09 7

वि॒श्व॒सृजः॑ प्रथ॒मास्स॒त्त्रमा॑सत । स॒हस्र॑समं॒ प्रसु॑तेन॒ यन्तः॑ । ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः । हि॒र॒ण्मय॑श्श॒कुनि॒र्ब्रह्म॒नाम॑ । येन॒ सूर्य॒स्तप॑ति॒ तेज॑से॒द्धः । पि॒ता पु॒त्त्रेण॑ पितृ॒मान् योनि॑योनौ । नावे॑दविन्मनुते॒ तं बृ॒हन्त॑म् । स॒र्वा॒नु॒भुमा॒त्मानँ॑ संपरा॒ये । ए॒ष नि॒त्यो म॑हि॒मा ब्रा॑ह्म॒णस्य॑ । न कर्म॑णा वर्धते॒ नो कनी॑यान् ॥