०८ चतूरात्रस्य आत्रेयस्य विधिः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

अत्रि॑रददा॒दौर्वा॑य प्र॒जाम्पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी॑र्यश्शिथि॒लो या॒तया॑मा ।

विश्वास-प्रस्तुतिः

अत्रि॑र् अददा॒द् और्वा॑य प्र॒जाम् पु॒त्रका॑माय ।

मूलम्

अत्रि॑र् अददा॒द् और्वा॑य प्र॒जाम् पु॒त्रका॑माय ।

भट्टभास्कर-टीका

1अथ चत्वारश्चतूरात्रा भवन्ति आत्रेयजामदग्न्यवसिष्ठसंसर्प विश्वामित्रसंजयाख्याः । तत्रात्रेयाश्च षष्ठोमाचतुरा[ …याश्चतुर्वीरषोडशिमच्चतु- र्था]दिनामानः चत्वारश्चतूरात्राः । जामदग्न्यादीनां त्रयाणां चैक इति । तत्रात्रेयचतूरात्रेषु चतुर्षु प्रथमम् चतुर्वीराख्यं चतूरात्रं विधातुमाह - अत्रिरददादित्यादि ॥ ऊर्वपुत्रः और्वः । ‘अनृष्यानन्तर्ये’ इति विदादित्वादञ् । तस्मै और्वाय पुत्रकामायात्मीयां प्रजामपत्यत्वेनाददात् । पुत्रं कामयत इति ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ।

विश्वास-प्रस्तुतिः

स रि॑रिचा॒नो॑ऽमन्यत , “निर्वी॑र्यश् शिथि॒लो या॒तया॑मा” ।

मूलम्

स रि॑रिचा॒नो॑ऽमन्यत , “निर्वी॑र्यश् शिथि॒लो या॒तया॑मा” ।

भट्टभास्कर-टीका

अथ स रिरिचानः रिच्यमानः प्रजारहितः इत्थममन्यत - निर्वीर्यः प्रजोत्पादनसामर्थ्यरहितोस्मि, शिथिलः कार्याक्षमः यातयामा गतसारश्चास्मि ॥

मूलम् (संयुक्तम्)

स ए॒तञ्च॑तूरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स्सुस॑भेयो॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स्सुस॑भेयो॒

विश्वास-प्रस्तुतिः

स ए॒तञ् च॑तूरा॒त्रम् अ॑पश्यत् ।

मूलम्

स ए॒तञ् च॑तूरा॒त्रम् अ॑पश्यत् ।

भट्टभास्कर-टीका

2स एतं चतूरात्रमित्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

तमाह॑र॒त् । तेना॑यजत ।

मूलम्

तमाह॑र॒त् । तेना॑यजत ।

भट्टभास्कर-टीका

आहरत् आहरत । तेनायजत तेन कर्मणा देवानपूजयत् ।

विश्वास-प्रस्तुतिः

ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ ,

मूलम्

ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ ,

भट्टभास्कर-टीका

ततस्तस्यात्रेः चत्वारो वीरा आजायन्त, आङाभिमुख्ये मर्यादायां वा ।

विश्वास-प्रस्तुतिः

सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।

मूलम्

सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।

भट्टभास्कर-टीका

सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । शोभनत्वं च होत्रादीनां आत्मीयसमस्तवेदव्याख्यानकुशलत्वम् । सभायां साधुस्सभेयः, ‘छन्दसि’ इति डः । सर्वयज्ञप्रयोगवित् सुसभेयस्सदस्य इत्येते । सर्वत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । द्वितीये ‘स्वरितो वा नुदात्ते पदादौ’ इत्येकादेशस्स्वर्यते, तृतीये ‘उदात्तस्वरितयोर्यणः’ इत्यादिना ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑त॒ , आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ , सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।

मूलम्

य ए॒वव्ँ वि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑त॒ , आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ , सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।

भट्टभास्कर-टीका

य एवमित्वादि । गतम् ॥

मूलम् (संयुक्तम्)

ये च॑तुर्विँ॒शाᳶ पव॑माना ब्रह्मवर्च॒सन्तत् [33]
य उ॒द्यन्त॒स्स्तोमा॒श्श्रीस्सा

विश्वास-प्रस्तुतिः

ये च॑तुर्विँ॒शाᳶ पव॑माना ब्रह्मवर्च॒सन् तत् । [33]

मूलम्

ये च॑तुर्विँ॒शाᳶ पव॑माना ब्रह्मवर्च॒सन् तत् । [33]

भट्टभास्कर-टीका

3ये चतुर्विंशा इत्यादि ॥ चतुर्विंशस्तोत्रियास्त्रयोपि पवमानाबहिष्पवमानादयो भवन्ति ब्रह्मवर्चसं तत् गायत्रसामान्यात् । चतुर्विंशस्य ‘चतुर्विंशत्यक्षरा गायत्री’ इति कृत्वा, तद्धेतुत्वात्ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

य उ॒द्यन्त॒स् स्तोमा॒श् श्रीस् सा ।

मूलम्

य उ॒द्यन्त॒स् स्तोमा॒श् श्रीस् सा ।

भट्टभास्कर-टीका

य उद्यन्तस्स्तोमा भवन्ति उत्तरोत्तरमहीयांसः यथा - त्रिवृत्प्रथममहः, पञ्चदशो द्वितीयः, सप्तदशस्तृतीयः, एकविंशश्चतुर्थ इति सा स्वयं श्रीः । पूर्ववत्ताच्छब्द्यम् । त्रिवृत्प्रथमस्याह्नः प्रातस्सवनम्, पञ्चदशं माध्यन्दिनं सवनम्, सप्तदशं तृतीयं सवनम्, अथ द्वितीयस्याह्नः पञ्चदशं प्रातस्सवनं, सप्तदशं माध्यन्दिनं सवनम् । एकविंशं तृतीयसवनम् । अथ तृतीयस्याह्नस्सप्तदशं प्रातस्सवनम्, एकविंशं माध्यन्दिनं सवनं, त्रिणवं तृतीयसवनम् । चतुर्थस्याह्नः एकविंशं प्रातस्सवनम्, त्रिणव माध्यन्दिनं’ सवनम्, त्रयस्त्रिंशं तृतीयसवनम्, एवमुद्यन्तस्स्तोमाः श्रीरिति ॥

मूलम् (संयुक्तम्)

अत्रिँ॑ श्र॒द्धादे॑वय्ँ॒यज॑मानञ्च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॒न्नाद्यँ॒ स ए॒ताँश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्धेन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒न्नाद्य॑ञ्चतु॒र्थेन॒

विश्वास-प्रस्तुतिः

अत्रिँ॑ श्र॒द्धादे॑वय्ँ॒ यज॑मानञ् च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नमन् - तेज॑ इन्द्रि॒यम् ब्र॑ह्मवर्च॒सम् अ॒न्नाद्य॑म् ।

मूलम्

अत्रिँ॑ श्र॒द्धादे॑वय्ँ॒ यज॑मानञ् च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नमन् - तेज॑ इन्द्रि॒यम् ब्र॑ह्मवर्च॒सम् अ॒न्नाद्य॑म् ।

भट्टभास्कर-टीका

4अत्रिमित्यादि ॥ श्रद्धादेवं श्रद्धाप्रधानं वीर्याणि वीर्यहेतुभूतानि तेजः प्रभृतीनि नोपानमन् नोपागच्छत् ।

विश्वास-प्रस्तुतिः

स ए॒ताँश्च॒तुर॒श् चतु॑ष्टोमा॒न्त्सोमा॑न् अपश्यत् ।
तानाह॑रत् । तैर॑यजत ।

मूलम्

स ए॒ताँश्च॒तुर॒श् चतु॑ष्टोमा॒न्त्सोमा॑न् अपश्यत् ।
तानाह॑रत् । तैर॑यजत ।

भट्टभास्कर-टीका

सोत्रिः एतान् चतुरश्चतुष्टोमान् त्रिवृदादिस्तोमकान् स्तोमान् चतूरात्रानपश्यत्, तानाहरत् तैश्चायजत ।

विश्वास-प्रस्तुतिः

तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्ध, इ॒न्द्रि॒यन् द्वि॒तीये॑न , ब्रह्मवर्च॒सन् तृ॒तीये॑न अ॒न्नाद्य॑ञ् चतु॒र्थेन॑ ।

मूलम्

तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्ध, इ॒न्द्रि॒यन् द्वि॒तीये॑न , ब्रह्मवर्च॒सन् तृ॒तीये॑न अ॒न्नाद्य॑ञ् चतु॒र्थेन॑ ।

भट्टभास्कर-टीका

तत्र प्रथमेन चतूरात्रेण तेजोवरुन्धे, इन्द्रियादीनि च द्वितीयादिभिश्चतूरात्रैः ॥

मूलम् (संयुक्तम्)

य ए॒वव्ँवि॒द्वाँश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध इन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒न्नाद्य॑ञ्चतु॒र्थेन॒ यामे॒वात्रि॒र्ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति ॥ [34]

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँश्च॒तुर॒श् चतु॑ष्टोमा॒न्त् सोमा॑न् आ॒हर॑ति॒ , तैर्यज॑ते॒ ,
तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध , इन्द्रि॒यन् द्वि॒तीये॑न , ब्रह्मवर्च॒सन् तृ॒तीये॑ना॒न्नाद्य॑ञ् चतु॒र्थेन॑ ।

यामे॒वात्रि॒र् ऋद्धि॒म् आर्ध्नो॒त् तामे॒व यज॑मान ऋध्नोति ॥ [34]

मूलम्

य ए॒वव्ँ वि॒द्वाँश्च॒तुर॒श् चतु॑ष्टोमा॒न्त् सोमा॑न् आ॒हर॑ति॒ , तैर्यज॑ते॒ ,
तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध , इन्द्रि॒यन् द्वि॒तीये॑न , ब्रह्मवर्च॒सन् तृ॒तीये॑ना॒न्नाद्य॑ञ् चतु॒र्थेन॑ ।

यामे॒वात्रि॒र् ऋद्धि॒म् आर्ध्नो॒त् तामे॒व यज॑मान ऋध्नोति ॥ [34]

भट्टभास्कर-टीका

5य एवं विद्वानित्यादि ॥ ननु ‘यामेवात्रिर् ऋद्धिमार्ध्रोत्’ इति किमुच्यते, ‘तेज एव प्रथमेन’ इत्यादिना गतार्थत्वात् । नैवम्, न तेजः प्रभृत्युपसंग्रहार्थमिदं भवति, अपि तु यामन्यामप्यत्रिः ऋद्धिमार्ध्नोत्, तामपीति प्रतिपादयितुम् । तेन ‘तस्य चत्वारो वीरा आऽजायन्त’ इत्येतदपि संगृहीतं भवति । ऋद्धिमार्ध्नोदिति गोपोषं पुष्णातीतिवद्द्रष्टव्यम् ॥

इति सप्तमे प्रथमे अष्टमोनुवाकः ॥