सायणो ऽत्र।
यज्ञः
आ॒द॒र्शम्+++(=आदर्शनीयम्)+++ अ॒ग्निञ् चि॑न्वा॒नाः ।
पूर्वे॑ विश्व॒सृजो॒ऽमृताः॑ ।
श॒तव्ँ व॑र्षसह॒स्राणि॑ ।
दी॒क्षि॒तास् स॒त्त्रमा॑सत ॥ 50 ॥
तप॑ आसीद्गृ॒ हप॑तिः ।
ब्रह्म॑ ब्र॒ह्मा ऽभ॑वत्स्व॒यम् ।
स॒त्यँ ह॒ होतै॑षा॒म् आसी॑त् ।
यद्वि॑श्व॒सृज॒ आस॑त ।
अ॒मृत॑मेभ्य॒ उद॑गायत् ।
स॒हस्रं॑ परिवत्स॒रान् ।
भू॒तँ ह॑ प्रस्तो॒तैषा॒मासी॑त् ।
भ॒वि॒ष्यत्प्रति॑ चाहरत् ।
प्रा॒णो अ॑ध्व॒र्युर् अ॑भवत् ।
इ॒दँ सर्वँ॒ सिषा॑सताम्+++(=आन्तं चिकीर्षताम्)+++ ॥ 51 ॥
अ॒पा॒नो +++(प्रयोग)+++वि॒द्वान् आ॒वृतः॑ ।
प्रति॒ +++(प्रतिस्थाता भूत्वा)+++ प्राति॑ष्ठदध्व॒रे ।
आ॒र्त॒वा उ॑पगा॒तारः॑ ।
स॒द॒स्या॑ ऋ॒तवो॑ऽभवन् ।
अ॒र्ध॒मा॒साश्च॒ मासा॑श्च ।
च॒म॒सा॒ध्व॒र्य॒वोऽभ॑वन् ।
अशँ॑स॒द् ब्रह्म॑ण॒स् +++(शस्त्राणि)+++ तेजः॑ +++(ब्राह्मणाच्छंसाख्य ऋग्विग्भूत्वा)+++।
अ॒च्छा॒वा॒को ऽभ॑व॒द् यशः॑ ।
ऋ॒तमे॑षां प्रशा॒स्ताऽऽसी॑त् ।
यद्वि॑श्व॒सृज॒ आस॑त ॥ 52 ॥
+++(आसन्दीरूपेण)+++ ऊर्ग्+++(=रसः)+++ +++(सोमं)+++ राजा॑न॒म् उद॑वहत् ।
ध्रु॒व॒गो॒पस् सहो॑ ऽभवत् ।
ओजो॒ ऽभ्य॑ष्टौ॒द् ग्राव्ण्णः॑ ।
यद् वि॑श्व॒सृज॒ आस॑त ।
+++(प्रोता भूत्वा)+++ अप॑चितिः+++(=पूजा)+++ पो॒त्रीया॑म् +++(याज्याम्)+++ अयजत् ।
+++(नेष्टा भूत्वा)+++ ने॒ष्ट्रीया॑म् +++(याज्याम्)+++ अयज॒त् त्विषिः॑+++(=दीप्तिः)+++ ।
आग्नी॑द्ध्राद्+++(=तत्पात्रग्रहणनिमित्तात्)+++ वि॒दुषी॑ स॒त्यम् +++(कर्म)+++ ।
श्र॒द्धा है॒वाय॑जत् स्व॒यम् ।
इरा॒ पत्नी॑ विश्व॒सृजा॑म् ।
आकू॑तिर्+++(=सङ्कल्पः)+++ अपिनड्+++(=पिषॢँ पेषणे)+++ +ह॒विः ॥ 53 ॥
इ॒ध्मँ ह॒ क्षुच् चै॑भ्य उ॒ग्रे ।
तृ॒ष्णा चाव॑हतामु॒भे ।
वागे॑षाँ सुब्रह्म॒ण्या ऽऽसी॑त् ।
छ॒न्दो॒यो॒गान् वि॑जान॒ती ।
क॒ल्प॒त॒न्त्राणि॑ तन्वा॒नाऽहः॑ ।
सँ॒स्थाश् च॑ सर्व॒शः ।
अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ ।
मु॒हू॒र्ताः प्रे॒ष्या॑ अभवन् ।
मृ॒त्युस् तद॑भवद् +++(निःशब्दपशोर्)+++ धा॒ता।
श॒मि॒तोग्रो वि॒शां पतिः॑ +++(मृत्युः)+++॥ 54 ॥
वि॒श्व॒सृजः॑ प्रथ॒मास् स॒त्त्रमा॑सत ।
स॒हस्र॑समं॒ +++(सोमेन)+++ प्रसु॑तेन॒ यन्तः॑ ।
ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः ।
हि॒र॒ण्मय॑श् +++(ज्ञानकर्मपक्षवान्)+++ श॒कुनि॒र् ब्रह्म॒नाम॑ ।
फलस्तुतिः
येन॒ सूर्य॒स्तप॑ति॒ तेज॑से॒द्धः ।
पि॒ता पु॒त्त्रेण॑ पितृ॒मान् योनि॑योनौ +++(=योनौ योनौ)+++ ।
नावे॑दविन् मनुते॒ तं बृ॒हन्त॑म् ।
स॒र्वा॒नु॒भूम् आ॒त्मानँ॑ +++(परलोक-)+++संपरा॒ये ।
ए॒ष नि॒त्यो म॑हि॒मा ब्रा॑ह्म॒णस्य॑ ।
न कर्म॑णा वर्धते॒ नो कनी॑यान् ॥ 55 ॥
तस्यै॒वात्मा प॑द॒वित्तव्ँ वि॑दित्वा ।
न कर्म॑णा लिप्यते॒ पाप॑केन ।
कालः
पञ्च॑पञ्चा॒शत॑स् त्रि॒वृत॑स् सव्ँ वत्स॒राः ।
पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः ।
पञ्च॑पञ्चा॒शत॑स् सप्तद॒शाः ।
पञ्च॑पञ्चा॒शत॑ एकविँ॒शाः ।
वि॒श्व॒सृजाँ॑ स॒हस्र॑सव्ँवत्सरम् ।
ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दव्ँ विश्व॑मसृजन्त ।
फलस्तुतिः
यद्विश्व॒मसृ॑जन्त । तस्मा॑द्विश्व॒सृजः॑ ।
विश्व॑मेना॒ननु॒ प्रजा॑यते ।
ब्रह्म॑ण॒स् सायु॑ज्यँ सलो॒कताय्ँ॑यन्ति ।
ए॒तासा॑मे॒व +++(आदित्य-)+++दे॒वता॑नाँ॒ सायु॑ज्यम् ।
सा॒र्ष्टिताँ॑+++(=समानौश्वर्यतां)+++ समानलो॒कताय्ँ॑ यन्ति ।
य +++(सहस्रसंवत्सरसत्रम्)+++ ए॒तदु॑प॒यन्ति॑ । ये चै॑न॒त् प्राहुः॑ । येभ्य॑श् चैन॒त् प्राहुः॑ । ओम् ॥ 56 ॥