०९ चतूरात्रस्य जामदग्न्यस्य विधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

ज॒मद॑ग्नि॒ᳶ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषाँ॑ अपुष्य॒त्तस्मा॑त्पलि॒तौ जाम॑दग्नियौ॒ न सञ्जा॑नाते ए॒ताने॒व पोषा॑न्पुष्यति॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते

विश्वास-प्रस्तुतिः

ज॒मद॑ग्नि॒ᳶ पुष्टि॑कामश् चतूरा॒त्रेणा॑यजत ।

मूलम्

ज॒मद॑ग्नि॒ᳶ पुष्टि॑कामश् चतूरा॒त्रेणा॑यजत ।

भट्टभास्कर-टीका

1अथ जामदग्न्यं चतूरात्रं विधातुमाह - इतरौ तु वसिष्ठसंसर्पविश्वामित्रसंजयाख्यौ चतूरात्रौ शाखान्तरे द्रष्टव्यौ । जमदग्निरित्यादि । पुष्टिकामः अन्नपशुपुत्रादिवृद्धिकामश्चतूरात्रेणायजत । चतुर्णामह्नां समाहारश्चतूरात्रः । ‘अहस्सर्वैकदेश’ इत्यादिनाऽच्समासान्तः ।

विश्वास-प्रस्तुतिः

स ए॒तान्पोषाँ॑ अपुष्यत् ।

मूलम्

स ए॒तान्पोषाँ॑ अपुष्यत् ।

भट्टभास्कर-टीका

तत एतान्पोषानपुष्यत् । सामान्यपुष्टेर्विशेषपुष्टिः कर्मेत्युक्तम् ।

विश्वास-प्रस्तुतिः

तस्मा॑त् पलि॒तौ जाम॑दग्नियौ॒ न सञ्जा॑नाते ।

मूलम्

तस्मा॑त् पलि॒तौ जाम॑दग्नियौ॒ न सञ्जा॑नाते ।

भट्टभास्कर-टीका

तस्मादित्यादि । अवधारणमत्र द्रष्टव्यम् । पलितावेव केवलमिति महापुष्टिरहितौ वृधैव पलितावस्थां प्राप्तौ दरिद्रौ जामदग्न्यौ । पितापुत्रौ न संजानाते अद्यत्वेऽपि न जायेते; समासादिताशेषपुष्टेः जमदग्नेरन्वये जातत्वात्, सर्वेषां सुपुष्टत्वात् । जनेर्व्यत्ययेन श्ना । यद्वा - जानातेरेव कर्मणि लट्, व्यत्ययेन श्ना । तादृशौ न ज्ञायेते, न स्त एवेति यावत् । यद्वा - ‘संप्रतिभ्यां’ इत्यात्मनेपदम् । वृधा पलितात्मानौ जामदग्न्यौ न संजानाते न प्रतिजानीते । अस्त्वेकः पुष्टिरहितः तथाऽपि आनन्तर्येण द्वौ दरिद्रौ न स्त इति ख्यापनार्थं द्वयोरुपादानम् । जमदग्निशब्दो गर्गादिः ।

विश्वास-प्रस्तुतिः

ए॒ताने॒व पोषा॑न् पुष्यति॒ , य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ।

मूलम्

ए॒ताने॒व पोषा॑न् पुष्यति॒ , य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ।

भट्टभास्कर-टीका

एतानेवेत्यादि । विदुषः ॥

मूलम् (संयुक्तम्)

पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशᳶ॑ प॒शूने॒वाव॑ रु॒न्द्धेऽन्नव्ँ॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्द्धेऽन्ना॒दᳶ प॑शु॒मान्भ॑वति॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ॥ [35]

विश्वास-प्रस्तुतिः

पु॒रो॒डा॒शिन्य॑ उप॒सदो॑ भवन्ति ।

मूलम्

पु॒रो॒डा॒शिन्य॑ उप॒सदो॑ भवन्ति ।

भट्टभास्कर-टीका

2पुरोडाशिन्य इत्यादि ॥ अत्रोक्तमाचार्येण - ‘आग्नेय एककपालः आश्विनो द्विकपालः वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रष्षट्कपालः मारुतस्सप्तकपालः बार्हस्पत्योष्टाकपालः मैत्रो नवकपालो वारुणो दशकपाल ऐन्द्वाग्न एकादशकपालो वैश्वदेवो द्वादशकपालो दर्विहोमा भवन्ति’ इति । एवमौत्तर्ययुक्ता द्वादशोपसदो भवन्तीति ।

विश्वास-प्रस्तुतिः

प॒शवो॒ वै पु॑रोडाशः॑ । प॒शूने॒वाव॑ रुन्धे ।
अन्नव्ँ॒ वै पु॑रो॒डाशः । अन्न॑मे॒वाव॑ रुन्धे ।
अ॒न्ना॒दᳶ प॑शु॒मान् भ॑वति , य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ॥ [35]

मूलम्

प॒शवो॒ वै पु॑रोडाशः॑ । प॒शूने॒वाव॑ रुन्धे ।
अन्नव्ँ॒ वै पु॑रो॒डाशः । अन्न॑मे॒वाव॑ रुन्धे ।
अ॒न्ना॒दᳶ प॑शु॒मान् भ॑वति , य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ॥ [35]

भट्टभास्कर-टीका

पशवो वा इत्यादि । गतम् ॥ +++(सम्पादकटिप्पनी - व्याख्यानम् अन्यत्र मृग्यम्।)+++ ।

इति सप्तमे प्रथमे नवमोनुवाकः ॥