१९ अश्वचरितहोममन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॑ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑

विश्वास-प्रस्तुतिः

ई॒ङ्का॒राय॒ स्वाहा॑ । ईङ्कृ॑ताय॒ स्वाहा॑ ।
क्रन्द॑ते॒ स्वाहा॑ । अ॒व॒क्रन्द॑ते॒ स्वाहा॑ ।
प्रोथ॑ते॒ स्वाहा॑ । प्र॒प्रोथ॑ते॒ स्वाहा॑ ।
ग॒न्धाय॒ स्वाहा॑ । घ्रा॒ताय॒ स्वाहा॑ ।
प्रा॒णाय॒ स्वाहा॑ । व्या॒नाय॒ स्वाहा॑ । अ॒पा॒नाय॒ स्वाहा॑।

मूलम्

भट्टभास्कर-टीका

1-11अथ पुरस्तात्स्विष्टकृतः त्र्यशीतिमश्वचरितान्युपजुहोति - ईंकारायेति ॥ ईमित्यनुकरणशब्दस्सन्नाहादौ क्रियते अश्वेन । ‘अनुकरणं चानितिपरम्’ इतिगतित्वात्थाथादिस्वरः । निवर्तमानावस्थ उच्यते । ईंकृतः स एव निवृत्तावस्थ उच्यते । पूर्ववद्गतित्वात् ‘गतिरनन्तरः’ इति तस्य प्रकृतिस्वरत्वम् । क्रन्दते उच्चैर्हेषमाणाय । अवक्रन्दते अवाङ्मुखं निभृतं घोषमाणाय । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः, उत्तरत्र कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रोथते नासापुटाभ्यां शब्दं विस्तारयते । प्रप्रोथते उपर्युपरि तथाकुर्वते । प्रोथृ पर्याप्तौ, स एव स्वरः । गन्धाय गन्धयित्रे गन्धं गृह्णते । गन्ध अर्दने, पचाद्यच् । घ्राताय घ्रातवते । घ्रा गन्धोपादाने, व्यत्ययेन कर्तरि निष्ठा । मत्त्वर्थीयो वा लुप्यते । ‘नुदविदोन्दत्राघ्रा’ इति निष्ठानत्वाभावः पाक्षिकः । प्राणव्यानापाना व्याख्याताः । पचाद्यजन्ताः । द्वितीयस्य छान्दसं सांहितिकं दीर्घत्वम्, प्रातिशाख्ये चोक्तं - ‘व्युत्पूर्व आननुदात्तोनूष्मवति’ इति ॥

मूलम् (संयुक्तम्)

सन्दी॒यमा॑नाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परँस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑

विश्वास-प्रस्तुतिः

स॒न्दी॒यमा॑नाय॒ स्वाहा॑ । सन्दि॑ताय॒ स्वाहा॑ ।
वि॒चृ॒त्यमा॑नाय॒ स्वाहा॑ । विचृ॑त्ताय॒ स्वाहा॑ ।
प॒ला॒यिष्यमा॑णाय॒ स्वाहा॑ । पला॑यिताय॒ स्वाहा॑ ।
उ॒प॒रँ॒ं॒स्य॒ते स्वाहा॑ । उप॑रताय॒ स्वाहा॑ ।
नि॒वे॒क्ष्य॒ते स्वाहा॑ । नि॒वि॒शमा॑नाय॒ स्वाहा॑ । निवि॑ष्टाय॒ स्वाहा॑ ।

12-22सन्दीयमानाय नियम्यमानाय । दो अवखण्डने, संपूर्वो बन्धवनकर्मा, ‘घुमास्थागापा’ इति सूत्रेणेत्वम् । सन्दिताय बद्धाय । ‘द्यतिस्यति’ इत्यादिना इत्वं, पूर्ववल्लसार्वधातुकानुदात्तत्वे गतिस्वरौ । विचृत्यमानाय विमुच्यमानाय । विचृत्ताय विमुक्ताय । चृती हिंसादौ, ‘श्वीदितोनिष्ठायाम्’ इतीट्प्रतिषेधः, पूर्ववत्स्वरौ । पलायिष्यमाणाय हविर्भूत्वा शीध्रं देवसकाशं प्राप्स्यते । अय गतौ, ‘उपसर्गस्यायतौ’ इति लत्वम् । पलायिताय देवसकाशं प्राप्ताय । तावेव स्वरौ । उपरंस्यते मनुष्यलोकं हित्वा देवसकाशे रन्तुं यास्यते । ‘उपाच्च’ इति रमतेः परस्मैपदम्, ‘शतुरनुमः’ इति विभकेरुदात्तत्वम् । उपरताय देवसकाशं गतवते । पूर्ववद्गतिस्वरः । निवेक्ष्यते देवान् प्रवेक्ष्यते । अतः परं त्रिकालवर्तिचरितग्रहणम् । ‘शतुरनुमः’ इनि विभक्तेरुदात्तत्वम् । निविशमानाय । ‘नेर्विशः’ इत्यात्मनेपदम् । पूर्ववद्व्यत्ययेन कुतः सतिशिष्टस्वरः । निविष्टाय । कर्तरि निष्ठा । तत्र व्यत्ययेन गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

निषत्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ [49]
आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ निपत्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

नि॒ष॒त्स्य॒ते स्वाहा॑ । नि॒षीद॑ते॒ स्वाहा॑ । निष॑ण्णाय॒ स्वाहा॑ [49] ।
आ॒सि॒ष्य॒ते स्वाहा॑ । आसी॑नाय॒ स्वाहा॑ । आ॒सि॒ताय॒ स्वाहा॑ ।
नि॒प॒त्स्य॒ते स्वाहा॑ । नि॒पद्य॑मानाय॒ स्वाहा॑ । निप॑न्नाय॒ स्वाहा॑ ।
श॒यि॒ष्य॒ते स्वाहा॑ । शया॑नाय॒ स्वाहा॑ । श॒यि॒ताय॒ स्वाहा॑ ।

23-34निषत्स्यते । निषीदनं आसनाधिकरणावस्थानपरिग्रहः । ‘सदिरप्रतेः’ इति षत्वम् । निषीदते पाघ्रादिना सीदादेशः । निषण्णाय ‘रदाभ्यां’ इति निष्ठानत्वम् । सर्वत्रोक्त एव स्वरः । आसिष्यते इत्यादि । गतम् । आसीनाय । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । निपत्स्यते निपतनं शयनाधिकरणस्थानपरिग्रहः । व्यत्ययेनैव परस्मैपदम् । निपद्यमानाय । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वात् ‘ञ्नित्यादिर्नित्यम्’ इत्याद्युदात्तत्वम्, उक्तमन्यत् । शयिष्यते । स्वरपरस्मैपदे उक्ते । शयानाय । ङित्वाल्लसार्वधातुकानुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

सम्मीलिष्य॒ते स्वाहा॑ स॒म्मील॑ते॒ स्वाहा॒ सम्मी॑लिताय॒ स्वाहा॑ स्वप्स्य॒ते स्वाहा॑ स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा॑ प्रभोत्स्य॒ते स्वाहा॑ प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒

विश्वास-प्रस्तुतिः

स॒म्मी॒लि॒ष्य॒ते स्वाहा॑ । स॒म्मील॑ते॒ स्वाहा॑ । सम्मी॑लिताय॒ स्वाहा॑ ।
स्व॒प्स्य॒ते स्वाहा॑ । स्व॒प॒ते स्वाहा॑ । सु॒प्ताय॒ स्वाहा॑ ।
प्र॒भो॒त्स्य॒ते स्वाहा॑ । प्र॒बुध्य॑मानाय॒ स्वाहा॑ । प्रबु॑द्धाय॒ स्वाहा॑ ।
जा॒ग॒रि॒ष्य॒ते स्वाहा॑ । जाग्र॑ते॒ स्वाहा॑ । जा॒ग॒रि॒ताय॒ स्वाहा॑ ।

35-46सम्मीलिष्यते इत्यादि ॥ गतम् । स्वप्स्यते बाह्यकरणोपरमः स्वापः । गतमन्यत् । प्रभोत्स्यते । ‘एकाचः’ इति भष्भावः । प्रबुद्ध्यमानाय जागरिष्यते । गतम् । जाग्रते । ‘जक्षि’ इत्यादिना अभ्यस्तसंज्ञत्वात् ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । जागरिताय । ‘जाग्रोऽविचिण्णल्ङित्सु’ इति गुणः ॥

मूलम् (संयुक्तम्)

शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा॑ श्रु॒ताय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा॑ [50] वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सँहास्य॒ते स्वाहा॑ स॒ञ्जिहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्त्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहा

विश्वास-प्रस्तुतिः

शुश्रू॑षमाणाय॒ स्वाहा॑ । शृ॒ण्व॒ते स्वाहा॑ । श्रु॒ताय॒ स्वाहा॑ ।

वी॒क्षि॒ष्य॒ते स्वाहा॑ [50]। वीक्ष॑माणाय॒ स्वाहा॑ । वीक्षि॑ताय॒ स्वाहा॑ ।

सँ॒हा॒स्य॒ते स्वाहा॑ । स॒ञ्जिहा॑नाय॒ स्वाहा॑ । उ॒ज्जिहा॑नाय॒ स्वाहा॑ ।

वि॒व॒र्त्स्य॒ते स्वाहा॑ । विवर्त॑मानाय॒ स्वाहा॑ । विवृ॑त्ताय॒ स्वाहा॑ ।

47-58शुश्रूषमाणाय जागरित्वा शब्दं श्रोतुमिच्छते । पूर्ववदाद्युदात्तत्वम् । ‘ज्ञाश्रुस्मृदृशाम्’ इत्यात्मनेपदम् । उत्तरे गते । वीक्षिष्यते इत्यादि । गतम् । संहास्यत इत्यादि । गतम् । संहासनं बाह्येन्द्रियाणां स्वैस्स्वैर्विषयैस्संयोगः । ओहाङ् गतौ । संजिहानाय । ‘भृञामित्’ इतीत्वम् । उज्जिहानाय कार्येषूद्योगं कुर्वते । उक्ते स्वरपरस्मैपदे । विवर्त्स्यते । विवर्तनं शयनस्थानत्यागः । ’ वृद्भ्यस्स्यसनोः’ इति परस्मैपदम् । ‘न वृद्ब्यश्चतुर्भ्यः’ इतीडभावः । उक्तमन्यत् । विवृत्ताय । ‘उदितो वा’ इति विभाषितेट् ‘यस्य विभाषा’ इतीट्प्रतिषेधः ॥

मूलम् (संयुक्तम्)

उ॒त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो॑त्क्रँस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रा॑न्ताय॒ स्वाहा॑ चङ्क्रमिष्य॒ते स्वाहा॑ चङ्क्र॒म्यमा॑णाय॒ स्वाहा॑ चङ्क्रमि॒ताय॒ स्वाहा॑

विश्वास-प्रस्तुतिः

उ॒त्था॒स्य॒ते स्वाहा॑ । उ॒त्तिष्ठ॑ते॒ स्वाहा॑ । उत्थि॑ताय॒ स्वाहा॑ ।

वि॒ध॒वि॒ष्य॒ते स्वाहा॑ । वि॒धू॒न्वा॒नाय॒ स्वाहा॑ । विधू॑ताय॒ स्वाहा॑ ।

उ॒त्क्रँ॒ं॒स्य॒ते स्वाहा॑ । उ॒त्क्राम॑ते॒ स्वाहा॑ । उत्क्रा॑न्ताय॒ स्वाहा॑ ।

च॒ङ्क्र॒मि॒ष्य॒ते स्वाहा॑ । च॒ङ्क्र॒म्यमा॑णाय॒ स्वाहा॑ । च॒ङ्क्र॒मिताय॒ स्वाहा॑ ।

59-70उत्थास्यते । ‘उदस्स्थास्तम्भ्वोः’ इति पूर्वरूपता । विधविष्यते । विधवनं देहस्य कम्पनम् । विधून्वानाय । धूञ् कम्पने, क्रैयादिकः, व्यत्ययेन श्नुः, कृदुत्तरपदप्रकतिस्वरत्वे शानच्स्वरः सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते । उत्क्रंस्यते । उत्क्रमणं शिरःकम्पनम्, व्यत्ययेनेडभावः । गतमन्यत् । चङ्क्रमिष्यते । चङ्क्रमणं पुनःपुनः क्रमणं सातत्येन गमनम् । यङन्ताल्ल्युटि ‘यस्य हलः’ इति यलोपः ॥

मूलम् (संयुक्तम्)

कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒

विश्वास-प्रस्तुतिः

क॒ण्डू॒यि॒ष्य॒ते स्वाहा॑ । क॒ण्डू॒यमा॑नाय॒ स्वाहा॑ । क॒ण्डू॒यि॒ताय॒ स्वाहा॑ ।

नि॒क॒षि॒ष्य॒ते स्वाहा॑ । नि॒कष॑माणाय॒ स्वाहा॑ । निक॑षिताय॒ स्वाहा॑ ।

यदत्ति॒ तस्मै॒ स्वाहा॑ । यत्पिब॑ति॒ तस्मै॒ स्वाहा॑ ।

यन्मेह॑ति॒ तस्मै॒ स्वाहा॑ । यच्छकृ॑त् क॒रोति॒ तस्मै॒ स्वाहा॑ ।

70-80कण्डूयिष्यते । दर्पनिमित्ता कण्डूया । कण्ड्वादिभ्यो यक् । निकषिष्यते । निकषणं काष्ठादिषु शरीरस्य । कष हिंसायाम् । निकषमाणाय । व्यत्ययेनात्मनेपदम् । गतमन्यत् । यदत्ति येन सामर्थ्येन अदनं करोति तस्मै स्वाहा । तस्मा एव वा अदनाय । एवं पानादिषु द्रष्टव्यम् ॥

मूलम् (संयुक्तम्)

रेत॑से॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहा॑ प्रजन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [51]

विश्वास-प्रस्तुतिः

रेत॑से॒ स्वाहा॑ । प्र॒जाभ्य॒स् स्वाहा॑ । प्र॒जन॑नाय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [51]

मूलम्

रेत॑से॒ स्वाहा॑ । प्र॒जाभ्य॒स् स्वाहा॑ । प्र॒जन॑नाय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [51]

भट्टभास्कर-टीका

81-84रेतसे रेतस्सेचनकर्मणे । प्रजाभ्यः प्रजोत्पादनसामथ्यार्य । प्रजननाय प्रजननेन्द्रियाय । सर्वस्मै अनुक्तमन्यदपि चरितमश्वस्य हासरोदनादि तस्मै सर्वस्मै स्वाहा ॥

इति सप्तमे प्रथमे एकोनविंशोनुवाकः ॥