09 5

ऊर्ग्राजा॑न॒मुद॑वहत् । ध्रु॒व॒गो॒पस्सहो॑ऽभवत् । ओजो॒भ्य॑ष्टौ॒द्ग्राव्ण्णः॑ । यद्वि॑श्व॒सृज॒ आस॑त । अप॑चितिः पो॒त्रीया॑मयजत् । ने॒ष्ट्रीया॑मयज॒त्त्विषिः॑ । आग्नी॑द्ध्राद्वि॒दुषी॑ स॒त्यम् । श्र॒द्धा है॒वाय॑जत्स्व॒यम् । इरा॒ पत्नी॑ विश्व॒सृजा॑म् । आकू॑तिरपिनड्ढ॒विः ॥