विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो॑द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ऽऽपला॑यिताय॒ स्वाहा॒ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ऽऽय॒ते स्वाहा॑ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]
विश्वास-प्रस्तुतिः
आय॑नाय॒ स्वाहा॑ ।
प्राय॑णाय॒ स्वाहा॑ । उ॒द्द्रा॒वाय॒ स्वाहाः॑। उद्द्रु॑ताय॒ स्वाहा॑ । शू॒का॒राय॒ स्वाहा॑ । शूकृ॑ताय॒ स्वाहा॑ ।
पला॑यिताय॒ स्वाहा॑ । आ॒पला॑यिताय॒ स्वाहा॑ । आ॒वल्ग॑ते॒ स्वाहा॑ । प॒रा॒वल्ग॑ते॒ स्वाहा॑ । आ॒य॒ते स्वाहा॑ । प्र॒य॒ते स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [42]
मूलम्
आय॑नाय॒ स्वाहा॑ ।
प्राय॑णाय॒ स्वाहा॑ । उ॒द्द्रा॒वाय॒ स्वाहाः॑। उद्द्रु॑ताय॒ स्वाहा॑ । शू॒का॒राय॒ स्वाहा॑ । शूकृ॑ताय॒ स्वाहा॑ ।
पला॑यिताय॒ स्वाहा॑ । आ॒पला॑यिताय॒ स्वाहा॑ । आ॒वल्ग॑ते॒ स्वाहा॑ । प॒रा॒वल्ग॑ते॒ स्वाहा॑ । आ॒य॒ते स्वाहा॑ । प्र॒य॒ते स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [42]
भट्टभास्कर-टीका
1अथ त्रयोदश ध्रुवा जुहोति - आयनाय स्वाहेत्यादि ॥ आयनमागमनम्, प्रायणं प्रकृष्टगमनम्, गमनारम्भो वा । उभयत्रापि कृदुऽत्तरपदप्रकृतिस्वरत्वम् । उद्द्रावः - उत्प्लुत्य गमनम् । ‘उदि श्रयति यौति’ इत्यादिना करणे घञ् । द्रवणहेतुः शक्तिविशेषः उद्द्रावः । थाथादिनोत्तरपदान्तोदात्तत्वम् । उद्द्रुतमुत्प्लुत्य गतिः । ‘गतिरन्तरः’ इत्यकर्मण्यपि व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । कर्मणोभिधानं वा । शूकारः उद्द्रवणहेतुरनुकरणशब्दः सादिना साधारणकाले यः क्रियते । कशाघातेन सहितश्शूत्कारः। तत्करणं शूकृतं ‘अनुकरणं चानिति परं’ इति गतित्वात्पूर्वत्र थाथादिस्वरः, उत्तरत्र गतिस्वरः । पलायितं शीघ्रगमनम् । ‘उपसर्गस्यायतौ’ इति लत्वम् । विकारत्वादनवग्रहः, पूर्ववद्गतिस्वरः । आपलायितं शीघ्रगमनम् । अनन्तरस्य गतेः प्रकतिस्वरत्वम् । आवल्गते आवल्गनं गतिविशेषः विक्रमणपर्यायः, तेन गतिविशेषेणागच्छते । परावल्गनेनापि गतिविशेषेणागच्छते । उभयत्रापि कृदुत्तरपदप्रकृतिस्वरत्वम् । जायते आयनकुशलाय । वर्तमानविवक्षायामेतेर्लट्, शत्रादेशः । ‘इणो यण्’ । प्रयते प्रयाणकुशलाय प्रकृष्टगमनकुशलाय । उभयत्रापि ‘शतुरनुमः’ इति चतुर्थ्या उदात्तत्वम् । सर्वस्मै अन्योपि यो गमनमकारोस्य दुर्निरूपः तस्मै सर्वस्मै स्वाहा । पूर्णाहुतिरियम् । ‘सर्वस्य सुपि’ इत्याद्युदात्तत्वम् ॥
इति सप्तमे प्रथमे त्रयोदशोनुवाकः ॥