तस्यै॒वात्मा प॑द॒वित्तव्ँ वि॑दित्वा । न कर्म॑णा लिप्यते॒ पाप॑केन । पञ्च॑पञ्चा॒शत॑स्त्रि॒वृत॑स्सव्ँ वत्स॒राः । पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः । पञ्च॑पञ्चा॒शत॑स्सप्तद॒शाः । पञ्च॑पञ्चा॒शत॑ एकविँ॒शाः । वि॒श्व॒सृजाँ॑ स॒हस्र॑सव्ँ वत्सरम् । ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दव्ँ विश्व॑मसृजन्त । यद्विश्व॒मसृ॑जन्त । तस्मा॑द्विश्व॒सृजः॑ । विश्व॑मेना॒ननु॒ प्रजा॑यते । ब्रह्म॑ण॒स्सायु॑ज्यँ सलो॒कताय्ँ॑यन्ति । ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् । सा॒र्ष्टिताँ॑ समानलो॒कताय्ँ॑यन्ति । य ए॒तदु॑प॒यन्ति॑ । ये चै॑न॒त्प्राहुः॑ । येभ्य॑श्चैन॒त्प्राहुः॑ । ओम् ॥