विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स्स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॑ प्र॒तीच्यै॑ दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यस्स्वाहा॑ऽवान्तरदि॒शाभ्य॒स्स्वाहा॒ समा॑भ्य॒स्स्वाहा॑ श॒रद्भ्य॒स्स्वाहा॑ऽहोरा॒त्रेभ्य॒स्स्वाहा॑ऽर्धमा॒सेभ्य॒स्स्वाहा॒ मासे॑भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा॑ सव्ँवत्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 44 ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । दि॒वे स्वाहा॑ ।
सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स्स्वाहा॑। प्राच्यै॑ दि॒शे स्वाहा॑।
दक्षि॑णायै दि॒शे स्वाहा॑ । प्र॒तीच्यै॑ दि॒शे स्वाहा॑ ।
उदी॑च्यै दि॒शे स्वाहा॑ । ऊ॒र्ध्वायै॑ दि॒शे स्वाहा॑ ।
दि॒ग्भ्यस्स्वाहा॑ । अ॒वा॒न्त॒र॒दि॒शाभ्य॒स्स्वाहा॑ ।
समा॑भ्य॒स्स्वाहा॑ । श॒रद्भ्य॒स्स्वाहा॑ ।
अ॒हो॒रा॒त्रेभ्य॒स्स्वाहा॑ । अ॒र्ध॒मा॒सेभ्य॒स्स्वाहा॑ ।
मासे॑भ्य॒स् स्वाहा॑ । ऋ॒तुभ्य॒स्स्वाहा॑ ।
सव्ँ॒व॒त्स॒राय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ 44 ॥
मूलम्

भट्टभास्कर-टीका
1अथ पूर्वा ऋतुदीक्षाः - पृथिव्यै स्वाहेत्यादि ॥ गताः । पृथिव्यास्स एव स्वरः । ‘ऊडिदम्’ इति दिवः । ‘सावेकाचः’ इति दिशः । दिग्भ्य इति सामान्येनोच्यते । अवान्तरदिशाः कोणाः । समाशरच्छब्दौ संवत्सरविशेषवचनौ । गतौ गतेरिष्यन्? वर्षवचनावित्येके । इह तु ताभ्यां तदवयवभूताः सूक्ष्मा यामघटिकानिमेषादयो गृह्यन्ते । सर्वस्मै यौ दिक्कालकार्यौ यौ च दिक्कालावनुक्तौ तस्मै सर्वस्मै स्वाहेति ॥
इति सप्तमे प्रथमे पञ्चदशोनुवाकः ॥