१८ (क्रतु)उत्तरदीक्षामन्त्राः

मूलम् (संयुक्तम्)

भुवो॑ दे॒वाना॒ङ्कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि

विश्वास-प्रस्तुतिः

भुवो॑ +++(उत्पद्यस्व)+++ - दे॒वाना॒ङ् कर्म॑णा॒ , ऽप॑सा ऋ॒र्तस्य॑ । पथ्या॑ऽसि ।
वसु॑भिर् दे॒वेभि॑र् दे॒वत॑या॒ गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि ।
व॒स॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि ।
आ ऽहन् दी॒क्षाम् अ॑रुहम् ऋ॒तस्य॒ पत्नी॑म्।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च ऋ॒तम् स॒त्ये॑ऽधाम्, स॒त्यम् ऋ॒ते॑ऽधाम् ॥ [म॒हीम् ऊ॒ षु … ]
[सु॒त्रामा॑णम् पृथि॒वीन् …]

मूलम्

भट्टभास्कर-टीका

1अथोत्तरा ऋतुदीक्षाः - भुवो देवानामिति ॥ अत्र ‘वसुभिः’ इत्यादयः पञ्च पर्यायाः । तत्रादौ ‘पथ्याऽसि’ इत्यन्तं सर्वेषां तुल्यम् । अन्ते च ‘आऽहं दीक्षाम्’ इत्यादि ‘ऋतेऽधाम्'40 इत्यन्तं सर्वेषां तुल्यमेव । ततोन्ते द्वे ऋचौ त्रिष्टुभौ ‘महीमूषु मातरम्’ इत्येका, ‘सुत्रामाणं पृथिवीम्'41 इति द्वितीया । एते च ‘वैश्वानरो न ऊत्या'41 इत्यत्र व्याख्याते, इह तु प्रतीकग्रहणम् । दीक्षे त्वं देवानां कर्मणा देवसंबन्धिना व्यापारेण होमादिना भुवः भव उत्पद्यस्व । भवतेर्लेटि शपो लुक्, ‘लेटोऽडाटौ’ इत्यडागमः, ‘भूसुवोस्तिङि’ इति गुणाभावः । ऋतस्य यज्ञस्य अपसा कर्मणा हेतुना भुव इत्येव । पथ्या हिता खल्वसि सर्वस्य लोकस्य । छान्दसमन्तस्वरितत्वम्, डादेशो वा विभक्तेः । तां त्वां देवेभिः वसुभिः देवैः गायत्रेण छन्दसा युनज्मि । त्वां च वसन्तेन ऋतुना वासन्तिकेन हविषा त्वां दीक्षयामि दीक्षां करोमि अविगुणं निर्वर्तयामीति यावत् । ‘तत्करोति’ इति णिच् । सोहं दीक्षामारुहं आरूढोस्मि । ‘कृमृदृरुहिभ्यः’ इति च्लेरङ् । ऋतस्य यज्ञस्य पत्नीं पालयित्रीम् । ‘पत्युर्नः’ इति ङीप्नकारौ । गायत्रोण छन्दसा ब्रह्मणा च ऋतं सत्ये अधां दधामि स्थापयामि । छान्दसो लुङ् । मानसं सत्यमृतं, वाचिकं सत्यम् । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्’ इति गायत्र्यादिषु स्वार्थिकोण् । त्रिष्टुऽबादिभ्य उत्सादित्वादञ् ॥

मूलम् (संयुक्तम्)

आदि॒त्येभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒र्षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [47]
श॒रदा॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्या॑न्त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑ङ्गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तँ स॒त्ये॑ऽधाँ स॒त्यमृ॒ते॑ऽधाम् । म॒हीमू॒ षु ।

विश्वास-प्रस्तुतिः

भुवो॑ +++(उत्पद्यस्व)+++ - दे॒वाना॒ङ् कर्म॑णा॒ , ऽप॑सा ऋ॒र्तस्य॑ । पथ्या॑ऽसि ।
[भुवो॑ +++(उत्पद्यस्व)+++ दे॒वाना॒ङ् कर्म॑णा॒, ऽप॑सा +ऋ॒तस्य॑। प॒थ्या॑ऽसि ।]
आदि॒त्येभि॑र् दे॒वेभि॑र् दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि ।
व॒र्षाभि॑स् त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि ।
[आ ऽहन् दी॒क्षाम् अ॑रुहम् ऋ॒तस्य॒ पत्नी॑म्।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च ऋ॒तम् स॒त्ये॑ऽधाम्, स॒त्यम् ऋ॒ते॑ऽधाम् ॥]
[म॒हीम् ऊ॒ षु … ]
[सु॒त्रामा॑णम् पृथि॒वीन् …]

[भुवो॑ +++(उत्पद्यस्व)+++ दे॒वाना॒ङ् कर्म॑णा॒, ऽप॑सा +ऋ॒तस्य॑। प॒थ्या॑ऽसि ।]
विश्वे॑भिर् दे॒वेभि॑र् दे॒वत॒या आनु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [47]।
श॒रदा॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि ।

अङ्गि॑रोभिर् दे॒वेभि॑र् दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि ।
हेमन्त-शिशि॒राभ्या॑न् त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि ।

2-5एवं रुद्रादिपर्यायेष्वपि द्रष्टव्यम् ॥ +++(सम्पादकटिप्पनी - “वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि” इति भागस्य टीकाया अनुमेयम्।)+++

मूलम् (संयुक्तम्)

म॒हीमू॒ षु ।

विश्वास-प्रस्तुतिः

म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ॥

मूलम्

म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ॥

भट्टभास्कर-टीका

6महीमूष्वित्यादि ॥ सुव्रतानां शोभनकर्मणां मातरं मातृवत्पालयित्रीं महीं देवीमेव ऋतस्य यज्ञस्य पत्नीं पालयत्रीं अवसे रक्षणार्थं सुहुवेम सुष्ठु आह्वयामः तुविक्षत्रां प्रवृद्धबलामेनां अजरन्तीं अनुपक्षयां उरूचीमुरुगमनां सुशर्माणं सुसुखां अदितिं अखण्डनीयां सुप्रणीतिं शोभनप्रणयनाम् । हति ॥

मूलम् (संयुक्तम्)

सु॒त्रामा॑णम् ।

विश्वास-प्रस्तुतिः

सु॒त्रामा॑णम् पृथि॒वीन् द्याम् अ॑ने॒हसँ॑
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ।
दैवी॒न्नावँ॑ स्वरि॒त्राम् अना॑गस॒म्
अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये॑ ॥

मूलम्

सु॒त्रामा॑णम् पृथि॒वीन् द्याम् अ॑ने॒हसँ॑
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ।
दैवी॒न्नावँ॑ स्वरि॒त्राम् अना॑गस॒म्
अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये॑ ॥

भट्टभास्कर-टीका

7अथ द्वितीया - सुत्रामाणं सुष्ठु त्रायर्न्ती पृथिवीं द्यां दीपितवतीं अनेहसं अपापाम् । सुशर्माणमित्यादि । गतम् । दैवीं नावं स्वरित्रां अनागसं अनवद्यां अस्रवन्तीं अच्छिद्रामारुहेम स्वस्तये अविनाशायेति ॥

मूलम् (संयुक्तम्)

इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॑ ॥ 48 ॥

विश्वास-प्रस्तुतिः

इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ॥ 48 ॥

मूलम्

इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ॥ 48 ॥

भट्टभास्कर-टीका

8उत्सृष्टे चतुर्षु पत्सु चतस्र आहुतीर्जुहोति - इह धृतिरित्यादि ॥ व्याख्यातम् +++(सम्पादकटिप्पनी- प्रथमकाण्डे, द्वादशेऽनुवाके चतुर्थे मन्त्रे)+++ ॥

  • सायमश्वस्य पत्सु चतस्रो धृतीर्जुहोति - इह धृतिरित्यादि ॥ इहास्मिन् पादे धृतिर्धारणं तृप्तिर्वाऽस्तु । इह विधृतिः विद्यापुत्रादिसंपत्प्रभवा धृतिरस्तु । रन्तिः रतिसाधनभूता गवादयः सन्तु । ‘क्तिच्क्तौ च’ इति क्तिच् ‘न क्तिचि दीर्घश्च’ इति नलोपाभावः । इह रमतिः इह रमणमस्तु । रमतेरौणादिकोतिप्रत्ययः, उभयत्र वृषादित्वादाद्युदात्तत्वम् ॥

इति सप्तमे प्रथमे अष्टादशोनुवाकः ॥