२ त्रिष्टुप् । विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒मा द॑द
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒मा द॑दे ।
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒मा द॑दे ।
भट्टभास्कर-टीका
1इत ऊर्ध्वमश्वमेधमन्त्राः । तत्र रशनामादत्ते - देवस्य त्वेति ॥ व्याख्यातं दर्शपूर्णमासयोः । देवस्य सवितुराज्ञां लब्ध्वा अश्विनोरेव बाहुभ्यां नात्मीयाभ्यां पूष्णा एव हस्ताभ्यां त्वामाददे ॥
मूलम् (संयुक्तम्)
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वास्सु॒तमा ब॑भूवुर्ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।
विश्वास-प्रस्तुतिः
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या ।
मूलम्
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या ।
भट्टभास्कर-टीका
2आदायाभिमन्त्रयते - इमामिति त्रिष्टुभा ॥ इयमपि अग्निकाण्डे व्याख्याता । ऋतस्य यज्ञस्य रशानां बन्धनीयां पूर्वे कव्याः कवयः । यद्वा - कवनीयेषु स्तोतव्येषु विदथेषु यज्ञेषु आयुरर्थमगृह्णन् गृहीतवन्तः ।
विश्वास-प्रस्तुतिः
तया॑ दे॒वास् सु॒तमा ब॑भूवुर् , ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।
मूलम्
तया॑ दे॒वास् सु॒तमा ब॑भूवुर् , ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।
भट्टभास्कर-टीका
या ऋतस्य यज्ञस्य सामन् साम्नि समाप्तौ सरं सरणं आरपन्ती अभिवदन्ती भवति । रपतिश्शब्दकर्मा । शीघ्रं मया यज्ञं संपादयतेति । तया हि देवास्सुतं सोममाबभूवुः आभिमुख्येन प्राप्नुवन् । तादृशीमिमां गृह्णामीति ॥
मूलम् (संयुक्तम्)
अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सो॑ऽग्निव्ँ वै॑श्वान॒रँ सप्र॑थसङ्गच्छ॒ स्वाहा॑कृतᳶ पृथि॒व्याय्ँय॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणᳶ॑
विश्वास-प्रस्तुतिः
अ॒भि॒धा अ॑सि । भुव॑नमसि । य॒न्तासि॑ । ध॒र्ताऽसि॑ ।
मूलम्
अ॒भि॒धा अ॑सि । भुव॑नमसि । य॒न्तासि॑ । ध॒र्ताऽसि॑ ।
भट्टभास्कर-टीका
3तया अश्वमभिदधाति - अभिधा असीति ॥ अभिपूर्वो दधातिः बन्धने वर्तते, कर्मणि क्विप्, । बन्धनीयस्त्वमसि । अत एव सर्वं भुवनं सर्वं भूतजातं च त्वमसि । यज्ञसाधनत्वेन सर्वेषां धारकत्वात् । यन्ता यमयिता चासि सर्वस्य । अत एव धर्ता धारयिता चासि लोकस्य ।
विश्वास-प्रस्तुतिः
सो॑ऽग्निव्ँ वै॑श्वान॒रँ सप्र॑थसङ्गच्छ॒ स्वाहा॑कृतः ।
मूलम्
सो॑ऽग्निव्ँ वै॑श्वान॒रँ सप्र॑थसङ्गच्छ॒ स्वाहा॑कृतः ।
भट्टभास्कर-टीका
स त्वं वैश्वानरं विश्वेषां नराणां स्वामित्वेन संबन्धिनं सप्रथसं प्रथसा विस्तरेण सहितं विश्वव्यापिनं अग्निं गच्छ । ‘इयं वा अग्निर्वैश्वानरः’ । स्वाहाकृतः स्वाहाकारेण संस्कृतः स्वाहाकारोच्चारणेन संस्कृतः । ब्राह्मणं च ‘स्वाहाकृत इत्याह । होम एवास्यैषः ।’ इति । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । निपाता आद्युदात्ताः ।
विश्वास-प्रस्तुतिः
पृ॒थि॒व्याय्ँ य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो, ध॒र्तासि॑ ध॒रुणः॑ ॥
मूलम्
पृ॒थि॒व्याय्ँ य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो, ध॒र्तासि॑ ध॒रुणः॑ ॥
भट्टभास्कर-टीका
किञ्च - त्वमेव हि यन्ता नियन्ता मनुष्यादीनाम् । राट् दीप्यमानश्च पृथिव्यां अस्यामसि । अथ द्वितीयस्यामपि पृथिव्यां अन्तरिक्षे यन्ता नियन्ता ग्रहनक्षत्रादीनां च त्वमेवासि । यमनः यमसाधनभूतश्चासि । अथ तृतीयस्यामपि पृथिव्यां दिवि धर्ता धारयिता देवानां त्वमेवासि । धरुणो धारणशीलश्च त्वमेवासि । औणादिक उनप्रत्ययः । पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते यथा - ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति ॥
मूलम् (संयुक्तम्)
कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस् त्वौष॑धीभ्यस् त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यः॑ ॥ [40]
विश्वास-प्रस्तुतिः
कृ॒ष्यै त्वा॒ +++(प्रोक्षामि)+++, क्षेमा॑य त्वा +++(प्रोक्षामि)+++, र॒य्यै त्वा॒ +++(प्रोक्षामि)+++, पोषा॑य त्वा +++(प्रोक्षामि)+++,
पृथि॒व्यै त्वा॒ +++(प्रोक्षामि)+++, ऽन्तरि॑क्षाय त्वा +++(प्रोक्षामि)+++,
दि॒वे त्वा॑ +++(प्रोक्षामि)+++, स॒ते त्वा +++(प्रोक्षामि)+++, ऽस॑ते त्वा॒ +++(प्रोक्षामि)+++,
ऽद्भ्यस् त्वौष॑धीभ्यस् त्वा॒ +++(प्रोक्षामि)+++, विश्वे॑भ्यस् त्वा भू॒तेभ्यः॑ +++(प्रोक्षामि)+++॥ [40]

4अथैनमभिप्रोक्षणेन प्रोक्षति - कृष्यै त्वेत्यादि ॥ कृष्याद्यर्थं त्वां प्रोक्षामीति । ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम्, ‘ऊडिदम्’ इति दिवः, अद्भ्यश्च । ‘शतुरनुमः’ इति सतः । ‘ओषधेश्च विभक्तावप्रथमायाम्’ इति ओषधिशब्दस्य संहितायां दीर्घत्वम् ॥
इति सप्तमे प्रथमे एकादशोनुवाकः ॥