विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति॒ सैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒ सा मा॑ सुव॒र्गल्ँ लो॒कङ्ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनल्ँ॑ लो॒कङ्ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तल्ँ लो॒कङ्ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनल्ँ॑ लो॒कङ्ग॑मय॒ति सा मा॒ सर्वा॒न्पुण्याल्ँ॑ लो॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैन॒म्पुण्याल्ँ॑ लो॒कान्ग॑मयति॒ सा [29]
मा॒ प्र॒ति॒ष्ठाङ्ग॑मय प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्याम्प्रति॑ ष्ठापयति प्र॒जावा॑न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वव्ँ वेद॒
विश्वास-प्रस्तुतिः
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।
सैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
मूलम्
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।
सैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।
पद-पाठः
स॒ह॒स्र॒त॒म्येति॑ सहस्र-त॒म्या॑ । वै । यज॑मानः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ए॒ति॒ ।
सा । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
1सहस्रतम्येत्यादि ॥ सहस्रतम्या यजमानस्स्वर्गं गच्छति सा चैनं स्वर्गं गमयति यद्येतैर्मन्त्रैस्स्तुता ।
विश्वास-प्रस्तुतिः
सा मा॑ सुव॒र्गल्ँ लो॒कङ् ग॑म॒येत्या॑ह ।
सु॒व॒र्गमे॒वैनल्ँ॑ लो॒कङ् ग॑मयति ।
मूलम्
सा मा॑ सुव॒र्गल्ँ लो॒कङ् ग॑म॒येत्या॑ह ।
सु॒व॒र्गमे॒वैनल्ँ॑ लो॒कङ् ग॑मयति ।
पद-पाठः
सा । मा॒ । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ । इति॑ । आ॒ह॒ ।
सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । ए॒न॒म् । लो॒कम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
तस्मात् ‘सा मा सुवर्गम्’ इत्यादिभिरुदीचीं नीयमानामनुमन्त्रयते सा त्वं गच्छन्ती मां सुवर्गं लोकं गमयेति, सुवर्गं गमयेत्येव ।
विश्वास-प्रस्तुतिः
सा मा॒ ज्योति॑ष्मन्तल्ँ लो॒कङ् ग॑म॒येत्या॑ह॒।
ज्योति॑ष्मन्तम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मय॒ति।
सा मा॒ सर्वा॒न् पुण्याल्ँ॑ लो॒कान् ग॑मयेत्या॑ह ।
सर्वा॑ने॒वैन॒म् पुण्याल्ँ॑ लो॒कान् ग॑मयति ।
मूलम्
सा मा॒ ज्योति॑ष्मन्तल्ँ लो॒कङ् ग॑म॒येत्या॑ह॒।
ज्योति॑ष्मन्तम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मय॒ति।
सा मा॒ सर्वा॒न् पुण्याल्ँ॑ लो॒कान् ग॑मयेत्या॑ह ।
सर्वा॑ने॒वैन॒म् पुण्याल्ँ॑ लो॒कान् ग॑मयति ।
पद-पाठः
सा । मा॒ । ज्योति॑ष्मन्तम् । लो॒कम् । ग॒म॒य॒ । इति॑ । आ॒ह॒ ।
ज्योति॑ष्मन्तम् । ए॒व । ए॒न॒म् । लो॒कम् । ग॒म॒य॒ति॒ ।
सा । मा॒ । सर्वान्॑ । पुण्यान्॑ । लो॒कान् । ग॒म॒य॒ । इति॑ । आ॒ह॒ ।
सर्वान्॑ । ए॒व । ए॒न॒म् । पुण्यान्॑ । लो॒कान् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
एक एव मन्त्रोऽवयुत्यैव ब्राह्मणेन व्याख्यायते । गता मन्त्राः, ब्राह्मणानि च । ज्योतिष्मान् लोकः आदित्यः । पुण्या लोका इन्द्रादीनां लोकाः ब्रह्मलोकपर्यन्ताः ।
विश्वास-प्रस्तुतिः
सा मा॒ प्र॒ति॒ष्ठाङ् ग॑मय ।[29]
मूलम्
सा मा॒ प्र॒ति॒ष्ठाङ् ग॑मय ।[29]
पद-पाठः
सा । [29] मा॒ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒म॒य॒ ।
भट्टभास्कर-टीका
प्रतिष्ठा प्रजादिभिस्सहास्मिन् लोके धनविषयमैश्वर्यम् ।
विश्वास-प्रस्तुतिः
प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ ।
प्र॒जयै॒वैन॑म् प॒शुभी॑ र॒य्याम् प्रति॑ ष्ठापयति ।
प्र॒जावा॑न् पशु॒मान् र॑यि॒मान् भ॑वति॒ , य ए॒वव्ँ वेद॑ ।
मूलम्
प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ ।
प्र॒जयै॒वैन॑म् प॒शुभी॑ र॒य्याम् प्रति॑ ष्ठापयति ।
प्र॒जावा॑न् पशु॒मान् र॑यि॒मान् भ॑वति॒ , य ए॒वव्ँ वेद॑ ।
पद-पाठः
प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । स॒ह । पुनः॑ । मा॒ । एति॑ । वि॒श॒ता॒त् । र॒यिः । इति॑ ।
प्र॒जयेति॑ प्र-जया॑ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु-भिः॒ । र॒य्याम् । प्रतीति॑ । स्था॒प॒य॒ति॒ ।
प्र॒जावा॒निति॑ प्र॒जा-वा॒न् । प॒शु॒मानिति॑ पशु-मान् । र॒यि॒मानिति॑ रयि-मान् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
प्रजावानित्यादि । विदुषस्सिद्धिः ॥
मूलम् (संयुक्तम्)
ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा॑ध्व॒र्यवे॑ वा दद्यात्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ यस्तामवि॑द्वान् [30]
प्र॒ति॒गृ॒ह्णाति॒ ताम्प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेका॑न्त्वा भू॒ताम्प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॑मिति ।
विश्वास-प्रस्तुतिः
ताम॒ग्नीधे॑ वा , ब्र॒ह्मणे॑ वा , होत्रे॑ वोद्गा॒त्रे वा॑ध्व॒र्यवे॑ वा दद्यात् ।
मूलम्
ताम॒ग्नीधे॑ वा , ब्र॒ह्मणे॑ वा , होत्रे॑ वोद्गा॒त्रे वा॑ध्व॒र्यवे॑ वा दद्यात् ।
पद-पाठः
ताम् । अ॒ग्नीध॒ इत्य॑ग्नि-इधे॑ । वा॒ । ब्र॒ह्मणे॑ । वा॒ । होत्रे॑ । वा॒ । उ॒द्गा॒त्र इत्यु॑त्-गा॒त्रे । वा॒ । अ॒ध्व॒र्यवे॑ । वा॒ । द॒द्या॒त् ।
भट्टभास्कर-टीका
2तामित्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति । स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ , यस्तामवि॑द्वान् प्र॒ति॒गृ॒ह्णाति॑ ।[30]
मूलम्
स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति । स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ , यस्तामवि॑द्वान् प्र॒ति॒गृ॒ह्णाति॑ ।[30]
पद-पाठः
स॒हस्र॑म् । अ॒स्य॒ । सा । द॒त्ता । भ॒व॒ति॒ ।
स॒हस्र॑म् । अ॒स्य॒ । प्रति॑गृहीतमिति॒ प्रति॑-गृ॒ही॒त॒म् । भ॒व॒ति॒ ।
यः । ताम् । अवि॑द्वान् । [30] प्र॒ति॒गृ॒ह्णातीति॑ प्रति-गृ॒ह्णाति॑ ।
भट्टभास्कर-टीका
सहस्रमस्येत्यादि । यस्तामविद्वानिति विशेषं वक्ष्यामीति पुनर्वचनम् । अविदुषा प्रतिगृह्णता सहस्रं प्रतिगृहीतं भवति तस्मादेवं विदित्वा तां प्रतिगृह्णीयात् - ‘एकाऽसि’ इत्यादिना मन्त्रेण ‘सुशेवामाविश’ इत्यन्तेन ।
विश्वास-प्रस्तुतिः
ताम् प्रति॑ गृह्णीयात् -
“एका॑सि॒ न स॒हस्र॑म् “। एका॑न्त्वा भू॒ताम्प्रति॑ गृह्णामि॒ , न स॒हस्र॑म् ।
एका॑ मा भू॒ताऽऽवि॑श॒ , मा स॒हस्र॑म्” इति॑ ।
मूलम्
ताम् प्रति॑ गृह्णीयात् -
“एका॑सि॒ न स॒हस्र॑म् “। एका॑न्त्वा भू॒ताम्प्रति॑ गृह्णामि॒ , न स॒हस्र॑म् ।
एका॑ मा भू॒ताऽऽवि॑श॒ , मा स॒हस्र॑म्” इति॑ ।
पद-पाठः
ताम् । प्रतीति॑ । गृ॒ह्णी॒या॒त् ।
एका॑ । अ॒सि॒ । न । स॒हस्र॑म् ।
एका॑म् । त्वा॒ । भू॒ताम् । प्रतीति॑ । गृ॒ह्णा॒मि॒ । न । स॒हस्र॑म् ।
एका॑ । मा॒ । भू॒ता । एति॑ । वि॒श॒ । मा॒ । स॒हस्र॑म् । इति॑ ।
भट्टभास्कर-टीका
एका त्वमसि न सहस्रं । तस्मादेकामेव भूतां त्वां प्रतिगृह्णामि, न सहस्रभूतां, तस्मा- त्त्वमप्येकैव भूता मामाविश, मा सहस्रभूता ॥
मूलम् (संयुक्तम्)
एका॑मे॒वैना॑म्भू॒ताम्प्रति॑ गृह्णाति॒ न स॒हस्रय्ँ॒य ए॒वव्ँ वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा॑ स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॑श [31]
इत्या॑ह स्यो॒नैवैनँ॑ सु॒षदा॑ सु॒शेवा॑ भू॒ता वि॑शति॒ नैनँ॑ हिनस्ति
विश्वास-प्रस्तुतिः
एका॑मे॒वैना॑म्भू॒ताम्प्रति॑ गृह्णाति , न स॒हस्रय्ँ॒ य ए॒वव्ँ वेद॑ ।
मूलम्
एका॑मे॒वैना॑म्भू॒ताम्प्रति॑ गृह्णाति , न स॒हस्रय्ँ॒ य ए॒वव्ँ वेद॑ ।
पद-पाठः
एका॑म् । ए॒व । ए॒ना॒म् । भू॒ताम् । प्रतीति॑ । गृ॒ह्णा॒ति॒ । न । स॒हस्र॑म् । यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
3एकामेवेत्यादि ॥ विदुषो ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
“स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा॑ ।
स्यो॒ना मा वि॑श, सु॒षदा॒ मा वि॑श , सु॒शेवा॒ मा वि॑श” +इत्या॑ह।[31]
मूलम्
“स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा॑ ।
स्यो॒ना मा वि॑श, सु॒षदा॒ मा वि॑श , सु॒शेवा॒ मा वि॑श” +इत्या॑ह।[31]
पद-पाठः
स्यो॒ना । अ॒सि॒ । सु॒षदेति॑ सु-सदा॑ । सु॒शेवेति॑ सु-शेवा॑ ।
स्यो॒ना । मा॒ । एति॑ । वि॒श॒ । सु॒षदेति॑ सु-सदा॑ । मा॒ । एति॑ । वि॒श॒ । सु॒शेवेति॑ सु-शेवा॑ । मा॒ । एति॑ । वि॒श॒ । [31] इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
स्योना सुखहेतुरस्माकं सुपरिचारा वा त्वमसि । सुषदा सुखेन सादनीया दोहनादाविति । खलि कृदुत्तरपदप्रकृतिस्वरत्वम् । सुशेवा सुफला बहुदुग्धत्वात् । ‘आद्युदात्तश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । सा त्वं तादृशी स्योना अविगुणा सती मामाविश यथा मे न कदाचिदपि हिंसा स्यात् तथा मामाविशेति ।
विश्वास-प्रस्तुतिः
स्यो॒नैवैनँ॑ सु॒षदा॑ सु॒शेवा॑ भू॒ताऽऽवि॑शति , नैनँ॑ हिनस्ति ।
मूलम्
स्यो॒नैवैनँ॑ सु॒षदा॑ सु॒शेवा॑ भू॒ताऽऽवि॑शति , नैनँ॑ हिनस्ति ।
पद-पाठः
स्यो॒ना । ए॒व । ए॒न॒म् । सु॒षदेति॑ सु-सदा॑ । सु॒शेवेति॑ सु-शेवा॑ । भू॒ता । एति॑ । वि॒श॒ति॒ । न । ए॒न॒म् । हि॒न॒स्ति॒ ।
भट्टभास्कर-टीका
स्योनैवेत्यादि । ब्राह्मणम् । गतम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्रँ॑ सहस्रत॒म्यन्वे॒ती ३ स॑हस्रत॒मीँ स॒हस्रा ३ मिति॑ ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“स॒हस्रँ॑ सहस्रत॒म्य् अन्वे॒ती३, +++(उत)+++ स॑हस्रत॒मीँ स॒हस्रा३म्?” इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“स॒हस्रँ॑ सहस्रत॒म्य् अन्वे॒ती३, +++(उत)+++ स॑हस्रत॒मीँ स॒हस्रा३म्?” इति॑ ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
स॒हस्र॑म् । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी । अन्विति॑ । ए॒ती(३) । स॒ह॒स्र॒त॒मीमिति॑ सहस्र-त॒मीम् । स॒हस्रा(३)म् । इति॑ ।
भट्टभास्कर-टीका
4ब्रह्मवादिन इत्यादि ॥ किं सहस्रं सहस्रतम्यन्वेति अनुगच्छति? उत सहस्रं सहस्रतमीमन्वेति । उभयत्र ‘विचार्यमाणानाम्’ इति प्लुतः । एवं ब्रह्मवादिनो विचारं वदन्ति ॥
मूलम् (संयुक्तम्)
यत्प्राची॑मुत्सृ॒जेत्स॒हस्रँ॑ सहस्रत॒म्यन्वि॑या॒त्तत्स॒हस्र॑मप्रज्ञा॒त्रँ सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नीयात्प्र॒तीची॒मुत्सृ॑जति॒ ताँ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गल्ँ लो॒कमे॑ति॒ यज॑मानम॒भ्युत्सृ॑जति क्षि॒प्रे स॒हस्र॒म्प्र जा॑यत उत्त॒मा नी॒यते॑ प्रथ॒मा दे॒वान्ग॑च्छति ॥ [32]
विश्वास-प्रस्तुतिः
यत्प्राची॑मुत्सृ॒जेत् , स॒हस्रँ॑ सहस्रत॒म्य् अन्वि॑यात् ।
मूलम्
यत्प्राची॑मुत्सृ॒जेत् , स॒हस्रँ॑ सहस्रत॒म्य् अन्वि॑यात् ।
पद-पाठः
यत् । प्राची॑म् । उ॒त्सृ॒जेदित्यु॑त्-सृ॒जेत् । स॒हस्र॑म् । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी । अन्विति॑ । इ॒या॒त् ।
भट्टभास्कर-टीका
5इदानीं पक्षद्वयस्योत्थापनं फलभेदं चाह - यत्प्राचीमित्यादि ॥ यत् यद्यर्थे । यद्येनां प्राचीमुत्सृजेत् सहस्रतमी सहस्रमन्वियात् अनुगच्छेत् अग्रे सहस्रं गच्छेत् तत्सहस्रतम्यनुगच्छेत् ।
विश्वास-प्रस्तुतिः
स॒हस्र॑मप्रज्ञा॒त्रँ सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नीयात् ।
मूलम्
स॒हस्र॑मप्रज्ञा॒त्रँ सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नीयात् ।
पद-पाठः
तत् । स॒हस्र॑म् । अ॒प्र॒ज्ञा॒त्रमित्य॑प्र-ज्ञा॒त्रम् ।
सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । न । प्रेति॑ । जा॒नी॒या॒त् ।
भट्टभास्कर-टीका
ततश्च तत्सहस्रमप्रज्ञात्रं प्रज्ञानरहितं स्वर्गं न प्रजानीयात् ततश्च स्वर्गं न गच्छेत् यजमानः, प्रकृष्टज्ञानं प्रज्ञात्रम् । औणादिकस्त्रप्रत्ययः, बहुव्रीहौ ‘नङ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
प्र॒तीची॒मुत्सृ॑जति ।
मूलम्
प्र॒तीची॒मुत्सृ॑जति ।
पद-पाठः
प्र॒तीची॑म् । उदिति॑ । सृ॒ज॒ति॒ ।
भट्टभास्कर-टीका
तस्मात्प्रतीचीमुत्सृजतीति विधिः । ‘चौ’ इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ।
विश्वास-प्रस्तुतिः
ताँ स॒हस्र॒मनु॑ प॒र्याव॑र्तते ।
मूलम्
ताँ स॒हस्र॒मनु॑ प॒र्याव॑र्तते ।
पद-पाठः
ताम् । स॒हस्र॑म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि-आव॑र्तते ।
भट्टभास्कर-टीका
तां सहस्रतमीमग्रे गच्छन्तीं सहस्रमनु पर्यावर्तते अनु गच्छति । ‘गतिर्गतौ’ इति पूर्ववन्निघातस्समासश्च । अनुः कर्मप्रवचनीय उदात्त एव ।
विश्वास-प्रस्तुतिः
सा प्र॑जान॒ती सु॑व॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
सा प्र॑जान॒ती सु॑व॒र्गल्ँ लो॒कमे॑ति ।
पद-पाठः
सा । प्र॒जा॒न॒तीति॑ प्र-जा॒न॒ती ।
सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ए॒ति॒ ।
भट्टभास्कर-टीका
सा च प्रजानती सुवर्गं गच्छति । ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यज॑मानम॒भ्युत्सृ॑जति , क्षि॒प्रे स॒हस्र॒म् प्र जा॑यते ।
मूलम्
यज॑मानम॒भ्युत्सृ॑जति , क्षि॒प्रे स॒हस्र॒म् प्र जा॑यते ।
पद-पाठः
यज॑मानम् । अ॒भि । उदिति॑ । सृ॒ज॒ति॒ ।
क्षि॒प्रे । स॒हस्र॑म् । प्रेति॑ । जा॒य॒ते॒ ।
भट्टभास्कर-टीका
तत्र चैवं वक्तव्यमित्याहयजमानमभि यजमानं लक्षीकृत्य तामुत्सृजति, ततश्च क्षिप्रे काले सहस्रं बहु प्रजायते यजमानः ।
विश्वास-प्रस्तुतिः
उ॒त्त॒मा नी॒यते॑ , प्रथ॒मा दे॒वान् ग॑च्छति ॥ [32]
मूलम्
उ॒त्त॒मा नी॒यते॑ , प्रथ॒मा दे॒वान् ग॑च्छति ॥ [32]
पद-पाठः
उ॒त्त॒मेत्यु॑त्-त॒मा । नी॒यते॑ । प्र॒थ॒मा । दे॒वान् । ग॒च्छ॒ति॒ ॥ [32]
भट्टभास्कर-टीका
उत्तमा नीयते पश्चात्सर्वास्ता नीयन्ते । प्रथमा देवान् गच्छति प्रथममेव यजमानमपि गृहीत्वा देवसकाशं गच्छति । उत्तमशब्दः उञ्छादित्वादन्तोदात्तः ॥
इति सप्तमे प्रथमे सप्तमोनुवाकः ॥