०५ गर्गत्रिरात्रविधिः

सोमऋषिः

मूलम् (संयुक्तम्)

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒त्स इ॒माम॑पश्य॒त्ताव्ँव॑रा॒हो भू॒त्वाह॑र॒त्ताव्ँवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒र्ट्त्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वन्

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।

मूलम्

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।

पद-पाठः आपः॑ । वै । इ॒दम् । अग्रे॑ । स॒लि॒लम् । आ॒सी॒त् ।
भट्टभास्कर-टीका

1अथ त्रिरात्रो विधीयते । गर्गत्रिरात्रः अश्वमेधः वैद त्रिरात्रः छन्दोमनपवमानः पराक इति पञ्च त्रिरात्राः । तत्र प्रथमं गर्गत्रिरात्र आरभ्यते - आपो वा इदमग्रे सलिलमासीदिति ॥ इदं विश्वमग्रे आदौ सलिलमासीत् प्रत्यस्तमितसमस्तविकारं केवलं जलमेवासीदिति प्रतिपादनार्थः । अन्य आहुः - यदिदं सलिलविकारं क्षित्यादि एतत्सर्वमग्रे आप एवासीदिति ।

विश्वास-प्रस्तुतिः

तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑रत्।

मूलम्

तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑रत्।

पद-पाठः

तस्मि॑न् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वा॒युः । भू॒त्वा । अ॒च॒र॒त् ।

भट्टभास्कर-टीका

तस्मिन्नुदके प्रजापतिस्सिसृक्षुः वायुर्भूत्वाचरत् ।

विश्वास-प्रस्तुतिः

स इ॒माम् +++(पृथिवीं)+++ अ॑पश्यत् ।

मूलम्

स इ॒माम् +++(पृथिवीं)+++ अ॑पश्यत् ।

पद-पाठः

सः । इ॒माम् । अ॒प॒श्य॒त् ।

भट्टभास्कर-टीका

स वायुरूपः प्रजापतिः इमां पृथिवीं अन्तर्जलेऽपब्यत् ।

विश्वास-प्रस्तुतिः

ताव्ँ व॑रा॒हो भू॒त्वा ऽह॑रत् ।

मूलम्

ताव्ँ व॑रा॒हो भू॒त्वा ऽह॑रत् ।

पद-पाठः

ताम् । व॒रा॒हः । भू॒त्वा । एति॑ । अ॒ह॒र॒त् ।

भट्टभास्कर-टीका

तां पृथिवीं वायुरूपमुत्सृज्य वराहो भूत्वा जलस्योपर्याहरत् ।

विश्वास-प्रस्तुतिः

ताव्ँ वि॒श्वक॑र्मा भू॒त्वा व्य॑मार्ट् ।

मूलम्

ताव्ँ वि॒श्वक॑र्मा भू॒त्वा व्य॑मार्ट् ।

पद-पाठः

ताम् । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । भू॒त्वा । वीति॑ । अ॒मा॒र्ट्॒ ।

भट्टभास्कर-टीका

आहृत्य वराहरूपमुत्सृज्य विर्श्वकर्मा भूत्वा तां पृथिवीं व्यमार्ट् विस्तारितवान् । मृजेर्लिङि तिपि ‘मृजेर्वृद्धिः’ इति वृद्धिः । विश्वं कर्मास्येति विश्वकर्मा विश्वनिर्माणकुशलः । ‘बह्रुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

सा ऽप्र॑थत । सा पृ॑थि॒व्य॑भवत् ।
तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।

मूलम्

सा ऽप्र॑थत । सा पृ॑थि॒व्य॑भवत् ।
तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।

पद-पाठः

सा । अ॒प्र॒थ॒त॒ ।
सा । पृ॒थि॒वी । अ॒भ॒व॒त् ।
तत् । पृ॒थि॒व्यै । पृ॒थि॒वि॒त्वमिति॑ पृथिवि-त्वम् ।

भट्टभास्कर-टीका

ततस्सा पृथिवी अप्रथत विस्तीर्णाऽभवत् । तत्तस्याः पृथिवीत्वम् । ‘प्रथेष्षिवन्सम्प्रसारणं च’ इति षिवन्प्रत्ययः । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥

मूलम् (संयुक्तम्)

तस्या॑मश्राम्यत्प्र॒जाप॑ति॒स्स दे॒वान॑सृजत॒ वसू॑न्रु॒द्राना॑दि॒त्यान्ते दे॒वाᳶ प्र॒जाप॑तिमब्रुव॒न्प्र जा॑यामहा॒ इति॒ सो॑ऽब्रवीत् [14]
यथा॒हय्ँयु॒ष्माँस्तप॒सासृ॑क्ष्ये॒वन्तप॑सि प्र॒जन॑नमिच्छध्व॒मिति

विश्वास-प्रस्तुतिः

तस्या॑मश्राम्यत्प्र॒जाप॑तिः ।

मूलम्

तस्या॑मश्राम्यत्प्र॒जाप॑तिः ।

पद-पाठः

तस्या॑म् । अ॒श्रा॒म्य॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ ।

भट्टभास्कर-टीका

2ततः प्रजापतिस्तस्यामश्राम्यत्, तपोतप्यत ।

विश्वास-प्रस्तुतिः

स दे॒वान॑सृजत, वसू॑न्रु॒द्राना॑दि॒त्यान् ।

मूलम्

स दे॒वान॑सृजत, वसू॑न्रु॒द्राना॑दि॒त्यान् ।

भट्टभास्कर-टीका

ततस्स देवानसृजत वस्वादीन् ।

पद-पाठः

सः । दे॒वान् । अ॒सृ॒ज॒त॒ । वसून्॑ । रु॒द्रान् । आ॒दि॒त्यान् ।

विश्वास-प्रस्तुतिः

ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्, प्र जा॑यामहा॒ इति॑ [14] ।

मूलम्

ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्, प्र जा॑यामहा॒ इति॑ [14] ।

पद-पाठः

ते । दे॒वाः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । अ॒ब्रु॒व॒न् ।
प्रेति॑ । जा॒या॒म॒है॒ । इति॑ ।

भट्टभास्कर-टीका

अथ ते देवाः प्रजापतिमब्रुवन् - प्रजायामहै प्रजामुत्पादयामहे इति ।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवीत्, यथा॒हय्ँयु॒ष्माँस्तप॒सासृ॑क्षि,

मूलम्

सो॑ऽब्रवीत्, यथा॒हय्ँयु॒ष्माँस्तप॒सासृ॑क्षि,

पद-पाठः

सः । अ॒ब्र॒वी॒त् । [14]

यथा॑ । अ॒हम् । यु॒ष्मान् । तप॑सा । असृ॑क्षि । ए॒वम् । तप॑सि । प्र॒जन॑न॒मिति॑ प्र-जन॑नम् । इ॒च्छ॒ध्व॒म् । इति॑ ।

भट्टभास्कर-टीका

सोब्रवीत्प्रजापतिः - यथाऽहं युष्मान् तपसाऽसृक्षि सृष्टवान् । ‘लिङ्सिचौ’ इति कुत्वम् ।

विश्वास-प्रस्तुतिः

ए॒वन्तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॑ ।

मूलम्

ए॒वन्तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॑ ।

भट्टभास्कर-टीका

एवं यूयमपि तपसि वर्तमानाः प्रजननमिच्छध्वमिति । यद्वा - प्रयोजकनिमित्तसप्तमी तपसा निमित्तेनेति । इच्छध्वमिति व्यत्ययेनात्मनेपदम् ॥

मूलम् (संयुक्तम्)

तेभ्यो॒ऽग्निमा॒यत॑न॒म्प्राय॑च्छदे॒तेना॒यत॑नेनश्राम्य॒तेति॒ ते॑ऽग्निना॒यत॑नेनाश्राम्य॒न्ते सव्ँ॑वत्स॒र एका॒ङ्गाम॑सृजन्त॒ ताव्ँवसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राय॑च्छन्ने॒ताँ र॑क्षध्व॒मिति॒ ताव्ँवस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राजा॑यत॒ त्रीणि॑ च [15]
श॒तानि॒ त्रय॑स्त्रिँशत॒ञ्चाथ॒ सैव स॑हस्रत॒म्य॑भवत्

विश्वास-प्रस्तुतिः

तेभ्यो॒ +++(औपासनाख्यम्)+++ ऽग्निम् +++(तप)+++ आ॒यत॑न॒म् प्राय॑च्छत् । “एतेना॒यत॑नेन श्राम्य॒ते"ति॑ । ते॑ऽग्निना॒ ऽऽयत॑नेना ऽश्राम्यन् ।

मूलम्

तेभ्यो॒ +++(औपासनाख्यम्)+++ ऽग्निम् +++(तप)+++ आ॒यत॑न॒म् प्राय॑च्छत् । “एतेना॒यत॑नेन श्राम्य॒ते"ति॑ । ते॑ऽग्निना॒ ऽऽयत॑नेना ऽश्राम्यन् ।

पद-पाठः

तेभ्यः॑ । अ॒ग्निम् । आ॒यत॑न॒मित्या॑-यत॑नम् । प्रेति॑ । अ॒य॒च्छ॒त् ।
ए॒तेन॑ । आ॒यत॑ने॒नेत्या॑-यत॑नेन । श्रा॒म्य॒त॒ । इति॑ ।
ते । अ॒ग्निना॑ । आ॒यत॑ने॒नेत्या॑-यत॑नेन । अ॒श्रा॒म्य॒न् ।

भट्टभास्कर-टीका

3एवमुक्त्वा तेभ्योग्निमायतनस्थानं तपस्स्थानमौपासनाख्यं प्रायच्छत् एतेनायतनेन तपः कुरुतेति । ते च तथाऽकुर्वत ।

विश्वास-प्रस्तुतिः

ते सव्ँ॑वत्स॒र एका॒ङ्गाम॑सृजन्त ।

मूलम्

ते सव्ँ॑वत्स॒र एका॒ङ्गाम॑सृजन्त ।

पद-पाठः

ते । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रे । एका॑म् । गाम् । अ॒सृ॒ज॒न्त॒ ।

भट्टभास्कर-टीका

ते संवत्सरान्तेन पाकयज्ञेन एकां गामसृजन्त ।

विश्वास-प्रस्तुतिः

ताव्ँ वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राय॑च्छन्न्, ए॒ताँ र॑क्षध्व॒मिति॑ ।

मूलम्

ताव्ँ वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राय॑च्छन्न्, ए॒ताँ र॑क्षध्व॒मिति॑ ।

पद-पाठः

ताम् । वसु॑भ्य॒ इति॒ वसु॑-भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । प्रेति॑ । अ॒य॒च्छ॒न् ।
ए॒ताम् । र॒क्ष॒ध्व॒म् । इति॑ ।

भट्टभास्कर-टीका

तां प्रथमं वसुभ्यो दत्तवन्तः एतां रक्षध्वमिति वयं तप्यामह इति ।

विश्वास-प्रस्तुतिः

ताव्ँ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त।

मूलम्

ताव्ँ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त।

पद-पाठः

ताम् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । अ॒र॒क्ष॒न्त॒ ।

भट्टभास्कर-टीका

ते च वसवस्तामरक्षन् ।

विश्वास-प्रस्तुतिः

सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राजा॑यत - त्रीणि॑ च श॒तानि॒ त्रय॑स्त्रिँशत॒ञ् च ।

मूलम्

सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राजा॑यत - त्रीणि॑ च श॒तानि॒ त्रय॑स्त्रिँशत॒ञ् च ।

पद-पाठः

सा । वसु॑भ्य॒ इति॒ वसु॑-भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । प्रेति॑ । अ॒जा॒य॒त॒ । त्रीणि॑ । च॒ । [15] श॒तानि॑ । त्रय॑स्त्रिँशत॒मिति॒ त्रयः॑-त्रिँ॒श॒त॒म् । च॒ ।

भट्टभास्कर-टीका

सा च तेभ्यः प्राजायत प्रजा अजनयत् । कियतीः ? त्रीणि च शतानि त्रयस्त्रिंशतं च । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत, ‘संख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । एवं रुद्रेष्वादित्येषु द्रष्टव्यम् । यथा - तां रुद्रेभ्यः प्रायच्छत् एतां रक्षध्वमिति । तां च रुद्रा अरक्षन् । सा च रुद्रेभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । तथाऽऽदित्येम्यः प्रायच्छन् एतां रक्षध्वमिति। ते च तामरक्षन् । सा चादित्येभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रिंशतं च । एवं समुदायो ददाति अवयवः प्रतिगृह्णाति । वाक्यत्रयमिदं तन्त्रेण निर्दिष्टम् । एवं वसुरुद्रादित्यानां संभूय एकोनसहस्रं गावोऽभवन् ।

विश्वास-प्रस्तुतिः

अथ॒ सैव स॑हस्रत॒म्य॑भवत् ।

मूलम्

अथ॒ सैव स॑हस्रत॒म्य॑भवत् ।

पद-पाठः

अथ॑ । सा । ए॒व । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी । अ॒भ॒व॒त् ।

भट्टभास्कर-टीका

अथ सैव गौः सहस्रतमी सहस्रस्य पूरण्यभवत् । ‘नित्यं शतादि’ इत्यादिना डट् तमडागमः ॥

मूलम् (संयुक्तम्)

ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्त्स॒हस्रे॑ण नो याज॒येति॒ सो॑ऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मल्ँ लो॒कम॑जय॒न्तच्चा॑ददु॒स्स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त्ते॑ऽन्तरि॑क्षमजय॒न्तच्चा॑ददु॒स्सो॑ऽतिरा॒त्रेणा॑दि॒त्यान॑याजय॒त्ते॑ऽमुल्ँ लो॒कम॑जय॒न्तच्चा॑ददुः

विश्वास-प्रस्तुतिः

ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्त्, स॒हस्रे॑ण नो याज॒येति॑ ।

मूलम्

ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्त्, स॒हस्रे॑ण नो याज॒येति॑ ।

पद-पाठः

ते । दे॒वाः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । अ॒ब्रु॒व॒न् ।
स॒हस्रे॑ण । नः॒ । या॒ज॒य॒ । इति॑ ।

भट्टभास्कर-टीका

4अथ देवाः प्रजापतिमब्रुवत् अनेन सहस्रेणास्मान्याजयेति ।

विश्वास-प्रस्तुतिः

सो॑ ऽग्निष्टो॒मेन॒ वसू॑न् अयाजयत् । त इ॒मल्ँ लो॒कम् अ॑जयन् ।

मूलम्

सो॑ ऽग्निष्टो॒मेन॒ वसू॑न् अयाजयत् । त इ॒मल्ँ लो॒कम् अ॑जयन् ।

पद-पाठः

सः । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । वसून्॑ । अ॒या॒ज॒य॒त् ।
ते । इ॒मम् । लो॒कम् । अ॒ज॒य॒न् ।

भट्टभास्कर-टीका

सोग्निष्टोमेन वसूनयाजयत् । ते वसव इमं लोकमजयन् ।

विश्वास-प्रस्तुतिः

तच्चा॑ददुः । स उ॒क्थ्ये॑न रु॒द्रान् अ॑याजयत् ।

मूलम्

तच्चा॑ददुः । स उ॒क्थ्ये॑न रु॒द्रान् अ॑याजयत् ।

पद-पाठः

तत् । च॒ । अ॒द॒दुः॒ ।
सः । उ॒क्थ्ये॑न । रु॒द्रान् । अ॒या॒ज॒य॒त् ।

भट्टभास्कर-टीका

तच्चात्मीयत्रयस्त्रिंशदधिकशतत्रयं गोधनं दत्तवन्तः दक्षिणां कृतवन्तः। अथ प्रजापतिरुक्थ्येन रुद्रानयाजयत् इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

ते॑ऽन्तरि॑क्षम् अजयन् । तच्चा॑ददुः ।
सो॑ ऽतिरा॒त्रेणा॑दि॒त्यान् अ॑याजयत् ।
ते॑ऽमुल्ँ लो॒कम॑जयन् । तच्चा॑ददुः।

मूलम्

ते॑ऽन्तरि॑क्षम् अजयन् । तच्चा॑ददुः ।
सो॑ ऽतिरा॒त्रेणा॑दि॒त्यान् अ॑याजयत् ।
ते॑ऽमुल्ँ लो॒कम॑जयन् । तच्चा॑ददुः।

पद-पाठः

ते । अ॒न्तरि॑क्षम् । अ॒ज॒य॒न् ।
तत् । च॒ । अ॒द॒दुः॒ ।
सः । अ॒ति॒रा॒त्रेणेत्य॑ति-रा॒त्रेण॑ । आ॒दि॒त्यान् । अ॒या॒ज॒य॒त् ।
ते । अ॒मुम् । लो॒कम् । अ॒ज॒य॒न् ।
तत् । च॒ । अ॒द॒दुः॒ ।

मूलम् (संयुक्तम्)

तद॒न्तरि॑क्षम् [16]
व्यवै॑र्यत॒ तस्मा॑द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुश्शिथि॒लव्ँ वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति सय्ँ॒याना॑नि सू॒क्तानि॑ शँसति षोड॒शिनँ॑ शँस॒त्यह्नो॒ धृत्या॒ अशि॑थिलम्भावाय॒ तस्मा॑त्त्रिरा॒त्रस्या॑ग्निष्टो॒म ए॒व प्र॑थ॒ममह॑स्स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै

विश्वास-प्रस्तुतिः

तद् अ॒न्तरि॑क्षव्ँ॒ व्यवै॑र्यत । [16]

मूलम्

तद् अ॒न्तरि॑क्षव्ँ॒ व्यवै॑र्यत । [16]

पद-पाठः

तत् । अ॒न्तरि॑क्षम् । [16] व्यवै॑र्य॒तेति॑ वि-अवै॑र्यत ।

भट्टभास्कर-टीका

5अथ तदन्तरिक्षं व्यवैर्यत विशीर्णमधोपतत् । ईर प्रेरणे, कर्मणि लङ्, यकि ‘गतिर्गतौ’ इति गतेरनुदात्तत्वम्, उदात्तवत्या गत्या आख्यातसमुदायेन समासः ।

विश्वास-प्रस्तुतिः

तस्मा॑द्रु॒द्रा घातु॑काः ।

मूलम्

तस्मा॑द्रु॒द्रा घातु॑काः ।

पद-पाठः

तस्मा॑त् । रु॒द्राः । घातु॑काः ।

भट्टभास्कर-टीका

तस्माद्रुद्रा घातुकाः हननशीलाः । ‘लषपत’ इत्यादिना उकञ् ।

विश्वास-प्रस्तुतिः

अ॒ना॒य॒त॒ना हि तस्मा॑दाहुः, शिथि॒लव्ँ वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒, वि हि तद॒वैर्यत ।

मूलम्

अ॒ना॒य॒त॒ना हि तस्मा॑दाहुः, शिथि॒लव्ँ वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒, वि हि तद॒वैर्यत ।

पद-पाठः

अ॒ना॒य॒त॒ना इत्य॑ना-य॒त॒नाः । हि ।
तस्मा॑त् । आ॒हुः॒ ।
शि॒थि॒लम् । वै । म॒ध्य॒मम् । अहः॑ । त्रि॒रा॒त्रस्येति॑ त्रि-रा॒त्रस्य॑ । वीति॑ । हि । तत् । अ॒वैर्य॒तेत्य॑व-ऐर्य॑त । इति॑ ।

भट्टभास्कर-टीका

अनायतना हि विशीर्णस्थानत्वात् । तस्मात्त्रिरात्रस्य मध्यममहः शिथिलमित्याह । हेतुं चाह - वि हि तदवैर्यतेति । तन्मध्यममहः व्यवैर्यत विशीर्णमभवत् । फलस्य विशीर्णत्वात् । ‘हि च’ इति निघातप्रतिषेधः । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च ।

विश्वास-प्रस्तुतिः

त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति ।

मूलम्

त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति ।

पद-पाठः

त्रैष्टु॑भम् । म॒ध्य॒मस्य॑ । अह्नः॑ । आज्य॑म् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

तस्मान्मध्यमस्याह्नः आज्यं त्रैष्टुभं भवति । पूर्ववत् होतुराज्यमिति वेदितव्यम् ।

विश्वास-प्रस्तुतिः

सय्ँ॒याना॑नि सू॒क्तानि॑ शँसति ।

मूलम्

सय्ँ॒याना॑नि सू॒क्तानि॑ शँसति ।

पद-पाठः

सय्ँ॒याना॒नीति॑ सम्-याना॑नि । सू॒क्तानीति॑ सु-उ॒क्तानि॑ । शँ॒स॒ति॒ ।

भट्टभास्कर-टीका

संयानानि सूक्तानि शंसति तेषां महत्त्वात् ।

विश्वास-प्रस्तुतिः

षो॒ड॒शिनँ॑ शँसति ।
अह्नो॒ धृत्या॒ अशि॑थिलम्भावाय ।

मूलम्

षो॒ड॒शिनँ॑ शँसति ।
अह्नो॒ धृत्या॒ अशि॑थिलम्भावाय ।

पद-पाठः

षो॒ड॒शिन॑म् । शँ॒स॒ति॒ ।
अह्नः॑ । धृत्यै॑ । अशि॑थिलम्भावा॒येत्यशि॑थिलम्-भा॒वा॒य॒ ।

भट्टभास्कर-टीका

षोडशिनं च शस्त्रं शंसति अह्नो दुर्बलत्वात् । तस्य धृत्यै धारणार्थं, अशिथिलंभावाय । छान्दसः खश् ।

विश्वास-प्रस्तुतिः

तस्मा॑त् त्रिरा॒त्रस्या॑ग्निष्टो॒म ए॒व प्र॑थ॒ममह॑स् स्यात्, अथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।

मूलम्

तस्मा॑त् त्रिरा॒त्रस्या॑ग्निष्टो॒म ए॒व प्र॑थ॒ममह॑स् स्यात्, अथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।

पद-पाठः

तस्मा॑त् । त्रि॒रा॒त्रस्येति॑ त्रि-रा॒त्रस्य॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । ए॒व । प्र॒थ॒मम् । अहः॑ । स्या॒त् । अथ॑ । उ॒क्थ्यः॑ । अथ॑ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः ए॒षाम् । लो॒काना॑म् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ ।

भट्टभास्कर-टीका

यस्मादेवमेनान् एतैरयाजयत् तस्मात् त्रिरात्रस्येत्यादि । स्पष्टम् ॥

मूलम् (संयुक्तम्)

त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17] ए॒षाल्ँ लो॒काना॒मनु॒ सन्त॑त्यै

विश्वास-प्रस्तुतिः

त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17],

मूलम्

त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17],

पद-पाठः

त्रीणि॑त्री॒णीति॒ त्रीणि॑-त्री॒णि॒ । श॒तानि॑ । अ॒नू॒ची॒ना॒हमित्य॑नूचीन-अ॒हम् । अव्य॑वच्छिन्ना॒नीत्यवि॑-अ॒व॒च्छि॒न्ना॒नि॒ । द॒दा॒ति॒ । [17]

भट्टभास्कर-टीका

6त्रीणित्रीणीत्यादि ॥ अनूचीनाहमव्यवच्छिन्नानि ददाति । उत्तमेऽह्नि चत्वारिंशता । अन्वञ्चतीति ‘ऋत्विक्’ इत्यादिना क्विप्, ‘अनिदिताम्’ इति नलोपः, ‘विभाषाञ्चेः’ इत्यादिना खः, ‘चौ’ इति दीर्घत्वम्, अनूचीनाहं, समासे ‘राजाहस्सखिभ्यष्टच्’

विश्वास-प्रस्तुतिः

ए॒षाल्ँ लो॒काना॒मनु॒ सन्त॑त्यै।

मूलम्

ए॒षाल्ँ लो॒काना॒मनु॒ सन्त॑त्यै।

पद-पाठः

ए॒षाम् । लो॒काना॑म् । अन्विति॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।

भट्टभास्कर-टीका

एषां लोकानामनुक्रमेण सन्तत्यै सन्तानार्थं तद्भवति ॥

मूलम् (संयुक्तम्)

द॒शत॒न्न विच्छि॑न्द्याद्वि॒राज॒न्नेद्वि॑च्छि॒नदा॒नीति

विश्वास-प्रस्तुतिः

द॒शत॒न्न विच्छि॑न्द्यात् । वि॒राज॒न् नेद्वि॑च्छि॒नदा॒नीति॑ ।

मूलम्

द॒शत॒न्न विच्छि॑न्द्यात् । वि॒राज॒न् नेद्वि॑च्छि॒नदा॒नीति॑ ।

पद-पाठः

द॒शत॑म् । न । वीति॑ । छि॒न्द्या॒त् ।
वि॒राज॒मिति॑ वि-राज॑म् । न । इत् । वि॒च्छि॒नदा॒नीति॑ वि-छि॒नदा॑नि । इति॑ ।

भट्टभास्कर-टीका

7दशतमित्यादि ॥ दशानां वर्गो दशत्, ‘पञ्चद्दशतौ वर्गे वा’ इति निपात्यते । तं न विच्छिन्द्यात् दक्षिणां ददत् द- शभ्यो न्यूनं न दद्यात् विराजं नेद्विच्छिनदानीति विराजोन्नस्य विच्छित्तिर्मे मा भूदिति यावत् । ‘निपातैर्यद्यदिहन्त’ इत्यादिना निघाताभावः । पर्वूवद्गतिस्वरसमासौ । अथ यस्मै एकां गां दास्यन् स्यात् द्वे पञ्च वा तत्र कथं भवितव्यम्? अत्रोक्तमाचार्येण - ‘यस्मा एकां गां दास्यन् स्यात् दशभ्यस्तेभ्यो दशतमपाकुर्यात् । यस्मै द्वे पञ्चभ्यः यस्मै पञ्च द्वाभ्यामेवमा शतादासहस्रात्’ इति ॥

मूलम् (संयुक्तम्)

अथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताँ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दव्ँविष्णु॑स्स॒हस्रव्ँ॑वर्क्ष्यत॒ इति॒ तस्या॑मकल्पेता॒न्

विश्वास-प्रस्तुतिः

अथ॒ या स॑हस्रत॒म्यासी॒त्, तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताम्।

मूलम्

अथ॒ या स॑हस्रत॒म्यासी॒त्, तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताम्।

पद-पाठः

अथ॑ । या । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी । आसी॑त् । तस्या॑म् । इन्द्रः॑ । च॒ । विष्णुः॑ । च॒ । व्याय॑च्छेता॒मिति॑ वि-आय॑च्छेताम् ।

भट्टभास्कर-टीका

8अथ या सहस्रतमी गौरासीत् तस्यां तन्निमित्तं इद्रो विष्णुश्च व्यायच्छेतां ममेयं ममेयमिति विप्रतिपन्नावभवताम् । ‘गतिर्गतौ’ इति गतेरनुदात्तत्वम्, समासश्च पूर्ववत् ।

विश्वास-प्रस्तुतिः

स इन्द्रो॑ऽमन्यत - “अ॒नया॒ वा इ॒दव्ँ विष्णु॑स् स॒हस्रव्ँ॑ वर्क्ष्यत॒” इति॑ ।
तस्या॑म् अकल्पेताम् ।

मूलम्

स इन्द्रो॑ऽमन्यत - “अ॒नया॒ वा इ॒दव्ँ विष्णु॑स् स॒हस्रव्ँ॑ वर्क्ष्यत॒” इति॑ ।
तस्या॑म् अकल्पेताम् ।

पद-पाठः

सः । इन्द्रः॑ । अ॒म॒न्य॒त॒ ।
अ॒नया॑ । वै । इ॒दम् । विष्णुः॑ । स॒हस्र॑म् । व॒र्क्ष्य॒ते॒ । इति॑ ।
तस्या॑म् । अ॒क॒ल्पे॒ता॒म् ।

भट्टभास्कर-टीका

अथेन्द्रोमन्यत यदीमां विष्णुर्लभेत ततोनया सहस्रमपि वर्क्ष्यते वशीकरोति । वृजिरावर्जनकर्मा, लृट् स्यः । तस्मादधिकभाजा मया भवितव्यमिति तस्यां तावकल्पेतां व्यवस्थां कृतवन्तौ भागयोः ॥

मूलम् (संयुक्तम्)

द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनू॑च्यत उ॒भा जि॑ग्यथु॒रिति॒ ताव्ँवा ए॒ताम॑च्छावा॒कः [18]
ए॒व शँ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रव्ँ॒ वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताना॑प्तस्यापयि॒ता

विश्वास-प्रस्तुतिः

द्विभा॑ग॒ इन्द्रः॑, तृती॑ये॒ विष्णुः॑ +++(व्यवस्थितः)+++।

मूलम्

द्विभा॑ग॒ इन्द्रः॑, तृती॑ये॒ विष्णुः॑ +++(व्यवस्थितः)+++।

पद-पाठः

द्विभा॑ग॒ इति॒ द्वि-भा॒गे॒ । इन्द्रः॑ । तृती॑ये । विष्णुः॑ ।

भट्टभास्कर-टीका

9द्विभाग इत्यादि ॥ द्वयोर्भागयोरिन्द्रो व्यवस्थितः । ‘द्विगौ प्रमाणे’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥ द्वयोर्भागयोस्समाहारो द्विभागः । तृतीयो भागस्त्रिभागः । तत्र विष्णुर्व्यवस्थितः ‘पूरणाद्भागे तीयादन्’ इत्यन्प्रत्ययः ।

विश्वास-प्रस्तुतिः

तद्वा ए॒षाभ्यनू॑च्यते, उ॒भा जि॑ग्यथु॒रिति॑ ।

मूलम्

तद्वा ए॒षाभ्यनू॑च्यते, उ॒भा जि॑ग्यथु॒रिति॑ ।

पद-पाठः

तत् । वै । ए॒षा । अ॒भ्यनू॑च्यत॒ इत्य॑भि-अनू॑च्यते ।
उ॒भा । जि॒ग्य॒थुः॒ । इति॑

भट्टभास्कर-टीका

तदेतदर्थरूपमभिलक्ष्य एषा वक्ष्यमाणा ऋगुच्यते ‘उभा जिग्यथुः’ इति । व्याख्याता चेयं ‘प्रसो अग्ने'18 इत्यत्र उत्तरत्र चानुवाके व्यक्तार्था भविष्यति ।

विश्वास-प्रस्तुतिः

ताव्ँवा ए॒ताम॑च्छावा॒क ए॒व शँ॑सति । [18]

मूलम्

ताव्ँवा ए॒ताम॑च्छावा॒क ए॒व शँ॑सति । [18]

पद-पाठः

ताम् । वै । ए॒ताम् । अ॒च्छा॒वा॒कः । [18] ए॒व । शँ॒स॒ति॒ ।

भट्टभास्कर-टीका

तामेतामच्छावाक एव शंसति ।

विश्वास-प्रस्तुतिः

अथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रव्ँ॒ वा अ॒भ्यति॑रिच्यते।

मूलम्

अथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रव्ँ॒ वा अ॒भ्यति॑रिच्यते।

पद-पाठः

अथ॑ । या । स॒ह॒स्र॒त॒मीति॑ सहस्र-त॒मी । सा । होत्रे॑ । देया॑ । इति॑ ।
होता॑रम् । वै । अ॒भ्यति॑रिच्यत॒ इत्य॑भि-अति॑रिच्यते ।

भट्टभास्कर-टीका

अथ सहस्रतमी होतुर्भागे देया ।

विश्वास-प्रस्तुतिः

यद् अ॑ति॒रिच्य॑ते होता, ऽना॑प्तस्यापयि॒ता ।

मूलम्

यद् अ॑ति॒रिच्य॑ते होता, ऽना॑प्तस्यापयि॒ता ।

पद-पाठः

यत् । अ॒ति॒रिच्य॑त॒ इत्य॑ति-रिच्य॑ते । होता॑ । अना॑प्तस्य । आ॒प॒यि॒ता ।

भट्टभास्कर-टीका

हेतुमाह - यद्यज्ञेऽतिरिच्यते तस्योत्तरमभिलक्ष्यातिरिच्यते तस्मादतिरिक्तस्स्याद्धोता । पूर्ववत् ‘गतिर्गतौ’ इति गतेरनुदात्तत्वम्, उत्तरत्र ‘तिङि चोदात्तवति’ इति, उभयत्र समासः पूर्ववत् । किंच - अनाप्तस्य प्रापयिता होता यद्यज्ञस्योन्नतस्य पूरयिता समीकर्ता होता तां गामर्हतीति ॥

मूलम् (संयुक्तम्)

अथा॑हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हु॒स्सर्वे॑भ्यस्सद॒स्ये॑भ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वश॑ञ्चरे॒दिति॑

विश्वास-प्रस्तुतिः

अथा॑हुरुन्ने॒त्रे देयेति॑ ।
अति॑रिक्ता॒ वा ए॒षा स॒हस्र॑स्य ।
अति॑रिक्त उन्ने॒तर्त्विजा॑म् ।

मूलम्

अथा॑हुरुन्ने॒त्रे देयेति॑ ।
अति॑रिक्ता॒ वा ए॒षा स॒हस्र॑स्य ।
अति॑रिक्त उन्ने॒तर्त्विजा॑म् ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
उ॒न्ने॒त्र इत्यु॑त्-ने॒त्रे । देया॑ । इति॑ । अति॑रि॒क्तेत्यति॑-रि॒क्ता॒ । वै । ए॒षा । स॒हस्र॑स्य ।
अति॑रिक्त॒ इत्यति॑-रि॒क्तः॒ । उ॒न्ने॒तेत्यु॑त्-ने॒ता । ऋ॒त्विजा॑म् ।

भट्टभास्कर-टीका

10अथाहुः अन्ये उन्नेत्रे देयेति ॥ हेतुं चाहुः - अतिरिक्ता खल्वेषा सवीर्या सहस्रस्य । उन्नेता च ऋत्विजां हारियोजनस्य धारयिता ।

विश्वास-प्रस्तुतिः

अथा॑हु॒स् सर्वे॑भ्यस् सद॒स्ये॑भ्यो॒ देयेति॑ ।

मूलम्

अथा॑हु॒स् सर्वे॑भ्यस् सद॒स्ये॑भ्यो॒ देयेति॑ ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
सर्वे॑भ्यः । स॒द॒स्ये॑भ्यः । देया॑ । इति॑ ।

भट्टभास्कर-टीका

अथान्ये वदन्ति - सर्वेभ्य इति । गतम् ।

विश्वास-प्रस्तुतिः

अथा॑हुर् उदा॒कृत्या॒ सा वश॑ञ्चरे॒द् इति॑ ।

मूलम्

अथा॑हुर् उदा॒कृत्या॒ सा वश॑ञ्चरे॒द् इति॑ ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
उ॒दा॒कृत्येत्यु॑त्-आ॒कृत्या॑ । सा । वश॑म् । च॒रे॒त् । इति॑ ।

भट्टभास्कर-टीका

अथाहुरपरे - उदाकृत्या सावशं चरेदिति । उदाकरणमुत्सर्जनं, तदर्हा असंज्ञायामपि क्यप्च’ इति अर्हार्थे क्यप्, तुगागमः । सा वशं चरेदिति यथेष्ठं स्वतन्त्रा गच्छेदित्यर्थः । न तु कश्चिदपि स्वामितया विशेषेण सहस्रतमी नियन्तुमर्हतीति ॥

मूलम् (संयुक्तम्)

अथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ [19], द्विभा॑गम्ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वै॑ष्ण॒वो॑ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्

विश्वास-प्रस्तुतिः

अथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ । [19]
द्विभा॑गम् ब्र॒ह्मणे॒ तृती॑यम् अ॒ग्नीधे॑ ।

मूलम्

अथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ । [19]
द्विभा॑गम् ब्र॒ह्मणे॒ तृती॑यम् अ॒ग्नीधे॑ ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
ब्र॒ह्मणे॑ । च॒ । अ॒ग्नीध॒ इत्य॑ग्नि-इधे॑ । च॒ । देया॑ । इति॑ । [19] द्विभा॑ग॒मिति॒ द्वि-भा॒ग॒म् । ब्र॒ह्मणे॑ । तृ॒तीय॑म् । अ॒ग्नीध॒ इत्य॑ग्नि-इधे॑ ।

भट्टभास्कर-टीका

11अथापरे ब्रुवते - ब्रह्मण इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रो वै ब्र॒ह्मा, वै॒ष्ण॒वो॑ऽग्नीद्, यथै॒व तावक॑ल्पेता॒मिति॑ ।

मूलम्

ऐ॒न्द्रो वै ब्र॒ह्मा, वै॒ष्ण॒वो॑ऽग्नीद्, यथै॒व तावक॑ल्पेता॒मिति॑ ।

पद-पाठः

ऐ॒न्द्रः । वै । ब्र॒ह्मा । वै॒ष्ण॒वः । अ॒ग्नीदित्य॑ग्नि-इत् ।
यथा॑ । ए॒व । तौ । अक॑ल्पेताम् । इति॑ ।

भट्टभास्कर-टीका

यथैवेति । यथैव इन्द्रविष्णुभ्यां कल्पितं तथैव तदीययोः ब्रह्माग्नीध्रयोः युक्तं भवितुमर्हतीति ॥

मूलम् (संयुक्तम्)

अथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒

विश्वास-प्रस्तुतिः

अथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेेति॑ ।

मूलम्

अथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेेति॑ ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
या । क॒ल्या॒णी । ब॒हु॒रू॒पेति॑ बहु-रू॒पा । सा । देया॑ । इति॑ ।

भट्टभास्कर-टीका

12अथान्ये आचक्षते - या कल्याणी गुणवती अनेकरूपा च तादृशी अन्या देयेति ॥ ‘वहोर्नञ्वत्, इति नञ्वद्भावात् ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

अथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑, स॒हस्र॑स्य॒ परि॑गृहीत्यै ।

मूलम्

अथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑, स॒हस्र॑स्य॒ परि॑गृहीत्यै ।

पद-पाठः

अथ॑ । आ॒हुः॒ ।
या । द्वि॒रू॒पेति॑ द्वि-रू॒पा । उ॒भ॒यत॑ए॒नीत्यु॑भ॒यतः॑-ए॒नी॒ । सा । देया॑ । इति॑ । स॒हस्र॑स्य । परि॑गृहीत्या॒ इति॒ परि॑-गृ॒ही॒त्यै॒ ।

भट्टभास्कर-टीका

अपरे चाहुः - या द्विरूपा उभयतएनी उभयपार्श्वशुक्ला सा तादृशी देयेति । तत्सहस्रस्य परिगृहीत्यै सहस्रस्य परिग्रहार्थं भवति । अन्यासां गवाम् । ‘वर्णादनुदात्तात्’ इति ङीप्, एनीशब्दस्य नत्वम्, ‘तत्पुरुषे’ अव्ययपूर्वपदप्रकृतिस्वरत्वम् ‘नञ्कुनिपातानामेव’ इति चेत् व्यत्ययेन भविष्यति । द्विरूपशब्दः निरुदकादिषु द्रष्टव्यः ॥

मूलम् (संयुक्तम्)

तद्वा ए॒तत्स॒हस्र॒स्याय॑नँ स॒हस्रँ॑ स्तो॒त्रीयाः॑ स॒हस्र॒न्दक्षि॑णास्स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कस्सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ [20]

विश्वास-प्रस्तुतिः

तद्वा ए॒तत्स॒हस्र॒स्याय॑नम् ।

मूलम्

तद्वा ए॒तत्स॒हस्र॒स्याय॑नम् ।

पद-पाठः

तत् । वै । ए॒तत् । स॒हस्र॑स्य । अय॑नम् ।

भट्टभास्कर-टीका

13तद्वा इत्यादि ॥ तदेतत्त्रिरात्राख्यं कर्म सहस्रस्यायनं लाभहेतुः ।

विश्वास-प्रस्तुतिः

स॒हस्रँ॑ स्तो॒त्रीयाः॑ ,

मूलम्

स॒हस्रँ॑ स्तो॒त्रीयाः॑ ,

पद-पाठः

स॒हस्र॑म् । स्तो॒त्रीयाः॑ ।

भट्टभास्कर-टीका

सहस्रमस्य स्तोत्रीया भवन्ति, नवत्यधिकशतमग्निष्टोमस्य, त्रिपञ्चाशदधिकं शतद्वयमुक्थ्यस्य । द्विचत्वारिंशदधिकानि चत्वारि शतान्यतिरात्रस्य । शेषं वैकृतं पञ्चदशाधिकं शतं च द्विरात्रे दर्शितम् । सर्वस्तोमे स्तोत्रे भवाः स्तोत्रीयाः । गर्गादित्वाच्छः ।

विश्वास-प्रस्तुतिः

स॒हस्र॒न्दक्षि॑णाः ।

मूलम्

स॒हस्र॒न्दक्षि॑णाः ।

पद-पाठः

स॒हस्र॑म् । दक्षि॑णाः ।

भट्टभास्कर-टीका

अथास्य सहस्रं दक्षिणा भवन्ति ।

विश्वास-प्रस्तुतिः

स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ [20]

मूलम्

स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ [20]

पद-पाठः

स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑-स॒म्मि॒तः॒ । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि-जि॒त्यै॒ ॥ [20]

भट्टभास्कर-टीका

यस्मादेवं तस्मात् सहस्रसम्मितस्य महत्त्वात् सहस्रतुल्यस्य स्वर्गस्य लोकस्य विजयाय भवति । ‘तादौ च ’ इति गतेः प्रकृतिस्वरत्वम् । सहस्रेण सम्मितं तुल्यमिति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । उपमानपूर्वपदप्रकृतिस्वरत्वं वा ॥

इति सप्तमे प्रथमे पञ्चमोनुवाकः ॥