+भास्करभाष्यम्

यजुर्वेदभाष्यपीठिका

ईशानस्सर्वविद्यानां भूतानां ईश्वरᳶपरः ।
पुनातु सर्वदा चास्मान् शब्दब्रह्ममयश्शिवः ॥

अत्राहुः- यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥ (नि. 1.18) इति ।

किञ्च- ‘स्थाणुरयं भारहारᳵ किलाभूद् अधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूत पाप्मा ॥ (नि. 1.18) इति ।

‘स्वाध्यायोऽध्येतव्यः’ (तै.आ. 2.15)
इति विधिना चार्थज्ञानपर्यन्तमध्ययनं विधीयत इति न्यायसिद्धम् । श्रूयते च,
‘यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ (छा.उ. 1.1.10),
‘य उ चैनमेवं वेद’ (तै.सं. 5.3.12) इति च ।

मन्त्राःᳶ पुनरविदितार्थाः नानुष्ठेयप्रकाशनसमर्थाः । तस्मात्प्रतिपन्नवेदार्थोऽनुष्ठाताऽभिलषितानि कर्मफलानि प्राप्नोति, न च प्रत्यवैति, इति वेदार्थः प्रतिपत्तव्यः । अत्र मनुः-
सैनापत्यं च राज्यं च वेदविद्ब्राह्मणोऽर्हति ॥ (मनु. 12.100) इति ।
अत्र च- इतिहासपुराणज्ञः पदवाक्यप्रमाणवित् ।
अर्थोपकारवेदी +++[अङ्गोपकारवेदी-इति पाठान्तरम्]+++च वेदार्थं ज्ञातुमर्हति ॥
इति, अनेवंविधा अल्पश्रुता नाधिक्रियन्ते ।
मन्त्राणां विनियोगमक्षरविधिं छन्दांस्यृषीन्देवताः ।
काण्डर्षीन्निगमान्निरुक्तमितिहासाख्यायिका ब्राह्मणम् ।
वाक्यार्थस्वररूपवृत्तिमननन्यायांश्च वक्ष्ये पृथक् ।
शब्दानामनसूयवस्सुमनसश्शृण्वन्तु जिज्ञासवः ॥
एतैष्षोडशभिस्सहैव विदितः पुंसां भवेच्छ्रेयसे ।
वेदार्थस्सषडङ्ग एव खलु सोऽध्येयश्श्रुतौ चोद्यते ।
वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादिभाष्याण्यतो
भाष्यं सर्वपथीनमेतदधुना सर्वीयमारभ्यते ॥
तस्मात्- प्रणम्य शिरसाऽऽचार्यान्बोधायनपुरस्सरान् ।
व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते ॥

अपि च- ‘यो हवा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्छति गर्तं वा पद्यते प्र वा मीयते पापीयान्भवति यातयामान्यस्य छन्दांसि भवन्ति अथ यो मन्त्रेमन्त्रे वेद स सर्वमायुरेति’ (आ.ब्रा. 1.1)
इत्यादिदर्शनात्प्रतिमन्त्रमृष्यादीनि ज्ञातव्यानि । अत्र मन्त्राणामृषिर्द्रष्टा । अक्षरसङ्ख्याविशेषश्छन्दः । मन्त्रवाच्योर्थो देवता । विनियोजकं ब्राह्मणम् । तत्रैकैव महती देवता अग्निवायुसूर्यरूपेण विभक्ता सर्वत्र ध्यातव्या ; तासां विभूतयः पृथिव्यन्तरिक्षद्युस्थानस्थाः अन्या अपि देवता इति नैरुक्ताः (नि. 7.5) । ताश्च प्रतिमन्त्रं लिङ्गैर्विनियोगेन च गम्यन्ते च ज्ञायन्ते च । न तासां पृथगभिधानाय प्रयत्स्यामः । ऋषयः प्रजापत्यादयः प्रतिकाण्डं भिद्यन्ते । ते च होमतर्पणाद्यर्थं च ज्ञातव्याः । तदाहुः- अथ काण्डऋषीनेतानुदकाञ्जलिभिश्शुचिः ।
अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च ॥
काण्डोपाकरणेप्वेतान्पुरस्तात्सदसस्पतेः ।
जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥ (काण्डानुक्रमणी 2.10-11) ॥

तत्र प्रजापतेर्नवकाण्डानि - पौरोडाशिकं, याजमानं, होतारः, इष्टिहौत्रं, चतुर्णां च ब्राह्मणानि, पितृमेधश्चेति । सोमस्य नवकाण्डानि - अध्वरग्रहदाक्षिणानि, तेषां त्रयाणां ब्राह्मणमेकं, वाजपेयः, तस्य च ब्राह्मणम्, सवाः, शुक्रियं ‘नमो वाचे’ (तै.आ. 7.1) इत्यादिकं, तस्य च ब्राह्मणमिति ।
अथाग्नेः सप्त काण्डानि - अग्न्याधेयं, पुनराधेयं, अग्न्युपस्थानं, अग्निः, तस्य च ब्राह्मणं, ‘सावित्राणि जुहोति’ (तै.सं. 5.1.1) इत्यादि, तस्यैव द्वितीयं ब्राह्मणं ‘यदेकेन’ (तै.सं. 5.5.1) इत्यादि, अग्निहोत्रब्राह्मणमिति ।

अथ विश्वेषां देवानां षोडश काण्डानि - राजसूयः, तस्य च ब्राह्मणं, काम्याः पशवः, काम्या इष्टयः, उपानुवाक्यं ‘प्रजापतिरकामयत’ (तै.सं. 3.1.1) इति प्रश्नपञ्चकं, याज्याः, अश्वमेधः, तस्य च ब्राह्मणं, सत्राणि, उपहोमाः, सूक्ताणि, नक्षत्रेष्टयः, सौत्रामणिः, अच्छिद्राणि पशुहौत्रं, नरमेधः इति । सांहितीनामुपनिषदां सांहित्य उपनिषद ऋषयः ‘शंनो मित्रः’ (तै.आ. 5.1) इत्यादीनाम् । याज्ञिकीनामुपनिषदां याज्ञिक्यः ‘अम्भस्यपारे’ (तै.आ. 6.1.1) इत्यादीनाम् । वारुणीनां वारुणः ‘सह नाववतु’ (तै.आ. 5.13) इत्यादीनाम् । इत्येवं तित्तिरिशाखायां चतुश्चत्वारिंशत्काण्डानि ।

अथ काठके काण्डान्यष्टौ हव्यवाडादीनाम् । तत्र हव्यवाहः चत्वारि काण्डानि ; सावित्रचित्यं, नाचिकेतचित्यं, चातुर्होत्रचित्यं, वैश्वसृजचित्यमिति । अथारुणकेतुकचित्यस्यारुणाः काण्डर्षयः ।
अथ विश्वेषां देवानां द्वे काण्डे ; दिवश्श्येनेष्टयः ‘तुभ्यम्’ (तै.का. 3.1) ‘देवेभ्यः’ (तै.का. 3.2) इत्यनुवाकौ, अपाघेष्टयः ‘तपसा’ (तै.का. 3.3) ‘देवेभ्यः’ (तै.का. 3.4) इत्यनुवाकौ । अथ स्वाध्यायब्राह्मणस्य ब्रह्मा स्वयम्भूः ऋषिः । अथैकाग्निकाण्डं ‘प्रसुग्मन्ता’ (तै.ए. 1.1) इति प्रश्नद्वयं वैश्वदेवाग्निमन्त्राश्च, तस्य विश्वेदेवा ऋषयः ॥
अत्र च काण्डानां सङ्कीर्णत्वेपि यथाम्नायमेवाध्येयं सारस्वतत्वादस्य पाठस्य । सरस्वती हि स्वसुताय सारस्वतायेमं पाठमुपदिदेश । स च सर्वविद्यानिधिरमुमेव पाठमध्यैष्ट । तस्मादयमनतिक्रमणीय इति ।
किञ्च – पूर्वं भगवता व्यासेन जगदुपकारार्थमेकीभूय स्थिता वेदाः व्यस्ताः, शाखाश्च परिच्छिन्नाः । तत्र वैशम्पायनं नाम शिष्यं यजुश्शाखानामाधिपत्ये नियुयोज । स चैतं पाठं यास्काय, यास्कश्च तित्तिरये, सोपि चोखाय, उखश्चात्रेयाय ददौ येन पदविभागश्चक्रे । अतश्चेयं शाखा आत्रेयीत्युच्यते । उक्तं च- एतानृषीन्यजुर्वेदे यः पठेद्वै स वेदवित् । (काण्डानुक्रमणी 3.134) इति ।

अथैषां काण्डानामाद्यवसानावगमः परस्ताद्व्याख्यानावसरे भविष्यति । अयं च वेदो विध्यर्थवादमन्त्रात्मना त्रेधा भवति । विधयश्चोदनाः । अर्थवादास्स्तुतयः । मन्त्रा अनुष्ठेयार्थप्रकाशकाः । एते च ऋग्यजुषविभागेन द्वेधा वर्तन्ते । ऋचः पादबद्धाः । अतोऽन्यानि यजूंषि । अत्राहुः-

पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः ।
स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदम् ॥ (तै.प्रा. 24.6) इति ।

तस्मात्- विनियोगस्य मन्त्राणां भेदस्यर्ग्यजुषस्य च ।
पदार्थस्वररूपाणामभिव्यक्त्यै च यत्यते ॥