इ॒ध्मँ ह॒ क्षुच्चै॑भ्य उ॒ग्रे । तृ॒ष्णा चाव॑हतामु॒भे । वागे॑षाँ सुब्रह्म॒ण्याऽऽसी॑त् । छ॒न्दो॒यो॒गान् वि॑जान॒ती । क॒ल्प॒त॒न्त्राणि॑ तन्वा॒नाऽहः॑ । सँ॒स्थाश्च॑ सर्व॒शः । अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ । मु॒हू॒र्ताः प्रे॒ष्या॑ अभवन् । मृ॒त्युस्तद॑भवद्धा॒ता । श॒मि॒तोग्रो वि॒शां पतिः॑ ॥