- अश्वस्य कर्णे जपादिपूर्वकं तदुत्सर्जनम् विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा॑सि
विश्वास-प्रस्तुतिः
वि॒भूर्मा॒त्रा । प्र॒भूᳶ पि॒त्रा । अश्वो॑ऽसि । हयो॒ऽसि । अत्यो॑ऽसि। नरो॒ऽसि । अर्वा॑सि ।
सप्ति॑रसि । वा॒ज्य॑सि । वृषा॑सि । नृ॒मणा॑ असि ।
ययु॒र्नामा॑सि ।
मूलम्
वि॒भूर्मा॒त्रा । प्र॒भूᳶ पि॒त्रा । अश्वो॑ऽसि । हयो॒ऽसि । अत्यो॑ऽसि। नरो॒ऽसि । अर्वा॑सि ।
सप्ति॑रसि । वा॒ज्य॑सि । वृषा॑सि । नृ॒मणा॑ असि ।
ययु॒र्नामा॑सि ।
भट्टभास्कर-टीका
1अश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयति - विभूरित्यादि ॥ धारणान्माता पृथिवी । तत्र वृष्ट्या प्रजा उत्पादयतीति पिता द्यौः । ब्राह्मणं च भवति ‘इयं वै माता । असौ पिता’ इति । तत्र मात्रा पृथिव्या त्वं विभूरसि विशेषण भवसि विशिष्टोसि । पित्रा दिवा च त्वं प्रभूरसि प्रकर्षेण भवसि प्रकृष्टोसि । ‘उदात्तयणः’ इति तृतीयाया उदात्तत्वम् । अश्वः व्यापकोसि अध्वनाम् । हयः क्रमणवानसि । हय गतिक्रान्त्योः । पचाद्यजन्तः, वृषादित्वादाद्युदात्तत्वम् । अत्यः सातत्येन गन्तुं समर्थोसि । अततेः ‘कृत्यल्युटो बहुलम्’ इति कर्तरि यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । नरोसि कर्मणां नेताऽसि । नृ नये, पूर्ववदच्, स्वरश्च । अर्वा अरणकुशलोसि । अर्तेर्वनिप्, साप्तिः सर्वत्र समवेतोसि । षप समवाये, क्तिन् । वाजी वेगवानसि । वृषा वर्षिता सेक्ता वाऽसि । ‘कनिन्युवृषि’ इत्यादिना कनिन् । नृमणाः नृषु मना यस्य, नॄन् मन्यते उपकरोति, नृभिर्वा मन्यसे उपकुर्विति । ‘गतिकारकयोरपि’ इत्यसुन् ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम्, ‘पूर्वपदात्संज्ञयामगः’ इति णत्वम् । ययुः यानशलिः । ‘यो द्वे च’ इत्युप्रत्ययः । ययुरित्यश्वमेधयोग्योश्व इत्याहुः । ययुर्नाम त्वमसि । ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्'35 इति ॥
मूलम् (संयुक्तम्)
आदि॒त्याना॒म्पत्वान्वि॑ह्य्
विश्वास-प्रस्तुतिः
आ॒दि॒त्याना॒म् पत्वान्वि॑हि ।
मूलम्
आ॒दि॒त्याना॒म् पत्वान्वि॑हि ।
भट्टभास्कर-टीका
2उपतिष्ठते - आदित्यानामिति ॥ आदित्यानां यत्पत्व पतनं तदनुगच्छ शीघ्रं गच्छेति यावत् । यद्वा - आदित्यानां यत्पत्व मार्गः व्योम तदनु गच्छ ‘उर्वन्तरिक्षमन्विहि’ इति यावत् । पतेरौणादिको वनिप् ॥
मूलम् (संयुक्तम्)
अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्याँ॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॒ सर्वा॑भ्यो दे॒वेता॑भ्यः
विश्वास-प्रस्तुतिः
अ॒ग्नये॒ स्वाहा॑ ।
स्वाहे॑न्द्रा॒ग्निभ्या॑म् ।
स्वाहा॑ प्र॒जाप॑तये ।
स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ ।
स्वाहा॒ सर्वा॑भ्यो दे॒वेता॑भ्यः ।
मूलम्
अ॒ग्नये॒ स्वाहा॑ ।
स्वाहे॑न्द्रा॒ग्निभ्या॑म् ।
स्वाहा॑ प्र॒जाप॑तये ।
स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ ।
स्वाहा॒ सर्वा॑भ्यो दे॒वेता॑भ्यः ।
भट्टभास्कर-टीका
3पूर्वहोमात्पुरस्ताद्भागान् जुहोति पञ्च - अग्नये स्वाहेत्यादि ॥ प्रथमः उपरिष्टात्स्वाहाकारः । अन्ये पुरस्तात्स्वाहाकाराः । इन्द्राग्निशब्दे ‘नोत्तरपदेऽनुदात्तादौ’ इति देवताद्वन्द्वलक्षणस्य स्वरस्य प्रतिषेधः ॥
मूलम् (संयुक्तम्)
इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॒
विश्वास-प्रस्तुतिः
इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ।
मूलम्
इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ।
भट्टभास्कर-टीका
4सायमश्वस्य पत्सु चतस्रो धृतीर्जुहोति - इह धृतिरित्यादि ॥ इहास्मिन् पादे धृतिर्धारणं तृप्तिर्वाऽस्तु । इह विधृतिः विद्यापुत्रादिसंपत्प्रभवा धृतिरस्तु । रन्तिः रतिसाधनभूता गवादयः सन्तु । ‘क्तिच्क्तौ च’ इति क्तिच् ‘न क्तिचि दीर्घश्च’ इति नलोपाभावः । इह रमतिः इह रमणमस्तु । रमतेरौणादिकोतिप्रत्ययः, उभयत्र वृषादित्वादाद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यो॒
विश्वास-प्रस्तुतिः
भूर॑सि ।
मूलम्
भूर॑सि ।
भट्टभास्कर-टीका
5अश्वमुत्सृजति - भूरसीति ॥ भूः भावयिता त्वं विश्वस्यापि । ‘बहुलमन्यत्रापि’ इति णिलुक् ।
विश्वास-प्रस्तुतिः
भु॒वे त्वा॒ +++(उत्सृजामि)+++, भव्या॑य त्वा +++(उत्सृजामि)+++, भविष्य॒ते त्वा॒ +++(उत्सृजामि)+++, विश्वे॑भ्यस् त्वा भू॒तेेभ्यः॑ +++(उत्सृजामि)+++।
मूलम्
भु॒वे त्वा॒ +++(उत्सृजामि)+++, भव्या॑य त्वा +++(उत्सृजामि)+++, भविष्य॒ते त्वा॒ +++(उत्सृजामि)+++, विश्वे॑भ्यस् त्वा भू॒तेेभ्यः॑ +++(उत्सृजामि)+++।
भट्टभास्कर-टीका
तस्मात् भुवे यत्किंचिद्भूतमतिक्रान्तं वस्तु तदर्थं तद्भावनार्थं त्वामुत्सृजामीति । ‘भूतेऽपि दृश्यन्ते’ इत्यौणादिकः क्विप्, ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । भव्याय भवते वस्तुने । ‘भव्यगेय’ इति वर्तमाने यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । भविष्यते वस्तुने च त्वामुत्सृजामि । ‘शतुरनुमः’ इति चतुर्थ्या उदात्तत्वम् । किं बहुना - विश्वेभ्यस्त्वा भूतेभ्यस्त्वामुत्सृजामीति ॥
मूलम् (संयुक्तम्)
देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपायत ॥ [41]
विश्वास-प्रस्तुतिः
देवा॑ आशापाला, ए॒तन् दे॒वेभ्योऽश्व॒म् मेधा॑य॒ प्रोक्षि॑तङ् गोपायत ॥ [41]
मूलम्
देवा॑ आशापाला, ए॒तन् दे॒वेभ्योऽश्व॒म् मेधा॑य॒ प्रोक्षि॑तङ् गोपायत ॥ [41]
भट्टभास्कर-टीका
6अथैनं देवताभ्यो रक्षार्थं परिददाति - देवा इत्यादि ॥ हे देवा आशापाला दिशां गोप्तारः । ‘विभाषितं विशेषवचने बहुवचनम्’ इति पूर्वस्याविद्यमानवत्त्वाभावः । एवमश्वं मेधाय यज्ञायाभिप्रोक्षितं अत एव महार्घं एतमश्वं देवेभ्यो देवार्थं गोपायत रक्षत । ‘शतं वै तल्प्या राजपुत्रा देवा आशापालाः’ इति ब्राह्मणम् ॥
इति सप्तमे प्रथमे द्वादशोनुवाकः ॥