१६ (पूर्वदीक्षाहोमाः )उत्तरस्तोत्रियमन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 45 ॥

विश्वास-प्रस्तुतिः

अ॒ग्नये॒ स्वाहा॑ । सोमा॑य॒ स्वाहा॑ । स॒वि॒त्रेे स्वाहा॑ ।
सर॑स्वत्यै॒ स्वाहा॑ । पू॒ष्णे स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ ।
अ॒पाम्मोदा॑य॒ स्वाहा॑ । वा॒यवे॒ स्वाहा॑ ।
मि॒त्राय॒ स्वाहा॑ । वरु॑णाय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥

मूलम्

भट्टभास्कर-टीका

1अथोत्तरस्तोत्रीयाः - अग्नये स्वाहेति ॥ स्पष्टाः । अत्र विशेषः - वाय्वपांमोदशब्दौ बृहस्पतिमित्रयोर्मध्ये द्रष्टव्यौ विपर्यस्तौ । इन्द्रस्य स्थाने पूषा भवति । पूर्वस्तोत्रियैः समानमन्यत् । उदात्तनिवृत्तिस्वरेण पूष्णो विभक्तेरुदात्तत्वम् । सर्वस्मै प्रजापत्यादये च ॥

इति सप्तमे प्रथमे षोडशोनुवाकः ॥