मूलम् (संयुक्तम्)
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पाम्मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 43 ॥
विश्वास-प्रस्तुतिः
अ॒ग्नये॒ स्वाहा॑ । सोमा॑य॒ स्वाहा॑ । वा॒यवे॒ स्वाहा॑ । अ॒पाम्मोदा॑य॒ स्वाहा॑ । स॒वि॒त्रे स्वाहा॑ । सर॑स्वत्यै॒ स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । मि॒त्राय॒ स्वाहा॑ । वरु॑णाय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ 43 ॥
मूलम्

भट्टभास्कर-टीका
1अथ पूर्वाश्वस्य स्तोत्रियाः - अग्नये स्वाहेत्यादि ॥ निगदसिद्धाः । अपां मोदः पर्जन्यः । सवित्रे ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । बृहस्पतये । सुट्स्वरावुक्तौ । सर्वस्मै अनुक्ताय प्रजापत्यादये । पूर्णाहुतिः । एवं सर्वत्र ॥
इति सप्तमे प्रथमे चतुर्दशोनुवाकः ॥