विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
सव्ँ॒व॒त्स॒रो वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत॒र्तून्त्सृ॑जे॒येति॒ स ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वा इ॒दमेक॑ आसीत् ।
मूलम्
सव्ँ॒व॒त्स॒रो वा इ॒दमेक॑ आसीत् ।
भट्टभास्कर-टीका
1अथ पञ्च पञ्चरात्रा भवन्ति - संवत्सराख्यः प्रथमः’ अभ्यासंग्यो द्वितीयः, उपशारद स्तृतीयः, अन्तर्महाव्रतश्चतुर्थः, पुरुषमेधः पञ्चमः । तत्र प्रथमो विधीयते - संवत्सरो वा इत्यादि ॥ इतरे त्वभ्यासंग्यादयः पञ्चरात्राश्शाखान्तरे द्रष्टव्याः । यदिदं दृश्यमानं ऋतुमासनक्षत्रादि, एतदात्माऽयं संवत्सरः पूर्वमेकरूपः ऋत्वादिविभागरहितः आसीत् ।
विश्वास-प्रस्तुतिः
सो॑ऽकामयत - ऋ॒तून्त् सृ॑जेयेति॑ ।
मूलम्
सो॑ऽकामयत - ऋ॒तून्त् सृ॑जेयेति॑ ।
भट्टभास्कर-टीका
सोकमायत ऋत्वादीन् सृजेयेति । यद्वा - ऋतूंस्तावत्सृजेय ततश्च स्वयमेव मासादयो भविष्यन्तीति ।
विश्वास-प्रस्तुतिः
स ए॒तम् प॑ञ्चरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै स ऋ॒तून॑सृजत ।
मूलम्
स ए॒तम् प॑ञ्चरा॒त्रम॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै स ऋ॒तून॑सृजत ।
भट्टभास्कर-टीका
स एतमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते, प्रैव जा॑यते ।
मूलम्
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते, प्रैव जा॑यते ।
भट्टभास्कर-टीका
एवं विद्वान् प्रजायते प्रजावान्भवतीति ॥
मूलम् (संयुक्तम्)
त ऋ॒तव॑स्सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त [36]
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते ।
विश्वास-प्रस्तुतिः
त ऋ॒तव॑स् सृ॒ष्टा न व्याव॑र्तन्त ।
मूलम्
त ऋ॒तव॑स् सृ॒ष्टा न व्याव॑र्तन्त ।
भट्टभास्कर-टीका
2त ऋतव इत्यादि ॥ न व्यावर्तन्त विभक्तस्वभावभाजो नाभवन् एकरूपा एव सर्वेऽप्यृतवोभवन् । उक्तौ निघातसमासौ ।
विश्वास-प्रस्तुतिः
त ए॒तम् प॑ञ्चरा॒त्रम् अ॑पश्यन् ।
तमाह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै ते व्याव॑र्तन्त ।[36]
+++(सम्पादकटिप्पनी - व्याख्यानम् अन्यत्र मृग्यम्।)+++ ।
मूलम्
त ए॒तम् प॑ञ्चरा॒त्रम् अ॑पश्यन् ।
तमाह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै ते व्याव॑र्तन्त ।[36]
+++(सम्पादकटिप्पनी - व्याख्यानम् अन्यत्र मृग्यम्।)+++ ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ , वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते ।
मूलम्
य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ , वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते ।
भट्टभास्कर-टीका
एवं विद्वान् पाप्मना भ्रातृव्येण च व्यावर्तते तद्रहित एव भवति ॥
मूलम् (संयुक्तम्)
सार्व॑सेनिश्शौचे॒यो॑ऽकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॒द्य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म्प॒शूना॑प्नोति ।
विश्वास-प्रस्तुतिः
सार्व॑सेनिश् शौचे॒यो॑ऽकामयत - “पशु॒मान्त्स्या॒म्” इति॑ ।
मूलम्
सार्व॑सेनिश् शौचे॒यो॑ऽकामयत - “पशु॒मान्त्स्या॒म्” इति॑ ।
भट्टभास्कर-टीका
3सार्वसेनिरित्यादि ॥ सर्वसेनः पिता तस्यापत्यं सार्वसेनिः । ‘अत इञ्’ । शुचिर्माता तस्या अपत्यम्, ‘इतश्चानिञः’ इति ढक् । पशुमान्स्यामित्यकामयत ।
विश्वास-प्रस्तुतिः
स ए॒तम् प॑ञ्चरा॒त्रमाह॑रत् ।
तेना॑यजत । ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॑त् ।
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ ,
प्र स॒हस्र॑म् प॒शूना॑प्नोति ।
मूलम्
स ए॒तम् प॑ञ्चरा॒त्रमाह॑रत् ।
तेना॑यजत । ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॑त् ।
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ ,
प्र स॒हस्र॑म् प॒शूना॑प्नोति ।
भट्टभास्कर-टीका
गतमन्यत् ॥ +++(सम्पादकटिप्पनी - व्याख्यानम् अन्यत्र मृग्यम्।)+++ ।
मूलम् (संयुक्तम्)
बब॒रᳶ प्रावा॑हणिरकामयत वा॒चᳶ प्र॑वदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा [37] अ॒ह॒र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चᳶ प्र॑वदि॒ताभ॑व॒द्य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनव्ँवा॒चस्पति॒रित्या॑हुः ।
विश्वास-प्रस्तुतिः
ब॒ब॒रᳶ प्रावा॑हणिरकामयत - “वा॒चᳶ प्र॑वदि॒ता स्या॒म्” इति॑ ।
मूलम्
ब॒ब॒रᳶ प्रावा॑हणिरकामयत - “वा॒चᳶ प्र॑वदि॒ता स्या॒म्” इति॑ ।
भट्टभास्कर-टीका
4बबर इत्यादि ॥ प्रावाहाणिः प्रवाहणस्यापत्यं बबरो नामाकामयत । वाचः कृत्स्नायाः श्रुतिस्मृतिरूपायाः प्रवदिता प्रवक्ता व्याख्याता स्यामिति ।
विश्वास-प्रस्तुतिः
स ए॒तम् प॑ञ्चरा॒त्रमाह॑रत् [37] ।
तेना॑यजत ।
ततो॒ वै स वा॒चᳶ प्र॑वदि॒ताभ॑वद् ।
य ए॒वव्ँ वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते ,
प्रवदि॒तैव वा॒चो भ॑वति ।
मूलम्
स ए॒तम् प॑ञ्चरा॒त्रमाह॑रत् [37] ।
तेना॑यजत ।
ततो॒ वै स वा॒चᳶ प्र॑वदि॒ताभ॑वद् ।
य ए॒वव्ँ वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते ,
प्रवदि॒तैव वा॒चो भ॑वति ।
विश्वास-प्रस्तुतिः
अथो॑ एनव्ँ वा॒चस्पति॒रित्या॑हुः ।
मूलम्
अथो॑ एनव्ँ वा॒चस्पति॒रित्या॑हुः ।
भट्टभास्कर-टीका
अथो इति । अपि चैनं वाचस्पतिरित्याहुः वाचः प्रभवितेत्याहुः वाचः प्रभुत्वेन लोके ख्यातिं गच्छति । उक्तौ स्वरसमासौ ॥
मूलम् (संयुक्तम्)
अना॑प्तश्चतूरा॒त्रोऽति॑रिक्तष्षड्रा॒त्रोऽथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः [38]
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
अना॑प्तश्चतूरा॒त्रो, ऽति॑रिक्तष् षड्रा॒त्रः ।
मूलम्
अना॑प्तश्चतूरा॒त्रो, ऽति॑रिक्तष् षड्रा॒त्रः ।
भट्टभास्कर-टीका
5अनाप्त इत्यादि ॥ अत्रैव वक्ष्यते ‘पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः’ इति । तेनाभिप्रायेणेदमुच्यते । तत्पाङ्क्तं यज्ञस्वरूपं, अनाप्तः चतूरात्रः ऊनत्वादप्राप्तः । षड्रात्रस्तु पाङ्क्तस्वरूपमतिरिक्तः अतिक्रम्य वर्तते अधिकत्वात् ।
विश्वास-प्रस्तुतिः
अथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रः ।
मूलम्
अथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रः ।
भट्टभास्कर-टीका
अथेदानीमेव पञ्चरात्रः संप्रति यज्ञः, अन्यूनानतिरिक्तपाङ्क्तस्वरूपवान्यज्ञः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते,
सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते ।
प॒ञ्च॒रा॒त्रो भ॑वति ।
मूलम्
य ए॒वव्ँ वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते,
सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते ।
प॒ञ्च॒रा॒त्रो भ॑वति ।
भट्टभास्कर-टीका
प्रतिप्रत्या संगतं संप्रति, तिष्ठद्गुप्रभृतित्वादव्ययीभावः, निरुदकादिर्द्रष्टव्यः । संप्रत्येवेति । अन्यूनानतिरिक्तयज्ञस्वरूपवतेत्यर्थः ।
विश्वास-प्रस्तुतिः
पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः ।[38]
मूलम्
पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः ।[38]
भट्टभास्कर-टीका
पञ्च वा ऋतव इति । हेमन्तशिशिरयोरेकत्वाभिप्रायमिदम् ।
विश्वास-प्रस्तुतिः
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठति ।
मूलम्
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
ऋत्वात्मनि संवत्सरे प्रतिष्ठितो भवति पञ्चसंख्यान्वयात् ।
विश्वास-प्रस्तुतिः
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञो, य॒ज्ञमे॒वाव॑ रुन्धे ।
मूलम्
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञो, य॒ज्ञमे॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
अथो अपि च पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः पङ्क्तिप्रभवत्वाद्धानादिपञ्चकप्रभवत्वाद्वा । उत्सादित्वादञ् ॥
मूलम् (संयुक्तम्)
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [39]
विश्वास-प्रस्तुतिः
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒, तेज॑ ए॒वाव॑ रुन्द्धे ।
मूलम्
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒, तेज॑ ए॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
6त्रिवृदित्यादि ॥ त्रिवृदग्निष्टोमः प्रथममहर्भवति तेजोवरुद्ध्यै तद्भवति त्रिवृता सहोत्पन्नत्वात् ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒द॒शो भ॑वति॒ , इन्द्रि॒यमे॒वाव रुन्द्धे ।
मूलम्
प॒ञ्च॒द॒शो भ॑वति॒ , इन्द्रि॒यमे॒वाव रुन्द्धे ।
भट्टभास्कर-टीका
पञ्चदशो द्वितीयमहः उक्थ्यः इन्द्रियस्यावरुद्ध्यै, इन्द्रियेण सहोत्पन्नत्वात् ।
विश्वास-प्रस्तुतिः
स॒प्त॒द॒शो भ॑वति॒ , अ॒न्नाद्य॒स्याव॑रुध्यै ।
मूलम्
स॒प्त॒द॒शो भ॑वति॒ , अ॒न्नाद्य॒स्याव॑रुध्यै ।
भट्टभास्कर-टीका
सप्तदशस्तृतीयमहः अन्नाद्यस्यावरुद्ध्यै, अनयोरन्नस्थाने उत्पन्नत्वात् ।
विश्वास-प्रस्तुतिः
अथो॒ प्रैव तेन॑ जायते ।
मूलम्
अथो॒ प्रैव तेन॑ जायते ।
भट्टभास्कर-टीका
अथो अपि च तेन सप्तदशेनाह्ना प्रजायते तस्य प्रजाहेतुत्वात् ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒विँ॒शो॑ ऽग्निष्टो॒मो भ॑वति, प्र॒जाप॑ते॒राप्त्यै॑ । म॒हा॒व्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
प॒ञ्च॒विँ॒शो॑ ऽग्निष्टो॒मो भ॑वति, प्र॒जाप॑ते॒राप्त्यै॑ । म॒हा॒व्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
पञ्चविंशोग्नि- ष्टोमः चतुर्थमहः प्रजापतेराप्त्यै प्रजापतेः पञ्चविंशतित्वात् । महाव्रतवानयं भवति अह्नोसंभवात् । महाव्रतधर्मवान् तदीयस्तोत्रवानित्यन्ये । अन्नाद्यस्यावरुद्धयै, तस्यान्नहेतुत्वात् । यथोक्तं महाव्रते ‘तदन्नं पञ्चविंशमभवत्’ इति ।
विश्वास-प्रस्तुतिः
वि॒श्व॒जित्सर्व॑पृष्ठो ऽतिरा॒त्रो भ॑वति॒ , सर्व॑स्या॒भिजि॑त्यै ॥ [39]
मूलम्
वि॒श्व॒जित्सर्व॑पृष्ठो ऽतिरा॒त्रो भ॑वति॒ , सर्व॑स्या॒भिजि॑त्यै ॥ [39]
भट्टभास्कर-टीका
विश्वजित् सर्वपृष्ठोतिरात्र पञ्चममहः । विश्वजित् सहस्रदक्षिणत्वादिधर्मः सर्वपृष्ठः रथन्तरबृहद्वैरूपवैराजशाक्वररैवतपृष्ठः सर्वस्याभिजयार्थं भवति । सर्वपृष्ठः ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । त्रिवृदादयो निरुक्ताः ॥
इति सप्तमे प्रथमे दशमोनुवाकः ॥