सोमऋषिः
मूलम् (संयुक्तम्)
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तेषाँ॑ ह॒विष्माँ॑श्च हवि॒ष्कृच्चा॑हीयेता॒न्ताव॑कामयेताँ सुव॒र्गल्ँ लो॒कमि॑या॒वेति॒ तावे॒तन्द्वि॑रा॒त्रम॑पश्यता॒न्तमाह॑रता॒न्तेना॑यजेता॒न्ततो॒ वै तौ सु॑व॒र्गल्ँ लो॒कमै॑ताय्ँ॒य ए॒वव्ँवि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैता॒म्पूर्वे॒णाऽह्नाऽग॑च्छता॒मुत्त॑रेण [11]
अ॒भि॒प्ल॒वᳶ पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑र॒ञ्
विश्वास-प्रस्तुतिः
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत ।
मूलम्
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत ।
पद-पाठः
भट्टभास्कर-टीका
1एवं सर्वेऽप्येकाहा विहिताः । द्विरात्रादयोप्यहीनाः क्रमेण विधीयन्ते । सर्वे चाहीनाः अन्यतरतोतिरात्रा भवन्ति । यदि चैवाहीनो यदि च सत्रं, उभयथैवोभयतोतिरात्रो द्वादशाहो भवति आदेशात् । ‘अन्यथाऽहीनोपि उभयतोतिरात्रो भवति । सर्वमुत्तरत्र वक्ष्यते । अङ्गिरस इत्यादि ॥ आसिरयमकर्मकः, सोस्मिन्विषये आस्थानकर्मेत्येके । यथा सत्रं भवति तथाऽऽसतेत्यन्ये । सत्रासनं सहासनं क्रतुविशेषस्याख्या, तदकुर्वतेत्यपरे ॥ यथा ‘प्रति प्रातिष्ठदध्वरे’ इत्यादि ।
विश्वास-प्रस्तुतिः
ते सु॑व॒र्गल्ँ लो॒कमा॑यन् । तेषाँ॑ ह॒विष्माँ॑श्च हवि॒ष्कृच्चा॑हीयेताम् ।
मूलम्
ते सु॑व॒र्गल्ँ लो॒कमा॑यन् । तेषाँ॑ ह॒विष्माँ॑श्च हवि॒ष्कृच्चा॑हीयेताम् ।
पद-पाठः
ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
तेषा॑म् । ह॒विष्मान्॑ । च॒ । ह॒वि॒ष्कृदिति॑ हविः-कृत् । च॒ । अ॒ही॒ये॒ता॒म् ।
भट्टभास्कर-टीका
तेषां मध्ये हविष्मद्धविष्कृन्नामानौ अहीयेतां तस्मात्स्थानात्प्रच्युतौ ।
विश्वास-प्रस्तुतिः
ताव् अ॑कामयेताम् - सुव॒र्गल्ँ लो॒कम् इ॒या॒वेति॑ ।
ताव् ए॒तन् द्वि॑रा॒त्रम् अ॑पश्यताम् ।
मूलम्
ताव् अ॑कामयेताम् - सुव॒र्गल्ँ लो॒कम् इ॒या॒वेति॑ ।
ताव् ए॒तन् द्वि॑रा॒त्रम् अ॑पश्यताम् ।
पद-पाठः
तौ । अ॒का॒म॒ये॒ता॒म् ।
सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । इ॒या॒व॒ । इति॑ ।
तौ । ए॒तम् । द्वि॒रा॒त्रमिति॑ द्वि-रा॒त्रम् । अ॒प॒श्य॒ता॒म् ।
भट्टभास्कर-टीका
तावकामयेतामिति । चत्वारो द्विरात्राः व्युष्टिद्विरात्राङ्गिरसकपिवन चेत्ररथनामानः । तत्रैतमित्याङ्गिरसं निर्दिशति इतरनिवृत्त्यर्थम् ।
विश्वास-प्रस्तुतिः
तमाह॑रताम्। तेना॑यजेताम् । ततो॒ वै तौ सु॑व॒र्गल्ँ लो॒कमै॑ताम् ।
य ए॒वव्ँ वि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते, सुव॒र्गम् ए॒व लो॒कम् ए॑ति।
तावैताम् पूर्वे॒णाऽह्नाऽग॑च्छता॒म् उत्त॑रेण ।
मूलम्
तमाह॑रताम्। तेना॑यजेताम् । ततो॒ वै तौ सु॑व॒र्गल्ँ लो॒कमै॑ताम् ।
य ए॒वव्ँ वि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते, सुव॒र्गम् ए॒व लो॒कम् ए॑ति।
तावैताम् पूर्वे॒णाऽह्नाऽग॑च्छता॒म् उत्त॑रेण ।
पद-पाठः
तम् । एति॑ । अ॒ह॒र॒ता॒म् ।
तेन॑ । अ॒य॒जे॒ता॒म् ।
ततः॑ । वै । तौ । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ऐ॒ता॒म् ।
यः । ए॒वम् । वि॒द्वान् । द्वि॒रा॒त्रेणेति॑ द्वि-रा॒त्रेण॑ । यज॑ते । सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । लो॒कम् । ए॒ति॒ ।
तौ । ऐता॑म् । पूर्वे॑ण । अह्ना॑ । अग॑च्छताम् । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ । [11]
भट्टभास्कर-टीका
तमाहरतां इष्टसाधन त्वेन गृहीतवन्तौ, तेनायजेतां इष्टं साधितवन्तौ । यद्वा - तमाहरतां तमारभेतां तेन अयजेतां देवान् पूजितवन्तौ ततस्स्वर्गं गतौ । ऐतां स्वर्गार्थं प्रस्थितौ, अगच्छतां स्वर्गं प्राप्तवन्तौ ।
विश्वास-प्रस्तुतिः
अ॒भि॒प्ल॒वᳶ पूर्व॒मह॑र्भवति , गति॒रुत्त॑रम् ।
मूलम्
अ॒भि॒प्ल॒वᳶ पूर्व॒मह॑र्भवति , गति॒रुत्त॑रम् ।
पद-पाठः
अ॒भि॒प्ल॒व इत्य॑भि-प्ल॒वः । पूर्व॑म् । अहः॑ । भ॒व॒ति॒ । गतिः॑ । उत्त॑र॒मित्युत्-त॒र॒म् ।
भट्टभास्कर-टीका
अभिप्लवः षडहस्याद्यमहः अस्य पूर्वमहर्भवति । गतिरुत्तरमिति । अष्टमोतिरात्रविशेषः उत्तरमहर्भवति ॥
मूलम् (संयुक्तम्)
ज्योति॑ष्टोमोऽग्निष्टो॒मᳶ पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्द्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रँ॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
ज्योति॑ष्टोमो ऽग्निष्टो॒मᳶ पूर्व॒म् अह॑र् भवति । तेज॒स्तेन अव॑ रुन्धे ।
मूलम्
ज्योति॑ष्टोमो ऽग्निष्टो॒मᳶ पूर्व॒म् अह॑र् भवति । तेज॒स्तेन अव॑ रुन्धे ।
पद-पाठः
ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑-स्तो॒मः॒ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । पूर्व॑म् । अहः॑ । भ॒व॒ति॒ । तेजः॑ । तेन॑ । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
2तयोः स्तोमविधानार्थमाह - ज्योतिष्टोमः त्रिवृदादिस्तोमचतुष्टयवानग्निष्टोमः अग्निष्टोमसामान्तं पूर्वमहर्भवति ।
विश्वास-प्रस्तुतिः
सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रम् । सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुध्यै ।
मूलम्
सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रम् । सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुध्यै ।
पद-पाठः
सर्व॑स्तोम॒ इति॒ सर्व॑-स्तो॒मः॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । उत्त॑र॒मित्युत्-त॒र॒म् ।
सर्व॑स्य । आप्त्यै॑ । सर्व॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ।
भट्टभास्कर-टीका
सर्वस्तोमः सर्वसंस्थासंबन्धिस्तोमवानतिरात्रो द्वितीयमहर्भवति । यथोक्तं - ‘चतुर्विंशाः पवमानाः पञ्चदशानि त्रीण्याज्यानि, सप्तदशमच्छावाकस्य एकविंशानि त्रीणि पृष्ठानि, त्रिणव मच्छावाकस्य त्रयस्त्रिंशोग्निष्टोमसामानि एकविंशान्युक्थ्यानि सषोडशिकानि पञ्चदशी रात्रिः त्रिवृत्सन्धिः’ इति ॥
मूलम् (संयुक्तम्)
गाय॒त्रम्पूर्वेह॒न्त्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सन्तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्य॑न्त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते
विश्वास-प्रस्तुतिः
गा॒य॒त्रम्पूर्वेह॒न्त्साम॑ भवति। तेजो॒ वै गा॑य॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम्। तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते।
मूलम्
गा॒य॒त्रम्पूर्वेह॒न्त्साम॑ भवति। तेजो॒ वै गा॑य॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम्। तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते।
पद-पाठः
गा॒य॒त्रम् । पूर्वे॑ । अह॑न् । साम॑ । भ॒व॒ति॒ ।
तेजः॑ । वै । गा॒य॒त्री ।
गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् ।
तेजः॑ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । आ॒त्मन् । ध॒त्ते॒ ।
भट्टभास्कर-टीका
3गायत्रं गायत्रीप्रभवं पूर्वेऽह्नि साम भवति।
विश्वास-प्रस्तुतिः
त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्य॑म्, त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते।
मूलम्
त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्य॑म्, त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते।
पद-पाठः
त्रैष्टु॑भम् । उत्त॑र॒ इत्युत्-त॒रे॒ ।
ओजः॑ । वै । वी॒र्य॑म् । त्रि॒ष्टुक् ॥
ओजः॑ । ए॒व । वी॒र्य॑म् । आ॒त्मन् । ध॒त्ते॒ ।
भट्टभास्कर-टीका
त्रैष्टुभमुत्तरस्मिन्नह्नि । आज्ये त्रैष्टुभस्य साम्नोभावात् होतुराज्ये विधानम् । यथोक्तमाचार्येण - ‘होतुराज्यं संपादयेत्’ इति ॥
मूलम् (संयुक्तम्)
रथन्त॒रम्पूर्वे॑ [12] अह॒न्त्साम॑ भवती॒यव्ँ वै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हु॒ᳵ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑
विश्वास-प्रस्तुतिः
र॒थ॒न्त॒रम् पूर्वेह॒न्त् साम॑ भवति ।[12]
मूलम्
र॒थ॒न्त॒रम् पूर्वेह॒न्त् साम॑ भवति ।[12]
पद-पाठः
र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् । पूर्वे॑ । [12] । अह॑न् । साम॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
4रथन्तरं बृहच्च पृष्ठेषु नियम्यते ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति,
बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति।
तदा॑हु॒ᳵ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ ।
मूलम्
इ॒यव्ँ वै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति,
बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति।
तदा॑हु॒ᳵ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ ।
पद-पाठः
इ॒यम् । वै । र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् ।
अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।
बृ॒हत् । उत्त॑र॒ इत्युत्-त॒रे॒ ।
अ॒सौ । वै । बृ॒हत् ।
अ॒मुष्या॑म् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।
तत् । आ॒हुः॒ ।
क्व॑ । जग॑ती । च॒ । अ॒नु॒ष्टुबित्य॑नु-स्तुप् । च॒ । इति॑ ।
भट्टभास्कर-टीका
तदाहुरिति । तत्र चोदयन्तीत्यर्थः । एते गायत्रीत्रिष्टुभौ दृष्टे । क्वेदानीं जगत्यनुष्टुभौ द्रष्टव्ये इति ॥
मूलम् (संयुक्तम्)
वैखान॒सम्पूर्वेऽह॒न्त्साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभः
विश्वास-प्रस्तुतिः
वै॒खा॒न॒सम् पूर्वेऽह॒न्त्साम॑ भवति ।
मूलम्
वै॒खा॒न॒सम् पूर्वेऽह॒न्त्साम॑ भवति ।
पद-पाठः
वै॒खा॒न॒सम् । पूर्वे॑ । अह॑न् । साम॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
5परिहरति - वैखानसमिति ॥ पृष्ठेपु बार्हतं साम वैखानसं भवति बृहतीचतुरभ्यासात् षट्त्रिंशदक्षरा । तत्र चतस्रो जगत्यो भवन्ति ।
विश्वास-प्रस्तुतिः
तेन॒ जग॑त्यै॒ नैति॑ ।
मूलम्
तेन॒ जग॑त्यै॒ नैति॑ ।
पद-पाठः
तेन॑ । जग॑त्यै । न । ए॒ति॒ ।
षो॒ड॒शि । उत्त॑र॒ इत्युत्-त॒रे॒ । तेन॑ । अ॒नु॒ष्टुभ॒ इत्य॑नु-स्तुभः॑ ।
भट्टभास्कर-टीका
तेन जगत्यै जगत्या नैति न हीयते यज्ञः ।
विश्वास-प्रस्तुतिः
षो॒ड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभः॑ । +++(नैति)+++ ।
मूलम्
षो॒ड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभः॑ । +++(नैति)+++ ।
पद-पाठः
षो॒ड॒शि । उत्त॑र॒ इत्युत्-त॒रे॒ । तेन॑ । अ॒नु॒ष्टुभ॒ इत्य॑नु-स्तुभः॑ ।
भट्टभास्कर-टीका
षोडशीसाम गौरिवीतमुत्तरस्मिन्नह्नि भवति उक्थ्येभ्यः पुरस्तात् भवति । द्वे चानुष्टुभौ । तेनानुष्टुभो नैतीत्येव ॥
मूलम् (संयुक्तम्)
अथा॑हु॒र्यत्स॑मा॒ने॑ऽर्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑र॒न्नानै॒वार्ध॑मा॒सयो॑र्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ॥ [13]
विश्वास-प्रस्तुतिः
अथा॑हु॒र्यत्स॑मा॒ने॑ऽर्धमा॒से स्याता॑म्, अ॒न्य॒त॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्येत ।
मूलम्
अथा॑हु॒र्यत्स॑मा॒ने॑ऽर्धमा॒से स्याता॑म्, अ॒न्य॒त॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्येत ।
पद-पाठः
अथ॑ । आ॒हुः॒ ।
यत् । स॒मा॒ने । अ॒र्ध॒मा॒स इत्य॑र्ध-मा॒से । स्याता॑म् । अ॒न्य॒त॒रस्य॑ । अह्नः॑ । वी॒र्य॑म् । अन्विति॑ । प॒द्ये॒त॒ । इति॑ ।
भट्टभास्कर-टीका
6अथाहुः - यदि समाने एकस्मिन्नर्धमासे स्यातां द्वे अप्यहनी अन्यतरस्याह्नः वीर्यं फलसाधनसामर्थ्यं अनुपद्येत प्रसज्येत, एकमेवाहस्स्यादिति यावत् ।
विश्वास-प्रस्तुतिः
इत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भवति, उत्त॑रस्मि॒न्नुत्त॑रम् ।
मूलम्
इत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भवति, उत्त॑रस्मि॒न्नुत्त॑रम् ।
पद-पाठः
अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । पूर्व॑म् । अहः॑ । भ॒व॒ति॒ । उत्त॑रस्मि॒न्नित्युत्-त॒र॒स्मि॒न् । उत्त॑र॒मित्युत्-त॒र॒म् ।
भट्टभास्कर-टीका
तस्मादमावास्या यां पूर्वमहर्भवति । उत्तरस्मिन्यजनीयेऽह्नि द्वितीयमहर्भवति ।
विश्वास-प्रस्तुतिः
नानै॒वार्ध॑मा॒सयो॑र्भवतः, नाना॑वीर्ये भवतः ।
मूलम्
नानै॒वार्ध॑मा॒सयो॑र्भवतः, नाना॑वीर्ये भवतः ।
पद-पाठः
नाना॑ । ए॒व । अ॒र्ध॒मा॒सयो॒रित्य॑र्ध-मा॒सयोः॑ । भ॒व॒तः॒ ।
नाना॑वीर्ये॒ इति॒ नाना॑-वी॒र्ये॒ । भ॒व॒तः॒ ।
भट्टभास्कर-टीका
एवं क्रियमाणे नानाभूतयोः पृथग्भूतयोरर्धमासयोः कृतौ भवतः ।
विश्वास-प्रस्तुतिः
ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति।
मूलम्
ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति।
पद-पाठः
ह॒विष्म॑न्निधन॒मिति॑ ह॒विष्म॑त्-नि॒ध॒न॒म् । पूर्व॑म् । अहः॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
हविष्मन्निधनमिति । हविष्मच्छब्दवत् हविष्मत् निधनं स्तोमो यस्य तद्धविष्मन्निधनं पूर्वमहः ।
विश्वास-प्रस्तुतिः
ह॒वि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ॥ [13] ]
मूलम्
ह॒वि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ॥ [13] ]
पद-पाठः
ह॒वि॒ष्कृन्नि॑धन॒मिति॑ हवि॒ष्कृत्-नि॒ध॒न॒म् । उत्त॑र॒मित्युत्-त॒र॒म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ॥ [13]
भट्टभास्कर-टीका
एवं हविष्कृन्निधनमुत्तरमहः । तत्प्रतिष्ठित्यै भवति द्रष्टृभ्यां संबन्धेन अह्नोस्स्थिरत्वं भवति । एतेनाङ्गिरसेन सर्वे द्विरात्रा व्याख्याताः ॥
इति सप्तमे प्रथमे चतुर्थोनुवाकः ॥