टभास्कर-टीका

5यदेत्यादि ॥ यदा ऋषभाधिका दश गावः प्रसवेन शतं कुर्वन्ति अथानन्तरमेकमुत्थानं अयमपि कश्चित्समापनकालः, एतावति काले सत्त्रं समाप्यते इति एके आहुरिति यावत् ।

विश्वास-प्रस्तुतिः

श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।

मूलम्

श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।

भट्टभास्कर-टीका

शतायुरिति । गतम् ॥ +++(विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++

मूलम् (संयुक्तम्)

य॒दा श॒तँ स॒हस्र॑ङ्कु॒र्वन्त्यथैक॑मु॒त्थानँ॑ स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति

विश्वास-प्रस्तुतिः

य॒दा श॒तँ स॒हस्र॑ङ् कु॒र्वन्त्य् अथ॑ + एक॑म् उ॒त्थान॑म् ।

मूलम्

य॒दा श॒तँ स॒हस्र॑ङ् कु॒र्वन्त्य् अथ॑ + एक॑म् उ॒त्थान॑म् ।

भट्टभास्कर-टीका

6यदा शतमित्यादि ॥ एवमेव शतं ऋषभाधिका गावः यदा सहस्रं कुर्वन्ति अथैकमुत्थानमिति वदन्त्येके, प्रसवशक्तिवैचित्र्यात् गवां पक्षभेदः ।

विश्वास-प्रस्तुतिः

स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒कः ।
अ॒मुमे॒व लो॒कम् अ॒भि ज॑यन्ति ।

मूलम्

स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒कः ।
अ॒मुमे॒व लो॒कम् अ॒भि ज॑यन्ति ।

भट्टभास्कर-टीका

सहस्रसम्मितः सहस्रतुल्यः महत्त्वाद्दुःखसंपाद्यत्वाच्च ॥

मूलम् (संयुक्तम्)

य॒दैषा॑म्प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थान॒न्तद्धि ती॒र्थम् ॥ [4]

विश्वास-प्रस्तुतिः

य॒दैषा॑म् प्र॒मीये॑त , य॒दा वा॒ जीये॑रन्न् अथैक॑म् उ॒त्थान॑म् ।

मूलम्

य॒दैषा॑म् प्र॒मीये॑त , य॒दा वा॒ जीये॑रन्न् अथैक॑म् उ॒त्थान॑म् ।

भट्टभास्कर-टीका

7यदैषामत्यादि ॥ यदैषां सत्त्रिणां मध्ये कश्चित्प्रमीयेत यदा वा जीयेरन् सर्वस्वमपि ह्रियेरन् तदाऽप्येकमुत्थानमिति ।

विश्वास-प्रस्तुतिः

तद्धि ती॒र्थम् ॥ [4]

मूलम्

तद्धि ती॒र्थम् ॥ [4]

भट्टभास्कर-टीका

तद्धि तीर्थं तारकं दुरितेभ्य इति । अर्थादियन्तं कालमावर्तते षडह इति गम्यते । उक्तं च चोदितत्वात् सत्त्रं षड्रात्र इति ॥

इति सप्तमे द्वितीये प्रथमोनुवाकः ॥