त्रिष्टुप् । विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही ३ इत्य॑ब्रूताँ॒ स य॒म एक॑स्याव्ँवी॒र्य॑म्पर्य॑पश्यदि॒यव्ँ वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म्बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यम्ममास्त्वे॒तद्यु॒वयो॒रिति॒
विश्वास-प्रस्तुतिः
सोमो॒ वै स॒हस्र॑मविन्दत् ।
मूलम्
सोमो॒ वै स॒हस्र॑मविन्दत् ।
सोमः॑ । वै । स॒हस्र॑म् । अ॒वि॒न्द॒त् ।
भट्टभास्कर-टीका
1इदानीं प्रकारान्तरेण सहस्रतमी स्तूयते - सोमो वा इत्यादि ॥ सोमो गवां सहस्रमलभत ।
विश्वास-प्रस्तुतिः
तमिन्द्रोऽन्व॑विन्दत् ।
मूलम्
तमिन्द्रोऽन्व॑विन्दत् ।
पद-पाठः
तम् । इन्द्रः॑ । अन्विति॑ । अ॒वि॒न्द॒त् ।
भट्टभास्कर-टीका
इन्द्रोपीमं सोममागम्य तदेव गवां सहस्रमविन्दत् ।
विश्वास-प्रस्तुतिः
तौ य॒मो न्याग॑च्छत् ।
मूलम्
तौ य॒मो न्याग॑च्छत् ।
पद-पाठः
तौ । य॒मः । न्याग॑च्छ॒दिति॑ नि-आग॑च्छत् ।
भट्टभास्कर-टीका
एवं तदुभयोरभवत् भागः तौ सोमेन्द्रौ यमोन्यागच्छत् निकामयमान आगच्छत् । ‘गतिर्गतौ’ इति गतेरनुदात्तत्वम्, समासश्च ।
विश्वास-प्रस्तुतिः
ताव॑ब्रवी॒द् + “अस्तु॒ मेऽत्रापी"ति॑ ।
मूलम्
ताव॑ब्रवी॒द् + “अस्तु॒ मेऽत्रापी"ति॑ ।
पद-पाठः
तौ । अ॒ब्र॒वी॒त् ।
अस्तु॑ । मे॒ । अत्र॑ । अपीति॑ । इति॑ ।
भट्टभास्कर-टीका
तौ चाब्रवीत् - ममाप्यत्र गवां सहस्रे अंशित्वमस्त्विति ।
विश्वास-प्रस्तुतिः
अस्तु॒ ही३ इत्य॑ब्रूताम् ।
मूलम्
अस्तु॒ ही३ इत्य॑ब्रूताम् ।
पद-पाठः
अस्तु॑ । ही(३) । इति॑ । अ॒ब्रू॒ता॒म् ।भट्टभास्कर-टीका
अथास्तु हि इति तमब्रूताम् । ‘प्रतिश्रवणे च’ इति प्लुतः, अभिपूजिते वा ।
विश्वास-प्रस्तुतिः
स य॒म एक॑स्याव्ँ वी॒र्य॑म् पर्य॑पश्यद् - इ॒यव्ँ वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म् बिभ॒र्तीति॑ ।
मूलम्
स य॒म एक॑स्याव्ँ वी॒र्य॑म् पर्य॑पश्यद् - इ॒यव्ँ वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म् बिभ॒र्तीति॑ ।
पद-पाठः
सः । य॒मः । एक॑स्याम् । वी॒र्य॑म् । परीति॑ । अ॒प॒श्य॒त् ।
इ॒यम् । वै । अ॒स्य । स॒हस्र॑स्य । वी॒र्य॑म् । बि॒भ॒र्ति॒ । इति॑ ।
भट्टभास्कर-टीका
ततः प्रतिश्रुतांशो यमः एकस्यां सहस्रतम्यां सर्वस्मादपि गोसमूहात् वीर्यं पर्यपश्यत् कार्त्स्न्येनापश्यत् इयमेकैव अस्य सहस्रस्य वीर्यं बिभर्तीति ।
विश्वास-प्रस्तुतिः
ताव॑ब्रवीद् इ॒यम् ममास्त्वे॒तद् यु॒वयो॒रिति॑ ।
मूलम्
ताव॑ब्रवीद् इ॒यम् ममास्त्वे॒तद् यु॒वयो॒रिति॑ ।
पद-पाठः
तौ । अ॒ब्र॒वी॒त् । इ॒यम् । मम॑ । अस्तु॑ । ए॒तत् । यु॒वयोः॑ । इति॑ ।
भट्टभास्कर-टीका
एवं पश्यन् तौ सोमेन्द्रौ यमोब्रवीत् - इयमेकैव ममास्तु एतत्सहस्रं युवयोरस्त्विति । ‘यूष्मदस्मदोर्ङसि’ इति ममशब्द आद्युदात्तः ॥
मूलम् (संयुक्तम्)
ताव॑ब्रूताँ॒ सर्वे॒ वा ए॒तदे॒तस्याव्ँ॑वी॒र्य॑म् [21]
परि॑ पश्या॒मोऽँश॒मा ह॑रामहा॒ इति॒ तस्या॒मँश॒माह॑रन्त
विश्वास-प्रस्तुतिः
ताव॑ब्रूताँ॒ - सर्वे॒ वा ए॒तद् ए॒तस्याव्ँ॑ वी॒र्य॑म् परि॑ पश्यामो, +++(अतो)+++ ऽँश॒मा ह॑रामहा॒ इति॑ । [21]
तस्या॒म् अँश॒माऽऽह॑रन्त ।
मूलम्
ताव॑ब्रूताँ॒ - सर्वे॒ वा ए॒तद् ए॒तस्याव्ँ॑ वी॒र्य॑म् परि॑ पश्यामो, +++(अतो)+++ ऽँश॒मा ह॑रामहा॒ इति॑ । [21]
तस्या॒म् अँश॒माऽऽह॑रन्त ।
पद-पाठः
तौ । अ॒ब्रू॒ता॒म् ।
सर्वे॑ । वै । ए॒तत् । ए॒तस्या॑म् । वी॒र्य॑म् । [21]
परीति॑ । प॒श्या॒मः॒ । अँश॑म् । एति॑ । ह॒रा॒म॒है॒ । इति॑ ।
तस्या॑म् । अँश॑म् । एति॑ । अ॒ह॒र॒न्त॒ ।
भट्टभास्कर-टीका
‘अथ तच्छ्रुत्वा विदिताभिप्रायौ तावब्रूताम् - सर्वे वयमेतस्यां विद्यमानं वीर्य सहस्रसम्मितं परिपश्यामः, अंशं च हरामहै अंशनियमं चानयैव कुर्म इतीत्थं कृतमतयस्सर्वेऽपि सोमेन्द्रयमाः तस्यामंशमाहरन्त तामेव नियमहेतुं कृत्वा स्वंस्वंमंश गृहीतवन्तः ॥
मूलम् (संयुक्तम्)
ताम॒प्सु प्रावे॑शय॒न्त्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्रीणीया॒द्य ए॒वव्ँवि॒द्वान्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्री॒णाति॒ त्रय॑स्त्रिँशता चै॒वास्य॑ त्रि॒भिश्च॑ [22]
श॒तैस्सोम॑ᳵ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते
विश्वास-प्रस्तुतिः
ताम॒प्सु प्रावे॑शय॒न्त्सोमा॑यो॒देहीति॑ ।
मूलम्
ताम॒प्सु प्रावे॑शय॒न्त्सोमा॑यो॒देहीति॑ ।
पद-पाठः
ताम् । अ॒प्स्वित्य॑प्-सु । प्रेति॑ । अ॒वे॒श॒य॒न् ।
सोमा॑य । उ॒देहीत्यु॑त्-एहि॑ । इति॑ ।
भट्टभास्कर-टीका
3कथमित्याह - तामित्यादि ॥ सोमो यादृशीं त्वामर्हति यावतीश्च गा अर्हति तदनुरूपा उदेहि उदयं प्रतिपद्यस्वेति तामप्सु प्रावेशयन् । पूर्ववद्गतिस्वरसमासौ ।
विश्वास-प्रस्तुतिः
सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस् स॒होदैत्।
मूलम्
सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस् स॒होदैत्।
पद-पाठः
सा । रोहि॑णी । पि॒ङ्ग॒ला । एक॑हाय॒नीत्येक॑-हा॒य॒नी॒ । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिँश॒तेति॒ त्रयः॑-त्रिँ॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि-भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त्-ऐत् ।
भट्टभास्कर-टीका
सेत्यादि । रोहिणी रोहितवर्णा । ‘वर्णादनुदात्तात्’ इति ङीप् । पिङ्गला पिङ्गलाक्षी एकहायनी एकवर्षा । ‘दामहायनान्ताच्च’ इति ङीप् । ईदृशी भूत्वा रूपं चैतदनुगुणं कृत्वा त्रयस्त्रिंशदधिकशतत्रयसङ्ख्याभिर्गोभिस्सह उदैत् उदगच्छत् । पूर्ववन्निधातसमासौ ।
विश्वास-प्रस्तुतिः
तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्रीणीयात् ।
य ए॒वव्ँ वि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्री॒णाति॑ ।
त्रय॑स्त्रिँशता चै॒वास्य॑ त्रि॒भिश्च॒ श॒तैस्सोम॑ᳵ क्री॒तो भ॑वति । [22]
सुक्री॑तेन यजते ।
मूलम्
तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्रीणीयात् ।
य ए॒वव्ँ वि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्री॒णाति॑ ।
त्रय॑स्त्रिँशता चै॒वास्य॑ त्रि॒भिश्च॒ श॒तैस्सोम॑ᳵ क्री॒तो भ॑वति । [22]
सुक्री॑तेन यजते ।
पद-पाठः
तस्मा॑त् । रोहि॑ण्या । पि॒ङ्ग॒लया॑ । एक॑हाय॒न्येत्येक॑-हा॒य॒न्या॒ । सोम॑म् । क्री॒णी॒या॒त् ।
यः । ए॒वम् । वि॒द्वान् । रोहि॑ण्या । पि॒ङ्ग॒लया॑ । एक॑हाय॒न्येत्येक॑-हा॒य॒न्या॒ । सोम॑म् । क्री॒णाति॑ । त्रय॑स्त्रिँश॒तेति॒ त्रयः॑-त्रिँ॒श॒ता॒ । च॒ । ए॒व । अ॒स्य॒ । त्रि॒भिरिति॑ त्रि-भिः । च॒ । [22]
श॒तैः । सोमः॑ । क्री॒तः । भ॒व॒ति॒ ।
सुक्री॑ते॒नेति॒ सु-क्री॒ते॒न॒ । य॒ज॒ते॒ ।
भट्टभास्कर-टीका
तस्मादित्यादि । गतम् ॥ त्रथस्त्रिंशता चैवेत्यादि । तदात्मकत्वात्तासाम् । ततस्सुक्रीतेन सोमेन यजते । प्रादिसमासे ‘गतिरनन्तरः’ इति स्वरः ॥
मूलम् (संयुक्तम्)
ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒द्रोहि॑णील्ँलक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नीन्दद्या॒द्य ए॒वव्ँवि॒द्वान्रोहि॑णील्ँलक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नी॒न्ददा॑ति॒ त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता [23]
भ॒व॒ति॒
विश्वास-प्रस्तुतिः
ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॑ ।
मूलम्
ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॑ ।
पद-पाठः
ताम् । अ॒प्स्वित्य॑प्-सु । प्रेति॑ । अ॒वे॒श॒य॒न् ।
इन्द्रा॑य । उ॒देहीत्यु॑त्-एहि॑ । इति॑ ।
भट्टभास्कर-टीका
4तामित्यादि ॥ इन्द्रायानुरूपमुदेहीति तां पुनरप्सु प्रावेशयन् ।
विश्वास-प्रस्तुतिः
सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही, वार्त्र॑घ्नी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत् ।
मूलम्
सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही, वार्त्र॑घ्नी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत् ।
पद-पाठः
सा । रोहि॑णी । ल॒क्ष्म॒णा । प॒ष्ठौ॒ही । वार्त्र॒घ्नीति॒ वार्त्र॑-घ्नी॒ । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिँश॒तेति॒ त्रयः॑-त्रिँ॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि-भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त्-ऐत् ।
भट्टभास्कर-टीका
रोहिणी उक्तलक्षणा । लक्ष्मणा लक्ष्मवती । पामादित्वान्नप्रत्ययः । पष्ठौही चतुर्वर्षा । पष्ठं वहतीति ‘वहश्च’ इति ण्विः, ‘वाहः’ इति ङीप्, ‘वाह ऊठ्’ इत्यूठ्, ‘एत्येधत्यूठ्सु’ इति वृद्धिः । वार्त्रघ्नी द्विरूपेत्येके । इन्द्ररूपधारिणीत्यन्ये । गतमन्यत् । ‘षपूर्वस्य’ इत्यादिना अल्लोपः, वृषादित्वादाद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
तस्मा॒द्रोहि॑णील्ँ लक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँ वार्त्र॑घ्नीन्दध्यात् ।
य ए॒वव्ँ वि॒द्वान् रोहि॑णील्ँ लक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँ वार्त्र॑घ्नी॒न् ददा॑ति ।
त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॑,
सा द॒त्ता भ॑वति ।[23]
मूलम्
तस्मा॒द्रोहि॑णील्ँ लक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँ वार्त्र॑घ्नीन्दध्यात् ।
य ए॒वव्ँ वि॒द्वान् रोहि॑णील्ँ लक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँ वार्त्र॑घ्नी॒न् ददा॑ति ।
त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॑,
सा द॒त्ता भ॑वति ।[23]
पद-पाठः
तस्मा॑त् । रोहि॑णीम् । ल॒क्ष्म॒णाम् । प॒ष्ठौ॒हीम् । वार्त्र॑घ्न॒मिति॒ वार्त्र॑-घ्न॒म् । द॒द्या॒त् ।
यः । ए॒वम् । वि॒द्वान् । रोहि॑णीम् । ल॒क्ष्म॒णाम् । प॒ष्ठौ॒हीम् । वार्त्र॑घ्न॒मिति॒ वार्त्र॑-घ्न॒म् । ददा॑ति । त्रय॑स्त्रिँश॒दिति॒ त्रयः॑-त्रिँ॒श॒त् । च॒ । ए॒व । अ॒स्य॒ । त्रीणि॑ । च॒ । श॒तानि॑ । सा । द॒त्ता । [23]
भ॒व॒ति॒ ।
भट्टभास्कर-टीका
सा दत्ता भवतीति सैवैका दत्ता त्रयस्त्रिंशदधिकशतत्रयतुल्या भवतीति । क्व पुनरियं दातव्या भवति? उक्तमाचार्येण - ‘सङ्ग्रामं जित्वा राजन्ये एतां दद्यात्’ इति । तत्र वचनात् प्रकरणं बाध्यते ॥
मूलम् (संयुक्तम्)
ताम॒प्सु प्रावे॑शयन्य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒ज्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुर्वीत॒ य ए॒वव्ँवि॒द्वाञ्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुरु॒ते त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मिल्ँ॑ लो॒के भ॑वति
विश्वास-प्रस्तुतिः
ताम॒प्सु प्रावे॑शयन् य॒मयो॒देहीति॑ ।
सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या, रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस् स॒होदैत् ।
मूलम्
ताम॒प्सु प्रावे॑शयन् य॒मयो॒देहीति॑ ।
सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या, रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस् स॒होदैत् ।
पद-पाठः
ताम् । अ॒प्स्वित्य॑प्-सु । प्रेति॑ । अ॒वे॒श॒य॒न् ।
य॒माय॑ । उ॒देहीत्यु॑त्-एहि॑ । इति॑ ।
सा । जर॑ती । मू॒र्खा । त॒ज्ज॒घ॒न्येति॑ तत्-ज॒घ॒न्या । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिँश॒तेति॒ त्रयः॑-त्रिँ॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि-भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त्-ऐत् ।
भट्टभास्कर-टीका
5पुनरपि प्रावेशयन् यमायेति ॥ जरती वृद्धा । जीर्यतेरतृन् । मूर्खा रोषणशीला । तज्जघन्या जघन्यरूपा जाता । दुश्शीलेत्यन्ये । सैव जघन्या तज्जघन्या, नेदृश्यन्या जघन्यास्तीति ।
विश्वास-प्रस्तुतिः
तस्मा॒ज् जर॑तीम् मू॒र्खान् त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीङ् कुर्वीत ।
मूलम्
तस्मा॒ज् जर॑तीम् मू॒र्खान् त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीङ् कुर्वीत ।
पद-पाठः
तस्मा॑त् । जर॑तीम् । मू॒र्खाम् । त॒ज्ज॒घ॒न्यामिति॑ तत्-ज॒घ॒न्याम् । अ॒नु॒स्तर॑णी॒मित्य॑नु-स्तर॑णीम् । कु॒र्वी॒त॒ ।
भट्टभास्कर-टीका
तस्मादित्यादि । ईदृशमिनुस्तरणीं पितृमेधे कुर्वीत । मृताय या हन्यते सानुस्तरणी । अनु स्तीर्यते इत्यनुस्तरणिः, कर्मणि ल्युट् । अत्रापि वचनात्प्रकरणबाधः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाञ्जर॑तीम्मू॒र्खान् त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीङ् कुरु॒ते , त्रय॑स्त्रिँशच् चै॒वास्य॒ त्रीणि॑ च श॒तानि॑ सामुष्मिल्ँ॑ लो॒के भ॑वति ।
मूलम्
य ए॒वव्ँ वि॒द्वाञ्जर॑तीम्मू॒र्खान् त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीङ् कुरु॒ते , त्रय॑स्त्रिँशच् चै॒वास्य॒ त्रीणि॑ च श॒तानि॑ सामुष्मिल्ँ॑ लो॒के भ॑वति ।
पद-पाठः
यः । ए॒वम् । वि॒द्वान् । जर॑तीम् । मू॒र्खाम् । त॒ज्ज॒घ॒न्यामिति॑ तत्-ज॒घ॒न्याम् । अ॒नु॒स्तर॑णी॒मित्य॑नु-स्तर॑णीम् । कु॒रु॒ते॒ । त्रय॑स्त्रिँश॒दिति॒ त्रयः॑-त्रिँ॒श॒त् । च॒ । ए॒व । अ॒स्य॒ । त्रीणि॑ । च॒ । श॒तानि॑ । सा । अ॒मुष्मि॑न् । लो॒के । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
साऽमुष्मिन्निति । सा एवैका गौरमुष्मिन् लोके अस्य दातुः मृतस्य वा त्रयस्त्रिंशदधिक- शतत्रयसखङ्यया परिणता भोगाय भवतीति ॥
मूलम् (संयुक्तम्)
वागे॒व स॑हस्रत॒मी तस्मा॑त् [24]
वरो॒ देय॒स्सा हि वर॑स्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒ न प्र॑ति॒गृह्य॒स्सा हि वर॑स्स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति
विश्वास-प्रस्तुतिः
वाग् ए॒व स॑हस्रत॒मी, तस्मा॑त् वरो॒ देयः॑ ।[24]
मूलम्
वाग् ए॒व स॑हस्रत॒मी, तस्मा॑त् वरो॒ देयः॑ ।[24]
पद-पाठः
वाक् । ए॒व । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी ।
तस्मा॑त् । [24] वरः॑ । देयः॑ ।
भट्टभास्कर-टीका
6वागेवेत्यादि ॥ एवं दर्शितरूपत्रया एकोनसहस्रा या सहस्रतमी सा वागेव स्वयं प्रकृष्टतमेति यावत् । तस्माद्वरो देयः । सहस्रदक्षिणेऽमुष्मिन् सहस्रं दत्तं भवतीति भावः ।
विश्वास-प्रस्तुतिः
सा हि वरः॑ । स॒हस्र॑म् अस्य॒ सा द॒त्ता भ॑वति ।
मूलम्
सा हि वरः॑ । स॒हस्र॑म् अस्य॒ सा द॒त्ता भ॑वति ।
पद-पाठः
सा । हि । वरः॑ ।
स॒हस्र॑म् । अ॒स्य॒ । सा । द॒त्ता । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
कः पुनस्स द्रव्यविशेष इत्याह - सा हीति । एषा खलु सहस्रतमी उत्कृष्टो द्रव्यविशेषः, सर्वस्माद्गोसहस्राद्वागात्मकत्वात् । तस्मात्सैवैका दत्ता अस्य दातुस्सहस्रं भवति ।
विश्वास-प्रस्तुतिः
तस्मा॒द्वरो॒ न प्र॑तिगृह्यः॑ ।
मूलम्
तस्मा॒द्वरो॒ न प्र॑तिगृह्यः॑ ।
पद-पाठः
तस्मा॑त् । वरः॑ । न । प्र॒ति॒गृह्य॒ इति॑ प्रति-गृह्यः॑ ।
भट्टभास्कर-टीका
तस्मादेव हेतोर्वरो विशिष्टो द्रव्यविशेषः सहस्रतम्यादिः न प्रतिगृह्यः न प्रतिगृहीतव्यः । ‘प्रत्यपिभ्यां ग्रहेः’ इति क्यप् ।
विश्वास-प्रस्तुतिः
सा हि वर॑स्स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति।
मूलम्
सा हि वर॑स्स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति।
पद-पाठः
सा । हि । वरः॑ ।
स॒हस्र॑म् । अ॒स्य॒ । प्रति॑गृहीतमिति॒ प्रति॑-गृ॒ही॒त॒म् । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
हेतुमाह - सा हीति । सा खलु सहस्रतमी विशिष्टद्रव्यात्मिका, तामेव चायं ददाति, तस्मात्तत्परिग्रहे सहस्रमस्य प्रतिगृहीतं भवति । ततश्च सहस्रस्य प्रतिग्रहदोषः ॥
मूलम् (संयुक्तम्)
इ॒यव्ँवर॒ इति॑ ब्रूया॒दथा॒न्याम्ब्रू॑यादि॒यम्ममेति॒ तथा॑स्य॒ तत्स॒हस्र॒मप्र॑तिगृहीतम्भवति।
विश्वास-प्रस्तुतिः
इ॒यव्ँवर॒ इति॑ ब्रू॒यात् ।
मूलम्
इ॒यव्ँवर॒ इति॑ ब्रू॒यात् ।
पद-पाठः
इ॒यम् । वरः॑ । इति॑ । ब्रू॒या॒त् ।
भट्टभास्कर-टीका
7समाधत्ते - इयं वर इति ॥ ‘इयं वरः’ इति सहस्रतमीं प्रतिग्राहयिता ब्रूयात् ।
विश्वास-प्रस्तुतिः
अथा॒न्याम् ब्रू॑यादि॒यम्ममेति॑ ।
मूलम्
अथा॒न्याम् ब्रू॑यादि॒यम्ममेति॑ ।
पद-पाठः
अथ॑ । अ॒न्याम् । ब्रू॒या॒त् इ॒यम् । मम॑ । इति॑ ।
भट्टभास्कर-टीका
अथान्यामन्यो ब्रूयात् ‘इयं मम’ इति ।
विश्वास-प्रस्तुतिः
तथा॑स्य॒ तत्स॒हस्र॒मप्र॑तिगृहीतम् भवति ।
मूलम्
तथा॑स्य॒ तत्स॒हस्र॒मप्र॑तिगृहीतम् भवति ।
पद-पाठः
तथा॑ । अ॒स्य॒ । तत् । स॒हस्र॑म् । अप्र॑तिगृहीत॒मित्यप्र॑ति-गृ॒ही॒त॒म् । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
तथा सति ‘इयं वरः’ इति वचनात् तेन सहस्रं दत्तं भवति । इयं ममेत्यन्यस्या वचनात् इतरेण सहस्रं प्र[मप्र]तिगृहीतं भवति ॥
मूलम् (संयुक्तम्)
उभयतए॒नी स्या॒त्तदा॑हुरन्यतए॒नी स्या॑त्स॒हस्र॑म्प॒रस्ता॒देत॒मिति॒ यैव वरः॑ [25]
क॒ल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒त्सा हि वर॒स्समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
उ॒भ॒य॒त॒ए॒नी स्या॑त् । तदा॑हुरन्यतए॒नी स्या॑त् , स॒हस्र॑म्प॒रस्ता॒देत॒मिति॑ ।
मूलम्
उ॒भ॒य॒त॒ए॒नी स्या॑त् । तदा॑हुरन्यतए॒नी स्या॑त् , स॒हस्र॑म्प॒रस्ता॒देत॒मिति॑ ।
पद-पाठः
उ॒भ॒यत॑ए॒नीत्यु॑भ॒यतः॑-ए॒नी॒ । स्या॒त् ।
तत् । आ॒हुः॒ ।
अ॒न्य॒त॒ए॒नीत्य॑न्यतः-ए॒नी । स्या॒त् । स॒हस्र॑म् । प॒रस्ता॑त् । एत॑म् । इति॑ ।
भट्टभास्कर-टीका
8उभयतएनीत्यादि ॥ व्यत्ययेन ‘नञ्कुनिपातानाम्’ इति वचनात्समासान्तोदात्तत्वमेव । तदाहुरिति ॥ तत्राहुरन्ये इत्यर्थः । अन्यतः एकपार्श्वे शुक्ला सहस्रतमी स्यात् । परस्तात् इतरस्मिन् भागे सहस्रभूतमेतं शुक्लं स्यात् । उभयमिदं तुल्यं, तस्यास्सहस्रेण तुल्यत्वात् इत्येवमस्यास्स्तुतिः ।
विश्वास-प्रस्तुतिः
यैव वर॑ᳵ कल्या॒णी रू॒पस॑मृद्धा॒ , सा स्या॑त् ।[25]
मूलम्
यैव वर॑ᳵ कल्या॒णी रू॒पस॑मृद्धा॒ , सा स्या॑त् ।[25]
पद-पाठः
या । ए॒व । वरः॑ । [25] क॒ल्या॒णी । रू॒पस॑मृ॒द्धेति॑ रू॒प-स॒मृ॒द्धा॒ । सा । स्या॒त् ।
भट्टभास्कर-टीका
पक्षान्तरमाह - यैवेति । या वरद्रव्यात्मिका कल्याणगुणवती रूपसमृद्धा शोभनरूपा च । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । सा स्याद्देया सहस्रमध्ये सा हि तद्रूपा हि वरो भवति ।
विश्वास-प्रस्तुतिः
सा हि वर॒स्समृ॑द्ध्यै ।
मूलम्
सा हि वर॒स्समृ॑द्ध्यै ।
पद-पाठः
सा । हि । वरः॑ ।
समृ॑द्ध्या॒ इति॒ सम्-ऋ॒द्ध्यै॒ ।
भट्टभास्कर-टीका
तस्मात्सा दातुस्ममृद्ध्यै भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
तामुत्त॑रे॒णाग्नी॑ध्रम्पर्या॒णीया॑हव॒नीय॒स्यान्ते॑ द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लश॑म्मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वस्समु॒द्रमि॑व॒ सिन्ध॑व॒स्सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्या सम् [26]
अ॒र्ध॒य॒ति॒ प्र॒जावा॑न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वव्ँ वेद ।
विश्वास-प्रस्तुतिः
तामुत्त॑रे॒णाग्नी॑ध्रम् पर्या॒णीया॑हव॒नीय॒स्यान्ते॑ द्रोणकल॒शम् अव॑ घ्रापयेत् ।
“आ जि॑घ्र क॒लश॑म् मह्य् उ॒रुधा॑रा॒ पय॑स्वती ।
आ त्वा॑ विश॒न्त्व् इन्द॑वस् समु॒द्रमि॑व॒ सिन्ध॑वः ।
सा मा॑ स॒हस्र॒ आ भ॑ज ।
प्र॒जया॑ प॒शुभि॑स् स॒ह पुन॒र् मा वि॑शताद् र॒यिर्” इति॑ ।
मूलम्
तामुत्त॑रे॒णाग्नी॑ध्रम् पर्या॒णीया॑हव॒नीय॒स्यान्ते॑ द्रोणकल॒शम् अव॑ घ्रापयेत् ।
“आ जि॑घ्र क॒लश॑म् मह्य् उ॒रुधा॑रा॒ पय॑स्वती ।
आ त्वा॑ विश॒न्त्व् इन्द॑वस् समु॒द्रमि॑व॒ सिन्ध॑वः ।
सा मा॑ स॒हस्र॒ आ भ॑ज ।
प्र॒जया॑ प॒शुभि॑स् स॒ह पुन॒र् मा वि॑शताद् र॒यिर्” इति॑ ।
पद-पाठः
ताम् । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ । आग्नी॑ध्र॒मित्याग्नि॑-इ॒ध्र॒म् । प॒र्या॒णीयेति॑ परि-आ॒नीय॑ । आ॒ह॒व॒नीय॒स्येत्या॑-ह॒व॒नीय॑स्य । अन्ते॑ । द्रो॒ण॒क॒ल॒शमिति॑ द्रोण-क॒ल॒शम् । अवेति॑ । घ्रा॒प॒ये॒त् ।
एति॑ । जि॒घ्र॒ । क॒लश॑म् । म॒हि॒ । उ॒रुधा॒रेत्यु॒रु-धा॒रा॒ । पय॑स्वती । एति॑ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम् । इ॒व॒ । सिन्ध॑वः ।
सा । मा॒ । स॒हस्रे॑ । एति॑ । भ॒ज॒ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । स॒ह । पुनः॑ । मा॒ । एति॑ । वि॒श॒ता॒त् । र॒यिः । इति॑ ।
प्र॒जयेति॑ प्र-जया॑ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु-भिः॒ । र॒य्या । समिति॑ । [26] अ॒र्ध॒य॒ति॒ ।
प्र॒जावा॒निति॑ प्र॒जा-वा॒न् । प॒शु॒मानिति॑ पशु-मान् । र॒यि॒मानिति॑ रयि-मान् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
9तामुत्तरेणेत्यादि ॥ अग्नीधश्शरणमाग्नीघ्रम् । ‘अग्नीधश्शरणे च’ इति रण् । तदुत्तरेण तां गां पर्याणीय परित आनीयाहवनीयस्यान्ते समीपे ‘आ जिघ्र’ इति मन्त्रेण द्रोणकलशमवघ्रापयेत् । इयं च सप्तपदा शक्वरी सर्वे च पादा अष्टाक्षराः । हे महि मंहनीये कलशमाजिघ्र आभिमुख्येन जिघ्र । उरुधारा विस्तीर्णधारा त्वं पयस्वती बहुक्षीरा, त्वां इन्दवस्सोमरसाः आविशन्तु समुद्रमिव नद्यः सा त्वमेवंविशिष्टा मां सहस्र आभज स्वामित्वेन स्थापय । निमित्तसप्तमी वा । सहस्रार्थमाभज । प्र॒जयै॒वैन॑म् प॒शुभी॑ र॒य्या सम॑र्धयति । (26) प्र॒जावा॑न् पशु॒मान् र॑यि॒मान्भ॑वति॒ य ए॒वव्ँ वेद॑ । प्रजया पशुभिश्च सह त्वत्प्रसादात् पुनर्मा विशतात् दानारन्तरमेव गोसहस्रलक्षणा रयिर्मां प्राप्नोतु । प्रजयेत्यादि ॥
मूलम् (संयुक्तम्)
तया॑ स॒हाग्नी॑ध्रम्प॒रेत्य॑ पु॒रस्ता॑त्प्र॒तीच्या॒न्तिष्ठ॑न्त्याञ्जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथा॒मिति॑
विश्वास-प्रस्तुतिः
तया॑ स॒हाग्नी॑ध्रम्प॒रेत्य॑ पु॒रस्ता॑त् प्र॒तीच्या॒न् तिष्ठ॑न्त्याञ् जुहुयाद् -
“उ॒भा जि॑ग्यथुर् , न परा॑ जयेथे॒ ,
न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्, त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथा॒म्” इति॑ ।
मूलम्
तया॑ स॒हाग्नी॑ध्रम्प॒रेत्य॑ पु॒रस्ता॑त् प्र॒तीच्या॒न् तिष्ठ॑न्त्याञ् जुहुयाद् -
“उ॒भा जि॑ग्यथुर् , न परा॑ जयेथे॒ ,
न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्, त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथा॒म्” इति॑ ।
पद-पाठः
तया॑ । स॒ह । आग्नी॑ध्र॒मित्याग्नि॑-इ॒ध्र॒म् । प॒रेत्येति॑ परा-इत्य॑ । पु॒रस्ता॑त् । प्र॒तीच्या॑म् । तिष्ठ॑न्त्याम् । जु॒हु॒या॒त् ।
उ॒भा । जि॒ग्य॒थुः॒ । न । परेति॑ । ज॒ये॒थे॒ इति॑ । न । परेति॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ॥
इन्द्रः॑ । च॒ । विष्णोः॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वीति॑ । तत् । ऐ॒र॒ये॒था॒म् । इति॑ ।
भट्टभास्कर-टीका
10तया सहेत्यादि ॥ आग्नीध्रं परेत्य परागत्य तस्याः पुरस्तात् प्रतीच्यां तिष्ठन्त्यां प्रत्यङ्मुख्यां ‘उभा जिग्यथुः’ इति जुहोति - त्रिष्टुबियं ‘प्रसो अग्ने’ इत्यत्र व्याख्याता । एवं दर्शितौ उभावपि युवां सर्वधा जिग्यथुः जयथः न कदा चिदपि पराजयेथे । तथा हि - एनयोर्मध्ये कतरश्च एकतरोपि न कदाचित्पराजिग्ये । किं च - हे विष्णो त्वं च इन्द्रश्च यदपस्पृधेथां स्पर्धां कृतवन्तौ यथा ‘तस्यामिन्द्रश्च विष्णुश्च व्यायच्छे- ताम्’ इति तद्गवां सहस्रं त्रेधा व्यैरयेथां विभक्तवन्तौ विभज्य च व्यवस्यितवन्तौ द्विभागे इन्द्रः तृतीये त्वमिति ॥
मूलम् (संयुक्तम्)
त्रेधाविभ॒क्तव्ँ वै त्रि॑रा॒त्रे स॒हस्रँ॑ साह॒स्रीमे॒वैना॑ङ्करोति स॒हस्र॑स्यै॒वैना॒म्मात्रा॑म् [27]
क॒रो॒ति॒ रू॒पाणि॑ जुहोति रू॒पैरे॒वैनाँ॒ सम॑र्धयति॒
विश्वास-प्रस्तुतिः
त्रे॒धा॒ वि॒भ॒क्तव्ँ॒ वै त्रि॑रा॒त्रे स॒हस्र॑म् ।
मूलम्
त्रे॒धा॒ वि॒भ॒क्तव्ँ॒ वै त्रि॑रा॒त्रे स॒हस्र॑म् ।
पद-पाठः
त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा-वि॒भ॒क्तम् । वै । त्रि॒रा॒त्र इति॑ त्रि-रा॒त्रे । स॒हस्र॑म् ।
भट्टभास्कर-टीका
11तदिदमनेन मन्त्रेणोक्तमिति दर्शयति - त्रेधा विभक्तं वा इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
सा॒ह॒स्रीमे॒वैना॑ङ्करोति ।
मूलम्
सा॒ह॒स्रीमे॒वैना॑ङ्करोति ।
पद-पाठः
सा॒ह॒स्रीम् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
साहस्रीं सहस्रस्य संबन्धिनीं सहस्रतमीमेवैनां करोति त्रेधाविभक्तसहस्रानुवादेन ।
विश्वास-प्रस्तुतिः
स॒हस्र॑स्यै॒वैना॒म् मात्रा॑ङ् करोति ।(27)
मूलम्
स॒हस्र॑स्यै॒वैना॒म् मात्रा॑ङ् करोति ।(27)
पद-पाठः
स॒हस्र॑स्य । ए॒व । ए॒ना॒म् । मात्रा॑म् । [27] क॒रो॒ति॒ ।
भट्टभास्कर-टीका
किं च - सहस्रस्य मात्रां तुल्यप्रमाणामेनां करोति । मीयतेऽनयेति मात्रा उपमानम् ।
विश्वास-प्रस्तुतिः
रू॒पाणि॑ जुहोति । रू॒पैरे॒वैनाँ॒ सम॑र्धयति ।
मूलम्
रू॒पाणि॑ जुहोति । रू॒पैरे॒वैनाँ॒ सम॑र्धयति ।
पद-पाठः
रू॒पाणि॑ । जु॒हो॒ति॒ ।
रू॒पैः । ए॒व । ए॒ना॒म् । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
रूपाणीत्यादि । यान्यश्वमेधे प्रसिद्धानि ‘अञ्जन्नेताय’ इत्यादीनि रूपाणि तानि यथार्थमूहित्वा जुहोति रूपसमृद्धामेनां करोति ॥
मूलम् (संयुक्तम्)
तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृत॑म्मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नन्दे॒वा बु॑ध्यन्ते ॥ [28]
विश्वास-प्रस्तुतिः
तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पेद्,
मूलम्
तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पेद्,
पद-पाठः
तस्याः॑ । उ॒पो॒त्थायेत्यु॑प-उ॒त्थाय॑ । कर्ण॑म् । एति॑ । ज॒पे॒त् ।
भट्टभास्कर-टीका
12तस्या उपोत्थाय कर्णसमीपमागत्य स्थित्वा जपेत् - इडे रन्ते इति इयं विराट्चतुष्पदा ॥ सर्वाण्येतान्यामन्त्रितानि ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इत्यविद्यमानत्वान्निघाताभावः, ततष्षाष्टिकमाद्युदात्तत्वम् । अष्टौ गाव एताः, तादात्म्येन संस्तूयते । तेन ‘नामन्त्रिते समानाधिकरणम्’ इति निषेधाभावः । तेन पदात्परत्वाभावात् षाष्टिकमाद्युदात्तत्वमेव ।
विश्वास-प्रस्तुतिः
इडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑ति ,
मूलम्
इडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑ति ,
पद-पाठः
इडे॑ । रन्ते॑ । अदि॑ते । सर॑स्वति । प्रिये॑ । प्रेय॑सि । महि॑ । विश्रु॒तीति॒ वि-श्रु॒ति॒ ।
भट्टभास्कर-टीका
हे इडे अन्नवति, रन्ते रतिहेतो, अदिते अखण्डिते, सरस्वति सरणवति, प्रिये सर्वस्य प्रीणयित्रि, प्रेयसि प्रियतरे रत्नादेरपि, महि महनीये, विश्रुति विशेषेण श्रुते । ‘क्तिच्क्तौ च’ इति क्तिच्, ‘कृदिकारादक्तिनः’ इति ङीष् ।
विश्वास-प्रस्तुतिः
ए॒तानि॑ ते अघ्निये॒ नामा॑नि , सु॒कृत॑म्मा दे॒वेषु॑ ब्रूतादिति॑ ।
मूलम्
ए॒तानि॑ ते अघ्निये॒ नामा॑नि , सु॒कृत॑म्मा दे॒वेषु॑ ब्रूतादिति॑ ।
पद-पाठः
ए॒तानि॑ । ते॒ । अ॒घ्नि॒ये॒ । नामा॑नि । सु॒कृत॒मिति॑ सु-कृत॑म् । मा॒ । दे॒वेषु॑ । ब्रू॒ता॒त् । इति॑ ।
भट्टभास्कर-टीका
हे अघ्निये अहन्तव्ये आयुष्मति एतानि तव नामानि, सा त्वं किं नाम न कुर्याः, किं वा कर्तुं न शक्यं त्वया । सा तादृशी महानुभावा त्वं देवेषु सुकृतं शोभनकर्माणं मां ब्रूयात् आवेदयतादित्याशास्ते । ‘सुकर्मपाप’ इत्यादिना क्विप् ।
विश्वास-प्रस्तुतिः
दे॒वेभ्य॑ ए॒वैन॒मा वे॑दयति । अन्वे॑नन् दे॒वा बु॑ध्यन्ते ॥ [28]
मूलम्
दे॒वेभ्य॑ ए॒वैन॒मा वे॑दयति । अन्वे॑नन् दे॒वा बु॑ध्यन्ते ॥ [28]
पद-पाठः
दे॒वेभ्यः॑ । ए॒व । ए॒न॒म् । एति॑ । वे॒द॒य॒ति॒ ।
अन्विति॑ । ए॒न॒म् । दे॒वाः । बु॒ध्य॒न्ते॒ ॥ [28]
भट्टभास्कर-टीका
देवेभ्य इत्यादि । एवमनेन प्रार्थिता सा देवेम्य एवमावेदयत्येव । आवेदनानन्तरं च एनं देवा बुद्ध्यन्ते सुकर्माणं निश्चिन्वन्ति ॥
इति सप्तमे प्रथमे षष्ठोनुवाकः ॥