मूलम् (संयुक्तम्)
प्र॒जन॑न॒ञ्ज्योति॑र॒ग्निर्दे॒वता॑ना॒ञ्ज्योति॑र्वि॒राट्छन्द॑सा॒ञ्ज्योति॑र्वि॒राड्वा॒चो॑ऽग्नौ सन्ति॑ष्ठते वि॒राज॑म॒भि सम्प॑द्यते॒ तस्मा॒त्तज्ज्योति॑रुच्यते
विश्वास-प्रस्तुतिः
प्र॒जन॑न॒ञ्ज्योतिः॑ ।
मूलम्
प्र॒जन॑न॒ञ्ज्योतिः॑ ।
पद-पाठः
प्र॒जन॑न॒मिति॑ प्र-जन॑नम् । ज्योतिः॑ ।
भट्टभास्कर-टीका
1षष्ठेन काण्डेन दीक्षाद्युदयनीयान्तोग्निष्टोमस्सगुणः प्रतिपादितः । स इदानीमिह विधीयते । पूर्वत्र हि कर्तव्यतामात्रमस्य विहितम् । अस्यैव गुणविकारास्सर्वसंस्था उत्तरा अत्यग्निष्टोमाद्यप्तोर्यामान्ताः । एतत्प्रकृतिकास्सर्वे विश्वजिदादय एकाहाः, द्विरात्रप्रभृतयश्चाहीनाः, द्वादशाहादीनि च सत्त्राणि । तत्र पूर्वप्रकरणशेषभूतं तद्गतमेव किञ्चिदारभ्यते । तत्र त्रिवृदादिस्तोमभेदनिबन्धनत्वात्तेषामह्नामहीनानां च विभागस्य । तेषां स्वरूपमुत्पत्तिं चाभिधास्यन् तन्निमित्तं चास्य ज्योतिरिति संज्ञां निर्वक्ष्यत् प्रथममनयैव संज्ञया इदमुपादाय विशिष्टफलसाधनत्वमस्य दर्शयतिप्रजनं ज्योतिरिति ॥ एषां च सर्वविकारार्थतां द्योतयितुं काण्डभेदः । अस्य च सर्वप्रकृतितां सूचयितुं काण्डभेदेन पृथक्कारः कृतः । तत्राद्यमनुवाकत्रयं सौम्यम्, शिष्टमपि सर्वं काण्डं वैश्वदेवम् । प्रजननं सर्वासां प्रजानां जन्महेतुः, वक्ष्यति च - ‘अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत’ इति । ज्योतिरग्निष्टोमः ।
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वता॑ना॒ञ्ज्योतिः॑ ।
मूलम्
अ॒ग्निर्दे॒वता॑ना॒ञ्ज्योतिः॑ ।
पद-पाठः
अ॒ग्निः । दे॒वता॑नाम् । ज्योतिः॑ ।
भट्टभास्कर-टीका
ज्योतिष्ट्वं चास्येदानीं प्रतिपादयति - अग्निरिति । देवानां मध्ये अग्निर्ज्योतिः द्योतमानो भवति,
विश्वास-प्रस्तुतिः
वि॒राट्छन्द॑सा॒ञ्ज्योतिः॑ ।
मूलम्
वि॒राट्छन्द॑सा॒ञ्ज्योतिः॑ ।
पद-पाठः
वि॒राडिति॑ वि-राट् । छन्द॑साम् । ज्योतिः॑ ।
भट्टभास्कर-टीका
छन्दसां मध्ये विराट् दशाक्षरा ज्योतिर्विराजमाना भवति।
विश्वास-प्रस्तुतिः
वि॒राड्वा॒चो॑ऽग्नौ सन्ति॑ष्ठते ।
मूलम्
वि॒राड्वा॒चो॑ऽग्नौ सन्ति॑ष्ठते ।
पद-पाठः
वि॒राडिति॑ वि-राट् । वा॒चः । अ॒ग्नौ । समिति॑ । ति॒ष्ठ॒ते॒ ।
भट्टभास्कर-टीका
भवतामग्निविराजौ ज्योतिषी, किन्निमित्तमग्निष्टोमस्य ज्योतिष्ट्वमित्याह - विराड्वाच इत्यादि । वाचस्स्तोमलक्षणायास्सम्बन्धिन्यग्नावाग्नेये अग्निष्टोमाख्ये यज्ञायज्ञीये सामनि संस्थिते विराट् संतिष्ठते विराट्संख्या पूर्यते, ‘वाचोग्नौ सन्तिष्ठते’ इति तलवकारब्राह्मणम् ।
विश्वास-प्रस्तुतिः
वि॒राज॑म॒भि सम्प॑द्यते ।
मूलम्
वि॒राज॑म॒भि सम्प॑द्यते ।
पद-पाठः
वि॒राज॒मिति॑ वि-राज॑म् । अ॒भि । समिति॑ । प॒द्य॒ते॒ ।
भट्टभास्कर-टीका
तां च विराजं संपद्यमानामभि अग्निष्टोमोपि सम्पद्यते । ‘अभिरभागे’ इत्यभेः लक्षणे कर्मप्रवचनीयत्वम् ।
विश्वास-प्रस्तुतिः
तस्मा॒त् तज् ज्योति॑र् उच्यते ।
मूलम्
तस्मा॒त् तज्ज्योति॑र् उच्यते ।
पद-पाठः
तस्मा॑त् । तत् । ज्योतिः॑ । उ॒च्य॒ते॒ ।
भट्टभास्कर-टीका
यस्मादयं ज्योतिर्द्द्वयसंपत्त्यधीनोस्यात्मलाभः तस्मात्सोग्निष्टोमो ज्योतिरुच्यते । तत्र बहिष्पवमाने नव स्तोत्रिया त्रिवृद्वहिष्पवमान इति । पञ्चदशान्याज्यानि; तत्र षष्टिः स्तोत्रीयाः । पञ्चदशो माध्यन्दिनः पवमान इति पञ्चदश स्तोत्रीयाः । सप्तदशानि पृष्ठानि; तत्र अष्टषष्टिः स्तोत्रीयाः । सप्तदशार्भवः पवमान इति सप्तदश स्तोत्रीयाः । एकविंशमग्निष्टोमसामेति एकविंशतिः स्तोत्रीयाः । एवमग्निष्टोमस्य द्वादशस्तोत्रस्य नवतिशतं स्तोत्रीया भवन्ति । ताश्च दशभिर्ह्रियमाणाः शुद्धं भागं प्रयच्छन्तीति विराट्सम्पत्तिः, नैवमुक्थ्यादीनां दशके सम्पूर्णे समाप्तिरिति ॥
मूलम् (संयुक्तम्)
द्वौ स्तोमौ॑ प्रातस्सव॒नव्ँव॑हतो॒ यथा॑ प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्य॑न्दिनँ॒ सव॑नय्ँ॒यथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च॒ द्वौ तृ॑तीयसव॒नय्ँयथा॒ वाक्च॑ प्रति॒ष्ठा च॒ पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः यङ्काम॑ङ्का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्ञुते॒ सर्वँ॒ ह्यस्थू॑रिणाभ्यश्ञु॒ते॑ऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासा॒म्परि॑गृहीतानामश्वत॒रोऽत्य॑प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट्तस्मा॑द्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बाया॒न्न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ [1]
विश्वास-प्रस्तुतिः
द्वौ स्तोमौ॑ प्रा॒त॒स्स॒व॒नव्ँव॑हतो॒, यथा॑ प्रा॒णश्चा॑पा॒नश्च॑ ।
मूलम्
द्वौ स्तोमौ॑ प्रा॒त॒स्स॒व॒नव्ँव॑हतो॒, यथा॑ प्रा॒णश्चा॑पा॒नश्च॑ ।
पद-पाठः
द्वौ । स्तोमौ॑ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः-स॒व॒नम् । व॒ह॒तः॒ । यथा॑ । प्रा॒ण इति॑ प्र-अ॒नः । च॒ । अ॒पा॒न इत्य॑प-अ॒नः । च॒ ।
भट्टभास्कर-टीका
2अथ के पुनस्ते स्तोमाः ? को वा यज्ञस्य तदुपकारः ? इत्याह - द्वावित्यादि ॥ त्रिवृत्पञ्चदशौ प्रातस्सवनं धारयतः। यथा प्राणापानौ पुरुषं धारयतः । जन्मकाल एवानेन संयुज्येते इति पूर्वभावित्वमेतयोः ।
विश्वास-प्रस्तुतिः
द्वौ माध्य॑न्दिनँ॒सव॑नं॒ +++(वहतः)+++ यथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च ।
मूलम्
द्वौ माध्य॑न्दिनँ॒सव॑नं॒ +++(वहतः)+++ यथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च ।
पद-पाठः
द्वौ । माध्य॑न्दिनम् । सव॑नम् । यथा॑ । चक्षुः॑ । च॒ । श्रोत्र॑म् । च॒ ।
भट्टभास्कर-टीका
द्वौ माध्यन्दिनं पञ्चदशसप्तदशौ वहत इत्येव, यथा चक्षुश्च श्रोत्रं च पुरुषं वहतः । जननोत्तरकालं विषयग्रहणमेतयोर्भवतीति मध्यभावित्वमेतयोः ।
विश्वास-प्रस्तुतिः
द्वौ तृ॑तीयसव॒नम् +++(वहतः)+++, यथा॒ वाक्च॑ प्रति॒ष्ठा च ।
मूलम्
द्वौ तृ॑तीयसव॒नम् +++(वहतः)+++, यथा॒ वाक्च॑ प्रति॒ष्ठा च ।
पद-पाठः
द्वौ । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । यथा॑ । वाक् । च॒ । प्र॒ति॒ष्ठेति॑ प्रति-स्था । च॒ ।
भट्टभास्कर-टीका
द्वौ तृतीयसवनं वहतः सप्तदशैकविंशौ, यथा वाक्च प्रतिष्ठा चादौ पुरुषं वहतः । वाक्प्रतिष्ठयोः स्वकार्यकरणसामर्थ्ये कतिपयदिवसव्यपगतौ भवत इति चरमभावित्वमेतयोः ।
विश्वास-प्रस्तुतिः
पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः
मूलम्
पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः
पद-पाठः
पुरु॑षसम्मित॒ इति॒ पुरु॑ष-स॒म्मि॒तः॒ । वै । ए॒षः । य॒ज्ञः । अस्थू॑रिः । [1]
भट्टभास्कर-टीका
यथा प्राणादिवृत्तित्वेऽविशिष्टेऽपि विशिष्टोपकारजनकतया प्राणापानादिषट्कं भिद्यते एवं सवनभेदेनोपकारविशेषजनकतया पञ्चदशसप्तदशयोरावृत्त्याऽवस्थानात् षट्त्वोपपत्तिस्स्तोमानाम् । यस्मादेवं तस्मादेष यज्ञः पुरुषसम्मितः पुरुषेण तुल्यः । उपमानपूर्वपदप्रकृतिस्वरत्वम्, ‘तृतीया कर्मणि’ इति वा । अस्थूरिः अग्निष्टोमः । शाखान्तरीयपाठे च इयमग्निष्टोमस्याख्या । सर्वं स्वर्गादिफलं अस्थूरिणाऽग्निष्टोमेन अभ्यश्नुते, न प्रजापतिमेव । अस्थूरित्वं चास्य ‘द्वौ स्तोमौ प्रातस्सवनम्’ इत्यादिना प्रतिपादितम् । तथा अस्थूरिः पृष्ठवाही स चतुर्भिः पादैर्युज्यमानः स्वकार्यवहनं करोति यथा गवादिः । अयं तु प्रतिसवनं द्वाभ्यां युज्यमानस्स्वकार्यं करोति यथा शिरोवाही पुरुषः । तस्मादेष पुरुषसम्मित इति । ‘हि च’ इति निघाताभावः, ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च ॥
विश्वास-प्रस्तुतिः
यङ् काम॑ङ् का॒मय॑ते, तम् ए॒तेना॒भ्य॑श्ञुते। सर्वँ॒ ह्यस्थू॑रिणाभ्यश्ञु॒ते ।
मूलम्
यङ् काम॑ङ् का॒मय॑ते, तम् ए॒तेना॒भ्य॑श्ञुते। सर्वँ॒ ह्यस्थू॑रिणाभ्यश्ञु॒ते ।
पद-पाठः
यम् । काम॑म् । का॒मय॑ते । तम् । ए॒तेन॑ । अ॒भीति॑ । अ॒श्ञु॒ते॒ ।
सर्व॑म् । हि । अस्थू॑रिणा । अ॒भ्य॒श्ञु॒त इत्य॑भि-अ॒श्ञु॒ते ।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्टो॒मेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
अ॒ग्नि॒ष्टो॒मेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
पद-पाठः
अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ ।
भट्टभास्कर-टीका
3अय यदुक्तं ‘प्रजननं ज्योतिः’ इति, तत्समर्थयते अग्निष्टोमेनेत्यादिना ॥ अप्रजाताः प्रजा अजनयत्, प्रजाताश्च पर्यगृह्णात् विधेयीकृतवान् ।
विश्वास-प्रस्तुतिः
ता अ॒ग्नि॒ष्टो॒मेनै॒व पर्य॑गृह्णात् ।
मूलम्
ता अ॒ग्नि॒ष्टो॒मेनै॒व पर्य॑गृह्णात् ।
पद-पाठः
ताः । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । ए॒व । परीति॑ । अ॒गृ॒ह्णा॒त् ।
भट्टभास्कर-टीका
अग्नेस्स्तोमो यज्ञायज्ञीयः, तदन्तः क्रतुरग्निष्टोमः ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम् ।
विश्वास-प्रस्तुतिः
तासा॒म् परि॑गृहीतानाम् अश्वत॒रोऽत्य॑प्रवत ।
मूलम्
तासा॒म् परि॑गृहीतानाम् अश्वत॒रोऽत्य॑प्रवत ।
पद-पाठः
तासा॑म् । परि॑गृहीताना॒मिति॒ परि॑-गृ॒ही॒ता॒ना॒म् । अ॒श्व॒त॒रः । अतीति॑। अ॒प्र॒व॒त॒ ।भट्टभास्कर-टीका
तासां परिगृहीतानां प्रजानां मध्ये अश्वतरोत्यप्रवत परिग्रहमतीत्यागच्छत् । ज्युङ् प्रुङ् प्लुङ् गतौ । अश्वायां गर्दभेनोत्पन्नोश्वतरः । ‘वत्सोक्षाश्व’ इत्यादिना ष्टरच् ।
विश्वास-प्रस्तुतिः
तस्या॑नु॒हाय॒ रेत॒ आद॑त्त ।
मूलम्
तस्या॑नु॒हाय॒ रेत॒ आद॑त्त ।
पद-पाठः
तस्य॑ । अ॒नु॒हायेत्य॑नु-हाय॑ । रेतः॑ । एति॑ । अ॒द॒त्त॒ ।
भट्टभास्कर-टीका
तस्यानुहायानुगम्य रेत आदत्त गृहीतवान् । ओहाङ् गतौ ।
विश्वास-प्रस्तुतिः
तद्ग॑र्द॒भे न्य॑मार्ट्।
मूलम्
तद्ग॑र्द॒भे न्य॑मार्ट्।
पद-पाठः
तत् । ग॒र्द॒भे । नीति॑ । अ॒मा॒र्ट्॒ ।
भट्टभास्कर-टीका
तद्रेतो गर्दभे न्यमार्ट् निसृष्टवान् । मृजेर्लङि तिपि ‘मृजेर्वृद्धिः’ इति वृद्धिः, व्रश्चादिना षत्वम्, तिपो हल्ङ्यादिलोपे कृते ‘रात्सस्य’ इति नियमादन्त्यस्य न संयोगान्तलोपः ।
विश्वास-प्रस्तुतिः
तस्मा॑द्गर्द॒भो द्वि॒रेताः॑ ।
मूलम्
तस्मा॑द्गर्द॒भो द्वि॒रेताः॑ ।
पद-पाठः
तस्मा॑त् । ग॒र्द॒भः । द्वि॒रेता॒ इति॑ द्वि-रेताः॑ ।
भट्टभास्कर-टीका
तस्माद्गर्दभो द्विरेताः द्वयोर्गर्दभ्या बडबायाश्च प्रजायते इति कृत्वा द्विशक्तिकं रेतोस्येति द्विरेताः । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
अथो॑ आहु॒र्वड॑बाया॒न्न्य॑मा॒र्डिति॑ ।
मूलम्
अथो॑ आहु॒र्वड॑बाया॒न्न्य॑मा॒र्डिति॑ ।
पद-पाठः
अथो॒ इति॑ । आ॒हुः॒ ।
वड॑बायाम् । नीति॑ । अ॒मा॒र्ट्॒ । इति॑ ।
भट्टभास्कर-टीका
अथो अन्ये बडबायामश्वायां न्यमार्डित्याहुः ।
विश्वास-प्रस्तुतिः
तस्मा॒द्वड॑बा द्वि॒रेताः॑ ।
मूलम्
तस्मा॒द्वड॑बा द्वि॒रेताः॑ ।
पद-पाठः
तस्मा॑त् । वड॑बा । द्वि॒रेता॒ इति॑ द्वि-रेताः॑ ।
भट्टभास्कर-टीका
तस्माद्बडबा द्विरेता द्वाभ्यामश्वगर्दभाभ्यां प्रजायते इति कृत्वा द्वे रेतसी अस्मा[स्मि]न्निषिच्येते इति द्विरेताः ।
मूलम् (संयुक्तम्)
अथो॑ आहु॒रोष॑धीषु [2] न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुᳶ प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्मा॑द्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्मा॑द्ब॒र्हिष्यन॑वकॢप्तस्
विश्वास-प्रस्तुतिः
अथो॑ आ॒हु॒रोष॑धीषु न्य॑मा॒र्डिति॑ ।
मूलम्
अथो॑ आ॒हु॒रोष॑धीषु न्य॑मा॒र्डिति॑ ।
पद-पाठः
अथो॒ इति॑ । आ॒हुः॒ । ओष॑धीषु । [2] नीति॑ । अ॒मा॒र्ट्॒ । इति॑ ।
भट्टभास्कर-टीका
अथो अन्ये ओषधीषु न्यमार्डित्याहुः । ‘ओषधेश्च विभक्तौ’ इति दीर्घः ।
विश्वास-प्रस्तुतिः
तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभन्ति ।
मूलम्
तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभन्ति ।
पद-पाठः
तस्मा॑त् । ओष॑धयः । अन॑भ्यक्ता॒ इत्यन॑भि-अ॒क्ताः॒ । रे॒भ॒न्ति॒ ।
भट्टभास्कर-टीका
तस्मादोषधयोऽनभ्यक्ता अकृतमैथुना रेभन्ति जगति । प्रथने रेभशब्दः ।
विश्वास-प्रस्तुतिः
अथो॑ आ॒हु॒ᳶ प्र॒जासु॑ न्य॑मा॒र्डिति ।
मूलम्
अथो॑ आ॒हु॒ᳶ प्र॒जासु॑ न्य॑मा॒र्डिति ।
पद-पाठः
अथो॒ इति॑ । आ॒हुः॒ । प्र॒जास्विति॑ प्र-जासु॑ । नीति॑ । अ॒मा॒र्ट्॒ । इति॑ ।
भट्टभास्कर-टीका
अथापरे प्रजासु न्यमार्द्धित्याहुः ।
विश्वास-प्रस्तुतिः
तस्मा॑द्य॒मौ जा॑येते ।
मूलम्
तस्मा॑द्य॒मौ जा॑येते ।
पद-पाठः
तस्मा॑त् । य॒मौ । जा॒ये॒ते॒ इति॑ ।
भट्टभास्कर-टीका
तस्माद्यमौ प्रजासु प्रजायेते, रेतोद्वयस्य विद्यमानत्वात् ।
विश्वास-प्रस्तुतिः
तस्मा॑दश्वत॒रो न प्र जा॑यत ।
मूलम्
तस्मा॑दश्वत॒रो न प्र जा॑यत ।
पद-पाठः
तस्मा॑त् । अ॒श्व॒त॒रः । न । प्रेति॑ । जा॒य॒ते॒ ।
भट्टभास्कर-टीका
तस्मादश्वतरो न प्रजायते इति यस्मात्तस्मादनुहाय रेत आदत्ते इति प्रकृतेनान्वीयते ।
विश्वास-प्रस्तुतिः
आत्त॑रेता॒ हि तस्मा॑द्ब॒र्हिष्यन॑वकॢप्तः ।
मूलम्
आत्त॑रेता॒ हि तस्मा॑द्ब॒र्हिष्यन॑वकॢप्तः ।
पद-पाठः
आत्त॑रेता॒ इत्यात्त॑-रे॒ताः॒। हि । तस्मा॑त् । ब॒र्हिषि॑ । अन॑वकॢप्त॒ इत्यन॑व-कॢ॒प्तः॒ ।
भट्टभास्कर-टीका
तदेवाह - आत्तरेता हीति । हेतौ हिशब्दः । तस्मादेव बर्हिषि यज्ञे अश्वतरोनवकॢप्तः दक्षिणादौ योग्यतां न भजते, आत्तरेतस्त्वेनासारत्वात् ॥
मूलम् (संयुक्तम्)
सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑कॢ॒प्तोऽति॒ ह्यप्र॑वत॒ [3]
विश्वास-प्रस्तुतिः
सर्व-वे॒दसे वा॑, स॒हस्रे॑ वाऽव॑क्ल्प्तः।
मूलम्
सर्व-वे॒दसे वा॑, स॒हस्रे॑ वाऽव॑क्ल्प्तः।
पद-पाठः
स॒र्व॒वे॒द॒स इति॑ सर्व-वे॒द॒से । वा॒ । स॒हस्रे॑ । वा॒ । अव॑कॢप्त॒ इत्यव॑-कॢ॒प्तः॒ ।
भट्टभास्कर-टीका
4सर्ववेदस इत्यादि ॥ सर्वाणि वेदांसि अस्मिन्देयानीति सर्ववेदसं सर्वस्वदानम् ‘अनसन्तात्’ इत्यच्समासान्तः । यद्वा - सर्वधनवत्सर्ववेदसं, अर्शआदिनाऽच्समासान्तः । सहस्रदक्षिणत्वात्सहस्रमित्युपचारः, तत्रावकॢप्तः देय एव । गतिरनन्तरः ’ इति गतेः प्रकृतित्वरत्वम् ।
विश्वास-प्रस्तुतिः
अति॒ ह्यप्र॑वत ।
मूलम्
अति॒ ह्यप्र॑वत ।
पद-पाठः
अतीति॑ । हि । अप्र॑वत । यः । ए॒वम् । वि॒द्वान् । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । यज॑ते । प्रेति॑ । अजा॑ताः । प्र॒जा इति॑ प्र-जाः । ज॒नय॑ति । परीति॑ । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । गृ॒ह्णा॒ति॒ ।
भट्टभास्कर-टीका
हेतुमाह - अति ह्यप्रवतेति । ‘हि च’ इति निघातप्रतिषेधः । अयं च बर्हिष्यनवकॢप्तत्वे इतरत्र प्रदेयत्वे हेतुः । अग्निष्टोमदक्षिणाभूतगवादिसकाशात् निष्क्रान्तत्वात् तत्र तावदनवकॢप्तः सोयं ‘गौश्चाश्वतरश्च’ इति प्रकृतावाम्नानात् इह च प्रतिषिद्धत्वात् साप्तदश्यवत् विकृत्यर्थो भवति । तदिदमुक्तं - अति ह्यप्रवतेति । प्राकृतीर्दक्षिणा अतीत्य गतोयं इदानीं विकृत्यर्थोपि यदि न स्यात् आम्नानवैयर्थ्यं स्यात् । प्रासंगिकोयमश्वतरस्य क्षेपः ॥
मूलम् (संयुक्तम्)
य ए॒वव्ँवि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताᳶ प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ प्र॒जाप॑ति॒र्वाव ज्येष्ठ॒स्स ह्ये॑तेनाग्रेऽय॑जत
पद-पाठः
तस्मा॑त् । आ॒हुः॒ ।
ज्ये॒ष्ठ॒य॒ज्ञ इति॑ ज्येष्ठ-य॒ज्ञः । इति॑ । [3]
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वाव । ज्येष्ठः॑ ।
सः । हि । ए॒तेन॑ । अग्रे॑ । अय॑जत ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँवि॒द्वान् अ॒ग्नि॒ष्टो॒मेन॒ यज॑ते प्राजा॑ताᳶ प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒
मूलम्
य ए॒वव्ँवि॒द्वान् अ॒ग्नि॒ष्टो॒मेन॒ यज॑ते प्राजा॑ताᳶ प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒
पद-पाठः
यः । ए॒वम् । वि॒द्वान् । अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि-स्तो॒मेन॑ । यज॑ते । प्रेति॑ । अजा॑ताः । प्र॒जा इति॑ प्र-जाः । ज॒नय॑ति । परीति॑ । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । गृ॒ह्णा॒ति॒ ।
भट्टभास्कर-टीका
5य एवमित्यादि ॥ तस्मादग्निष्टोमेन यजेतेति विधिरनुमीयते । ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।
विश्वास-प्रस्तुतिः
तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ प्र॒जाप॑ति॒र्वाव ज्येष्ठः॑ ।
मूलम्
तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ प्र॒जाप॑ति॒र्वाव ज्येष्ठः॑ ।
पद-पाठः
तस्मा॑त् । आ॒हुः॒ ।
ज्ये॒ष्ठ॒य॒ज्ञ इति॑ ज्येष्ठ-य॒ज्ञः । इति॑ । [3]
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वाव । ज्येष्ठः॑ ।
भट्टभास्कर-टीका
तस्मादाहुरिति । यस्मादेवं प्रजासृष्ट्यर्थं प्रजापतिरनेनायजत तस्मादिममग्निष्टोमं ज्येष्ठयज्ञमाहुः। ज्येष्ठस्य प्रशस्तस्य प्रजापतेः यज्ञ इति कृत्वा । तदेवाह - प्रजापतिर्वावेत्यादि ।
विश्वास-प्रस्तुतिः
स ह्ये॑तेनाग्रेऽय॑जत ।
मूलम्
स ह्ये॑तेनाग्रेऽय॑जत ।
पद-पाठः
सः । हि । ए॒तेन॑ । अग्रे॑ । अय॑जत ।
भट्टभास्कर-टीका
अग्र इतीदानीमधिकं स्यात्; तस्मादन्यथा व्याख्यायते - ज्येष्ठः प्रथमः ज्येष्ठश्चासौ यज्ञश्चेति ज्येष्ठयज्ञः । प्राथम्ये हेतुमाह - यस्मात्प्रजा- पतिरनेनाग्रे प्रथममयजत ततोन्यः क्रतुभिः अयष्ट तस्मात् अयं प्रथमो यज्ञानामासीदिति, यथोक्तं - ‘एष वाव प्रथमो यज्ञो यज्ञानाम्’ इति । इदमिदानीं किमर्थं प्रजापतिर्वाव ज्येष्ठ इति? नानेन ज्येष्ठपदं व्याख्यायते, अपि तर्हि? वृद्धतमत्वं प्रजापतेरुच्यते; यथाऽनेन कृतं तथाऽन्यैः कर्तव्यमिति प्रतिपादनार्थम् । तस्मादनेनानिष्ट्वा अन्येन विकारेण न यजेतेति । ‘हि च’ इति निघाताभावः ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृत॒न्निर॑मिमीत॒ तम॒ग्निर्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथन्त॒रँसाम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जᳶप॑शू॒नान्तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्त
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयत ।
मूलम्
प्र॒जाप॑तिरकामयत ।
पद-पाठः
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । अ॒का॒म॒य॒त॒ ।
भट्टभास्कर-टीका
6प्रजापतिरकामयतेत्यादि ॥
विश्वास-प्रस्तुतिः
प्र जा॒ये॒येति॑ ।
मूलम्
प्र जा॒ये॒येति॑ ।
भट्टभास्कर-टीका
स्तोमानामुत्पत्तिरिहोच्यते । प्रासङ्गिकमग्न्यादीनाम् ।
पद-पाठः
प्रेति॑ । जा॒ये॒य॒ । इति॑ ।
विश्वास-प्रस्तुतिः
स मु॑ख॒तस् त्रि॒वृत॒न् निर॑मिमीत ।
मूलम्
स मु॑ख॒तस् त्रि॒वृत॒न् निर॑मिमीत ।
पद-पाठः
सः । मु॒ख॒तः । त्रि॒वृत॒मिति॑ त्रि-वृत॑म् । निरिति॑ । अ॒मि॒मी॒त॒ ।
भट्टभास्कर-टीका
त्रिवृतं नवस्तोत्रीयं स्तोमं मुखतो निरमिमीत । ‘अपादाने चाहीयरुहोः’ इति तसिः । त्र्यवयवास्तिस्रो वृत्तयोस्येति त्रिवृत्, त्रिचक्रादित्वादुत्तरपदान्तादोत्तत्वम् ।
विश्वास-प्रस्तुतिः
तम॒ग्निर्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथन्त॒रँ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जᳶ प॑शू॒नाम्।
मूलम्
तम॒ग्निर्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथन्त॒रँ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जᳶ प॑शू॒नाम्।
पद-पाठः
तम् । अ॒ग्निः । दे॒वता॑ । अन्विति॑ । अ॒सृ॒ज्य॒त॒ । गा॒य॒त्री । छन्दः॑ । र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् । साम॑ । ब्रा॒ह्म॒णः । म॒नु॒ष्या॑णाम् । अ॒जः । प॒शू॒नाम् ।
भट्टभास्कर-टीका
तमनु तेन सहाग्न्यादयोन्वसृज्यन्त । तृतीयार्थे अनोः कर्मप्रवचनीयत्वम् ।
विश्वास-प्रस्तुतिः
तस्मा॒त्ते मुख्याः॑ ।
मूलम्
तस्मा॒त्ते मुख्याः॑ ।
पद-पाठः
तस्मा॑त् । ते । मुख्याः॑ ।
भट्टभास्कर-टीका
मुख्याः प्रधाना इत्यर्थः । तमेव हेतुमाह -
विश्वास-प्रस्तुतिः
मु॒ख॒तो ह्यसृ॑ज्य॒न्त ।
मूलम्
मु॒ख॒तो ह्यसृ॑ज्य॒न्त ।
पद-पाठः
मु॒ख॒तः । हि । असृ॑ज्यन्त ।
भट्टभास्कर-टीका
मुखत इति । मुखे भवत्वान्मुख्यस्य च प्रधानत्वात् । दिगादित्वाद्यत् । यतो हि यत् निर्मीयते तत्र भवति तत् । न हि निष्क्रमणमात्रं निर्माणमिति । पूर्ववन्निघाताभावः ॥
मूलम् (संयुक्तम्)
उर॑सो बा॒हुभ्या॑म्पञ्चद॒शन्निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हत् [4] साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविᳶ॑ पशू॒नान्तस्मा॒त्ते वी॒र्या॑वन्तो वी॒र्या॑द्ध्यसृ॑ज्यन्त
विश्वास-प्रस्तुतिः
उर॑सो बा॒हुभ्या॑म्पञ्चद॒शन्निर॑मिमीत ।
मूलम्
उर॑सो बा॒हुभ्या॑म्पञ्चद॒शन्निर॑मिमीत ।
पद-पाठः
उर॑सः । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । प॒ञ्च॒द॒शमिति॑ पञ्च-द॒शम् । निरिति॑ । अ॒मि॒मी॒त॒ ।
भट्टभास्कर-टीका
7उरसो बाहुभ्यां पञ्चदशं पञ्चदशस्तोत्रीयं निरमिमीत । ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’ इति डः ।
विश्वास-प्रस्तुतिः
तमिन्द्रो॑ दे॒वतान्व॑सृज्यत, त्रि॒ष्टुप्छन्दो॑, बृ॒हत्साम॑ , राज॒न्यो॑ मनु॒ष्या॑णा॒म्, अविᳶ॑ पशू॒नाम् ।
मूलम्
तमिन्द्रो॑ दे॒वतान्व॑सृज्यत, त्रि॒ष्टुप्छन्दो॑, बृ॒हत्साम॑ , राज॒न्यो॑ मनु॒ष्या॑णा॒म्, अविᳶ॑ पशू॒नाम् ।
पद-पाठः
तम् । इन्द्रः॑ । दे॒वता॑ । अन्विति॑ । अ॒सृ॒ज्य॒त॒ । त्रि॒ष्टुप् । छन्दः॑ । बृ॒हत् । [4] साम॑ । रा॒ज॒न्यः॑ । म॒नु॒ष्या॑णाम् । अविः॑ । प॒शू॒नाम् ।
भट्टभास्कर-टीका
ततस्त्विन्द्रादयोसृज्यन्त ।
विश्वास-प्रस्तुतिः
तस्मा॒त्ते वी॒र्या॑वन्तः ।
मूलम्
तस्मा॒त्ते वी॒र्या॑वन्तः ।
पद-पाठः
तस्मा॑त् । ते । वी॒र्या॑वन्त॒ इति॑ वी॒र्य॑-व॒न्तः॒ ।
भट्टभास्कर-टीका
वीर्यावन्तः । ‘अन्येषामपि’ इति दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
वी॒र्या॑द्ध्यसृ॑ज्यन्त ।
मूलम्
वी॒र्या॑द्ध्यसृ॑ज्यन्त ।
पद-पाठः
वी॒र्या॑त् । हि । असृ॑ज्यन्त ।
भट्टभास्कर-टीका
तमेव हेतुमाह - वीर्यादिति । वीर्यवतः स्थानादित्यर्थः । वीर्यवत्त्वातिशयप्रदर्शनार्थं ताच्छब्द्यम् । लुप्तमत्वर्थीयो वा ॥
मूलम् (संयुक्तम्)
मध्य॒तस्स॑प्तद॒शन्निर॑मिमीत॒ तव्ँविश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒पँ साम॒ वैश्यो॑ मनु॒ष्या॑णा॒ङ्गावᳶ॑ पशू॒नान्तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒द्ध्यसृ॑ज्यन्त॒ तस्मा॒द्भूयाँ॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त
विश्वास-प्रस्तुतिः
म॒ध्य॒तस् स॑प्तद॒शन् निर॑मिमीत ।
मूलम्
म॒ध्य॒तस् स॑प्तद॒शन् निर॑मिमीत ।
पद-पाठः
म॒ध्य॒तः । स॒प्त॒द॒शमिति॑ सप्त-द॒शम् । निरिति॑ । अ॒मि॒मी॒त॒ ।
भट्टभास्कर-टीका
8मध्यत उदरात् सप्तदशस्तोत्रं निरमिमीत ।
विश्वास-प्रस्तुतिः
तव्ँ विश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त , जग॑ती॒ छन्दो॑, वै॒रू॒पँ सााम॒, वैश्यो॑ मनु॒ष्या॑णा॒ङ्, गावᳶ॑ पशू॒नाम् ।
मूलम्
तव्ँ विश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त , जग॑ती॒ छन्दो॑, वै॒रू॒पँ सााम॒, वैश्यो॑ मनु॒ष्या॑णा॒ङ्, गावᳶ॑ पशू॒नाम् ।
पद-पाठः
तम् । विश्वे॑ । दे॒वाः । दे॒वताः॑ । अन्विति॑ । अ॒सृ॒ज्य॒न्त॒ । जग॑ती । छन्दः॑ । वै॒रू॒पम् । साम॑ । वैश्यः॑ । म॒नु॒ष्या॑णाम् । गावः॑ । प॒शू॒नाम् ।
भट्टभास्कर-टीका
तमनु विश्वेदेवादयोन्वसृज्यन्त ।
विश्वास-प्रस्तुतिः
तस्मा॒त्त आ॒द्याः॑ । अ॒न्न॒धाना॒द्ध्यसृ॑ज्यन्त ।
मूलम्
तस्मा॒त्त आ॒द्याः॑ । अ॒न्न॒धाना॒द्ध्यसृ॑ज्यन्त ।
पद-पाठः
तस्मा॑त् । ते । आ॒द्याः॑ ।
अ॒न्न॒धाना॒दित्य॑न्न-धाना॑त् । हि । असृ॑ज्यन्त ।
भट्टभास्कर-टीका
आद्या उपजीव्याः, कृष्यादीनां क्षीरादीनां च तदधीनत्वात् । तमेव हेतुमाह - अन्नधानादित्यादि । अन्नानि अशनामि धीयन्ते अस्मिन्नित्यन्नधानमुदरम् ।
विश्वास-प्रस्तुतिः
तस्मा॒द्भूयाँ॑ सो॒ऽन्येभ्यः॑ ।
मूलम्
तस्मा॒द्भूयाँ॑ सो॒ऽन्येभ्यः॑ ।
पद-पाठः
तस्मा॑त् । भूयाँ॑सः । अ॒न्येभ्यः॑ ।
भट्टभास्कर-टीका
तस्माद्भूयांसो बहुतराः अन्येभ्यः उत्पन्नेभ्यः ।
विश्वास-प्रस्तुतिः
भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त ।
मूलम्
भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त ।
भट्टभास्कर-टीका
तमेव हेतुमाह - यस्मात् भूयिष्ठाभिर्बहुतमाभिः देवताभिर्विश्वेदेवाख्याभिस्सहासृज्यन्त जगत्यादयः तस्मात् भूयांसोन्येभ्यः, अन्ये त्वेकैकामनूत्पन्ना इति नातिभूयांसः ॥
मूलम् (संयुक्तम्)
प॒त्त ए॑कविँ॒शन्निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दः॑ [5]
अन्व॑सृज्यत वैरा॒जँ साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वᳶ॑ पशू॒नान्तस्मा॒त्तौ भू॑तसङ्क्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्मा॑च्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतᳶ प॒त्तो ह्यसृ॑ज्येताम्
विश्वास-प्रस्तुतिः
प॒त्त ए॑कविँ॒शन्निर॑मिमीत ।
मूलम्
प॒त्त ए॑कविँ॒शन्निर॑मिमीत ।
पद-पाठः
प॒त्तः । ए॒क॒विँ॒शमित्ये॑क-विँ॒शम् । निरिति॑ । अ॒मि॒मी॒त॒ ।
भट्टभास्कर-टीका
9पत्तः पद्भ्यां एकविंशस्तोत्रीयं निरमिमीत । ‘पद्दन्नः’ इत्यादिना पद्भावः ।
विश्वास-प्रस्तुतिः
तम॑नु॒ष्टुप्छन्दो॑ऽन्व॑सृज्यत। +++(सम्पादकटिप्पनी - सन्धिः परीक्षणीयः)+++, वै॒रा॒जँ॒ साम॑, शू॒द्रो म॒नुष्या॑णाम्, अश्वᳶ॑ पशू॒नाम् ।
मूलम्
तम॑नु॒ष्टुप्छन्दो॑ऽन्व॑सृज्यत। +++(सम्पादकटिप्पनी - सन्धिः परीक्षणीयः)+++, वै॒रा॒जँ॒ साम॑, शू॒द्रो म॒नुष्या॑णाम्, अश्वᳶ॑ पशू॒नाम् ।
पद-पाठः
तम् । अ॒नु॒ष्टुबित्य॑नु-स्तुप् । छन्दः॑ । [5]
1 । अन्विति॑ । अ॒सृ॒ज्य॒त॒ । वै॒रा॒जम् । साम॑ । शू॒द्रः । म॒नु॒ष्या॑णाम् ।
अश्वः॑ । प॒शू॒नाम् ।
भट्टभास्कर-टीका
तमनुष्टुबादयोन्वसृज्यन्त ।
विश्वास-प्रस्तुतिः
तस्मा॒त्तौ भू॑तसङ्क्रा॒मिणौ॑ अश्व॑श् च शू॒द्रश् च॑ ।
मूलम्
तस्मा॒त्तौ भू॑तसङ्क्रा॒मिणौ॑ अश्व॑श् च शू॒द्रश् च॑ ।
पद-पाठः
तस्मा॑त् । तौ । भू॒त॒स॒ङ्क्रा॒मिणा॒विति॑ भूत-स॒ङ्क्रा॒मिणौ॑ । अश्वः॑ । च॒ । शू॒द्रः । च॒ ।
भट्टभास्कर-टीका
तौ भूतसंक्रामणौ विदितावेतावनन्तरोक्तावश्वशूद्रौ भूतानां संक्रामयितारौ वोढृत्वेन देशाद्देशान्तरं प्रापयतः कृष्यादिव्यापारद्वारा इत्यर्थः । वक्ष्यमाणः ‘पत्तो ह्यसृज्येताम्’ इति हेतुः अत्रापि द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
तस्मा॑च्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तः ।
मूलम्
तस्मा॑च्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तः ।
पद-पाठः
तस्मा॑त् । शू॒द्रः । य॒ज्ञे । अन॑वकॢप्त॒ इत्यन॑व-कॢ॒प्तः॒ ।
भट्टभास्कर-टीका
तस्मादेव शूद्रो यज्ञे सर्वात्मनाऽनवकॢप्तः ।
विश्वास-प्रस्तुतिः
न हि दे॒वता॒ अन्वसृ॑ज्यत ।
मूलम्
न हि दे॒वता॒ अन्वसृ॑ज्यत ।
पद-पाठः
न । हि । दे॒वताः॑ । अन्विति॑ । असृ॑ज्यत ।
भट्टभास्कर-टीका
हेतुं चाह - न हीति । न ह्यश्वशूद्रौ देवताभिस्सहासृज्यत, एकविंशसृष्ट्यादौ देवतासृष्ट्यभावात् । नन्वश्वस्यापि समानमेतत् । सत्यम् । तस्य स्वयमेव सर्वदेवताधारत्वात् न देवताभिस्सह सृष्ट्यभावो यागायोग्यतामस्यावहतीति नूनं मन्यन्ते । यथोक्तं - ‘तस्मादश्वे सर्वा देवता अन्वायत्ताः’ इति ।
विश्वास-प्रस्तुतिः
तस्मा॒त्पादा॒वुप॑ जीवतः ।
मूलम्
तस्मा॒त्पादा॒वुप॑ जीवतः ।
पद-पाठः
तस्मा॑त् । पादौ॑ । उपेति॑ । जी॒व॒तः॒ ।
भट्टभास्कर-टीका
तस्मात्पादावुपजीवत इति । स्वप्रयासाधीनजीवना इत्यर्थः ।
विश्वास-प्रस्तुतिः
प॒त्तो ह्यसृ॑ज्येताम् ।
मूलम्
प॒त्तो ह्यसृ॑ज्येताम् ।
पद-पाठः
प॒त्तः । हि । असृ॑ज्येताम् ।
भट्टभास्कर-टीका
कस्मादित्याह - पत्तो हीति ॥
मूलम् (संयुक्तम्)
प्रा॒णा वै त्रि॒वृद॑र्धमा॒साᳶ प॑ञ्चद॒शᳶ प्र॒जाप॑तिस्सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒शः
विश्वास-प्रस्तुतिः
प्रा॒णा वै त्रि॒वृत् ।
मूलम्
प्रा॒णा वै त्रि॒वृत् ।
पद-पाठः
प्रा॒णा इति॑ प्र-अ॒नाः । वै । त्रि॒वृदिति॑ त्रि-वृत् ।
भट्टभास्कर-टीका
10प्राणा वा इत्यादि ॥ स्तोमानां स्तुतिः । नवत्वान्वयात्त्रिवृदादीनां प्राणादित्वेन स्तुतिः ‘न व वै पुरुषे प्राणाः’ इति ।
विश्वास-प्रस्तुतिः
अ॒र्ध॒मा॒साᳶ प॑ञ्चद॒शः ।
मूलम्
अ॒र्ध॒मा॒साᳶ प॑ञ्चद॒शः ।
पद-पाठः
अ॒र्ध॒मा॒सा इत्य॑र्ध-मा॒साः । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः ।
भट्टभास्कर-टीका
अर्धमासाः पञ्चदशदिवसाः पञ्चदशः ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिस्सप्तद॒शः ।
मूलम्
प्र॒जाप॑तिस्सप्तद॒शः ।
पद-पाठः
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः ।
भट्टभास्कर-टीका
प्रजापतिः सप्तदशात्मा छन्दस्यः । यथा - ‘यो वै सप्तदशम्’ इत्यादि । यद्वा - प्रजोत्पत्तिहेतुत्वात्सप्तदशस्य प्रजापतित्वेन स्तुतिः ।
विश्वास-प्रस्तुतिः
त्रय॑ इ॒मे लो॒काः ।
मूलम्
त्रय॑ इ॒मे लो॒काः ।
पद-पाठः
त्रयः॑ । इ॒मे । लो॒काः ।
भट्टभास्कर-टीका
सप्तदशेन प्रजापतिना त्रिभिश्च लोकैः सम्मितः ।
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
मूलम्
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
पद-पाठः
अ॒सौ । आ॒दि॒त्यः । ए॒क॒विँ॒श इत्ये॑क-विँ॒शः ।
भट्टभास्कर-टीका
आदित्यः एकविंशत्यन्वयादेकविंशः स्तोमः ॥
मूलम् (संयुक्तम्)
ए॒तस्मि॒न्वा ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वव्ँ वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ [6]
विश्वास-प्रस्तुतिः
ए॒तस्मि॒न्वा ए॒ते श्रि॒ताः ।
मूलम्
ए॒तस्मि॒न्वा ए॒ते श्रि॒ताः ।
पद-पाठः
ए॒तस्मि॑न् । वै । ए॒ते । श्रि॒ताः ।
भट्टभास्कर-टीका
11एतस्मिन्नित्यादि ॥ एवमनेन प्रकारेण एतस्मिन्नेतत्स्तोमचतुष्टयवत्यग्निष्टोमे एते प्राणादय आदित्यपर्यन्ताश्श्रिताः,
विश्वास-प्रस्तुतिः
ए॒तस्मि॒न्प्रति॑ष्ठिताः ।
मूलम्
ए॒तस्मि॒न्प्रति॑ष्ठिताः ।
पद-पाठः
ए॒तस्मि॑न् । प्रति॑ष्ठिता॒ इति॒ प्रति॑-स्थि॒ताः॒ ।
भट्टभास्कर-टीका
एतस्मिन्नेव प्रतिष्ठिताः अत्रैव नियतं वर्तन्ते, न कदाचिदिमं त्यजन्ति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ ।
मूलम्
य ए॒वव्ँ वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ ।
पद-पाठः
यः । ए॒वम् । वेद॑ । ए॒तस्मि॑न् । ए॒व । श्र॒य॒ते॒ । ए॒तस्मि॑न् । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥ [6]
भट्टभास्कर-टीका
एवं वेदिता एतस्मिन्नग्निष्टोमे श्रितः प्रतिष्ठितश्च भवति एतदनुष्ठानशीलो भवति ॥
इति सप्तमे प्रथमे प्रथमोनुवाकः ॥